गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 68, कुल 360 में से
संदर्भ में पढ़ेंसानुवाद-मिताक्षरावृत्तिसहितानि ३
श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्यं स्मार्तं वैदिकवत्सदा ॥ इति ॥ ५ ॥
दो समान कोटि के प्रमाणों में विरोध उपस्थित होने पर विकल्प होता है (अर्थात् उनमें से किसी एक का अनुसरण किया जा सकता है। श्रुति और स्मृति के प्रमाण समान कोटि के नहीं होते; अतः इनमें परस्पर विरोध होने पर स्मृति मान्य नहीं होती ॥ ५ ॥)
अथेदानीं धर्मान् वक्ष्यन्नुपनयनपूर्वकत्वात्तेषामुपनेयनं तावदाह—
उपनयनं ब्राह्मणस्याष्टमे ॥ ६ ॥
उपनयनानन्तरभाविनि ब्राह्मणत्वेऽत्र [ ब्राह्मणग्रहणम् ] । ब्राह्मणग्रहणं तु ब्राह्मणस्य सत एवोपनयनं न तूपनयनादिसंस्कारजन्मब्राह्मण्यमिति ज्ञापनार्थम् । किंच ब्राह्मणो न हन्तव्यः । ब्राह्मणो न सुरां पिबेदिति निषेधश्रुतिरनुपनीतविषये ( या ) न स्यात् । ब्राह्मणस्याष्टमं वर्षं मुख्यमुपनयनकालः । प्रथमभाविनो गर्भाधानादीन्संस्कारानुल्लङ्घ्योपनयनं व्याचक्षाणस्तस्य प्राधान्यं दर्शयति । तेन दैवानुपपत्त्या गर्भाधानादेरकरणेऽप्युपनयनं भवति । तस्याकरणे तु विवाहादिष्वनधिकार इति सिद्धम् ॥ ६ ॥
ब्राह्मण का उपनयन संस्कार आठवें वर्ष में होना चाहिये ॥ ६ ॥
नवमे पञ्चमे वा काम्यम् ॥ ७ ॥
कामनिमित्तं काम्यम् । तन्नवमे पञ्चमे वा भवति । नवमे तेजस्काममित्यापस्तम्बः ।
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे । इति मनुः ॥ ७ ॥
( तेज की कामना से ) नवें या ( ब्रह्मवर्चस् की इच्छा से ) पाँचवें वर्ष में इच्छानुकूल ( ब्राह्मण का उपनयन संस्कार करना चाहिए ) ॥ ७ ॥
गर्भादिः संख्या वर्षाणाम् ॥ ८ ॥
वर्षाणां संख्या गर्भादिरेव भवति । न जननादिः ॥ ८ ॥
( उपनयन काल के ) वर्षों की गिनती गर्भकाल से करनी चाहिए ( जन्म के समय से नहीं ) ॥ ८ ॥
तद्द्वितीयं जन्म ॥ ९ ॥
तदुपनयनं द्वितीयं जन्म । अत्रास्य माता सावित्री पिता त्वाचार्यः । तेन द्विजन्मत्वसिद्धिः ॥ ९ ॥