गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 101, कुल 332 में से
संदर्भ में पढ़ें७० दर्शपूर्णमासविधिः । [१ प्रपाठके पश्चास्तमितेति पृषोदरादित्वात् (पा० ६।३।१०९) साधुः । यद्वा “पश्चपश्चा च छन्दसि” (पा० ५।३।३३) इति निपातितस्यात्रार्षे वचसि प्रयोगः । कलाहीने निशाकरे पूर्वमुदिते सति यत्रभास्करोऽस्तमेति सेयमनुमती नाम पूर्णमो- च्यते । इयमेव “उच्चै”रिति सूत्रिता । अस्तमिते सूर्ये चन्द्रस्योद्गमः, युगपच्च सूर्यस्यास्तमयः पूर्णचन्द्रस्याद्गमश्च, इति द्वयी राका भवति । अत्राद्या अस्तमितोदिता । द्वितीया सन्ध्येत्यस्मदीयन्दर्शनम् । एतस्मा- ल्लिङ्गात् । सन्ध्या पौर्णमासी अपि अस्तमयसन्ध्यासम्बन्धिनी गृह्यते न पुनरुदयसन्ध्यासम्बन्धिन्यपि इति युक्तम् । सेयमभिद्यमानेऽप्यर्थे भिन्नयोराचार्ययोर्भिन्नरीतिरित्यनवद्यम् ॥ ( इति चन्द्रकान्तभाष्यम् ) ॥१०॥ उच्चैः पौर्णमासी तावच्चतुर्दशीमिश्रा भवति, सेयमुदयदिनगामिनी । क- तरा पुनरत्रोपोष्या ? तत्राह— अथ यदहः पूर्णोभवति ॥ ११ ॥ अथेत्यनन्तरार्थमुच्चैः पौर्णमास्याम् एष एव विधिरिति दर्शयति। अथ शब्दः सूत्रभेदप्रज्ञापनार्थः । अन्यथा पूर्वेण सूत्रेणास्यैकसूत्रता स्यात् । उच्चैर्वा यदहः पूर्णो भवति” इत्येके वर्णयन्ति । यदहर्यस्मिन्नहनि पूर्णः—सकलकलोपचया- दखण्डमण्डलश्चन्द्रमा भवति । तामुपवसेदित्यर्थः ॥ ११ ॥ कदा पुनरेवं भूतश्चन्द्रमा भवति ? कः खलु ज्ञानोपायोऽस्यार्थस्येत्याका- ङ्क्षायामाह— पृथगेवैतस्य ज्ञानस्याध्यायो भवति, अधीयीत वा तद्विद्भ्यो वा पर्वागमयेत् ॥ १२ ॥ पृथक् अन्य एव एतस्य पूर्वविवक्षितस्य उपायभूतो ज्ञानस्य अध्यायः अधीयत इत्यध्यायो ग्रन्थः । नित्यमधिपूर्वका“इङ् अध्ययने” ( अ० आ० ) इत्यस्मात्कर्म्मणि घञ् ( पा० ३।३।१२२ ) वृद्धिः । भवति । तमधीयीत । स्वयं पठेत् । वा अथवा तज्ज्ञानं ये विदन्ति त इमे तद्विदो—ज्योतिश्शास्त्रविदः । तेभ्यः सकाशादेव(१) । पर्व-दर्शपूर्णमासाख्यमागमयेत् । सम्यग् मर्यादया जानीयात् । कस्मिन्काले चन्द्रमाः क्षीयते ? इति । तत्र क्षयकालः कात्यायनेनैव तत आकृष्य दर्शितः— “अष्टमांशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याऽष्टमांशे च ततः किल भवेदणुः ॥” इति । पूर्णताकालः परमस्त्वस्माभिर्वक्तुमवशिष्यते । पञ्चदश्यां मुहूर्त्ते चन्द्रमाः सकलकलोपचयादखण्डमण्डलो भवति । इति ज्योतिर्विदः कथयन्ति । ( १ ) वा-शब्दस्त्वर्थे ।