भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 354, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 354

सानुवाद-मिताक्षरावृत्तिसहितानि २८७

तेषां षड् बन्धुदायादाः पूर्व ये पितुरेव षट् ।
विशेषश्चापि पुत्राणामानुपूर्व्याद्विशिष्यते ॥
सर्वेऽप्यनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न गच्छति ॥
तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।
हीनाः समुपजीवेयुर्मासाच्छादनसंभृताः ॥ इति ।

बन्धुदायादा इति बन्धूनां सपिण्डानामध्येते दायं हरेयुर्न केवलं पितुरेव । इतरे पितुरेवेति । एष एव स्मृत्यन्तरेष्वपि बन्धुदायादशब्दस्यार्थः । तदेवम्—
औरसः पुत्रिका बीजिक्षेत्रिणौ पुत्रिकासुतः ।
पौनर्भवश्च कानीनः सहोढो गूढसंभवः ॥
दत्तक्रीतस्वयंदत्ताः कृत्रिमश्चापविद्धकः ।
यत्र क्व चोत्पादितश्च पुत्राख्या दश पञ्च च ॥
अनेनैव क्रमेणैषां पूर्वाभावे परः परः ।
पिण्डदोऽंशहरश्चेति युक्ता गुणवशा स्थितिः ॥ इति ॥ ३२ ॥

औरस आदि पुत्रों के अभाव में उपर्युक्त (अविवाहिता स्त्री के पुत्र आदि) को चौथा अंश मिलता है ॥ ३२ ॥

उक्तः सवर्णपुत्राणां विभागः । अथ क्रमविवाहेष्वसवर्णपुत्रेषु विशेषमाह—

ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ॥ ३३ ॥

ब्राह्मणस्य राजन्यायां जातः पुत्रो यदि गुणसम्पन्नो ज्येष्ठश्च भवति तदा ब्राह्मणीपुत्रेण यवीयसा तुल्यभाक् । एकस्य वयसा ज्यैष्ठ्यमपरस्य जात्येति ॥ ३३ ॥

ब्राह्मण का क्षत्रिया से उत्पन्न पुत्र ज्येष्ठ हो और सद्गुणी हो तो ब्राह्मणी स्त्री से उत्पन्न छोटे पुत्रों के बराबर अंश ग्रहण करता है ॥ ३३ ॥

ज्येष्ठांशहीनमन्यत् ॥ ३४ ॥

विंशतिभागो ज्येष्ठस्येत्यादिर्य उद्धारः पूर्वमुक्तस्तद्व्यतिरिक्तमन्यद्धिभजेतेति प्रकरणाद् गम्यते । गुणहीने ज्येष्ठे च राजन्यापुत्रे मानवम्—
सर्वं वा रिक्थजातं तद्दशधाऽत्र विभज्य तु ।
धर्म्यं विभागं कुर्वीत विधानेन तु धर्मवित् ॥
चतुरोंऽशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः ।
वैश्यापुत्रो हरेद् द्व्यंशमेकं शूद्रासुतो हरेत् ॥ इति ॥ ३४ ॥