भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 352, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 352

सानुवाद-मिताक्षरावृत्तिसहितानि २८५

स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥
मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा।
यं पुत्रं प्रतिगृह्णीयादपविद्धस्तु स स्मृतः ॥ इति।

षडेते रिक्थभाजः पुत्राः ॥ ३० ॥

औरस, क्षेत्रज, दत्तक, कृत्रिम, गूढोत्पन्न और अपविद्ध पुत्र सम्पत्ति के अधिकारी होते हैं ॥ ३० ॥

कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः ॥३१॥

पितृवेश्मनि कन्या तु यं पुत्रं जनयेदिह।
तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ इति।

अत्र वसिष्ठः—अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥ इति।

याज्ञवल्क्यः—कानीनः कन्यकाजातो मातामहसुतो मतः ॥ इति।
तत्राप्रत्तायामेव मृतायां मातामहस्य पुत्रः पौत्रो वा। ऊढायां वोढुः।
अत्र मनुः—

या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया।
उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ॥

पुत्रिकापुत्रः पूर्वमेवोक्तः। मनुः—

मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात्।
आत्मानं स्पर्शयेद्यस्मै स्वयंदत्तस्तु स स्मृतः ॥
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ इति।

एते तु गोत्रभाजो गोत्रमेव केवलं भजन्ते न रिक्थम्। पूर्वे तु रिक्थभाजो गोत्रभाजश्चौरसेन सहाभिधानात्। सर्वे चैते सजातीयाः।

सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः।

इति याज्ञवल्क्यवचनात् ॥ ३१ ॥

अविवाहित स्त्री का पुत्र, गर्भवती अवस्था में विवाहिता स्त्री का पुत्र, दो बार विवाहित स्त्री का पुत्र, पुत्रिका का पुत्र, स्वयं दत्त और क्रीत पुत्र अपने पिता के परिवार के होते हैं ॥ ३१ ॥

चतुर्थांशिन औरसाद्यभावे ॥ ३२ ॥
अथवा नैते कानीनादयो न रिक्थभाजः किंतु चतुर्थांशिनः। पितृ-

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित) · पृष्ठ 352, कुल 360 में से · BharatKosha