भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 353, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 353

२८६ गौतमधर्मसूत्राणि

धनस्य चतुर्थमंशं भजेरन्। पूर्वोक्तानां षण्णामौरसादीनामभावे। भावे तु त एव भजेरन्। चतुर्थांशादतिरिक्तं च सपिण्डा गृह्णीयुः। यदत्र पुत्रिकापुत्रस्यौरसाद्यभावेऽपि चतुर्थांशभाक्त्वमुक्तं तदपकृष्टपुत्रिकापुत्र-विषयम्। यो हीनवर्णाया भार्याया दुहितरं पुत्रिकां करोति तत्राप्यभि-सन्धिमात्रेण तत्पुत्रविषयमित्यर्थः। अत्र मनुः—

पुत्रिकायां कृतायां तु यदि पुत्रोऽनु जायते।
समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः॥ इति।
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात्।
औरसो विभजन्दायं पित्र्यं पञ्चममेव वा॥
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ।
दशापरे तु क्रमशॊ गोत्ररिक्थांशभागिनः॥ इति च।

अत्र दत्तपुत्रग्रहणानन्तरं वसिष्ठः—यस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्यते चतुर्थभागभागी स्यादिति। अत्र कात्यायनः—

उत्पन्ने त्वौरसे पुत्रे तृतीयांशहराः सुताः।
सवर्णा असवर्णास्तु ग्रासाच्छादनभागिनः॥ इति।

अत्र बृहस्पतिः—

एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः।
तत्तुल्यः पुत्रिकापुत्रो भर्तव्यास्त्वपरे स्मृताः॥
क्षेत्रजाद्याः सुतास्त्वन्ये पञ्चषट्सप्तभागिनः॥ इति।

हारीतः—विभजिष्यमाण एकविंशं कानीनाय दद्याद्विंशं पौनर्भवायै-कोनविंशं द्वयामुष्यायणायाष्टादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरा-नौरसायेति।

याज्ञवल्क्यो द्वादश पुत्राननुक्रम्याऽऽह—

पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः। इति।

मनुरपि—

श्रेयसः श्रेयसोऽभावे यवीयान् रिक्थमर्हति। इति।

नारदोऽपि—

क्रमादेते प्रवर्त्तन्ते मृते पितरि तद्धने।
ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात्॥ इति।

वसिष्ठोऽपि—यस्य तु पूर्वेषां च न कश्चिद्दायादः स्यादेते तस्य दायं हरेयुरिति।

अत्रौरसः पुत्रिकापुत्रः क्षेत्रजः कानीनो गूढोत्पन्नोऽपविद्धः सहोढः पौनर्भवो दत्तः स्वयमुपागतः कृतकः क्रीत इति क्रमेण पुत्रानभिधाय देवलः—

एते द्वादश पुत्रास्तु संतत्यर्थमुदाहृताः।
आत्मजाः परजाश्चैव लब्धा यादृच्छिकास्तथा॥