गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 119, कुल 332 में से
संदर्भ में पढ़ें८८ दर्शपूर्णमासविधिः । [ १ प्रपाठके- तत् । तदेवं प्रतिदिशमयुग्मैः परस्परसंलग्नैः कुशैरेकम्परिस्तरणं सम्पद्यते । तस्य खल्वस्य त्रिः पञ्चकृत्वो वा करणमुपदिश्यत इत्यर्थः । तदिदं परिस्तरणं पूर्वस्यामुत्तरान्ताद्दक्षिणान्तं यावत् । दक्षिणायां पूर्वान्तात्पश्चिमन्तं यावत् । यथा दक्षिणस्यान्तथोत्तरस्याम् । यथा पूर्वस्यान्तथा पश्चाद्दिशि कर्त्तव्यम् । प- रिस्तरणक्रियाविशेषणमेतत्सर्वन्द्वष्टव्यमिति मुरारिमिश्राः प्राहुः(१) ॥ ११ ॥ अथेदानपरिस्तरणप्रकारोऽभिधीयते-- प्रागग्रैरग्रैर्मूलानि च्छादयन् ॥ १२ ॥ प्राक् प्रथमं पतितान्यग्राणि येषान्तैस्तथाभूतैः कुशैः समन्तं परिस्तृणुया- दिति सिंहावलोकितेन समन्वयितव्यम् । तथैव कर्म्मठप्रसिद्धेः । कथमित्यपे- क्षायामाह-अग्रैरिति । अग्रमूलक्रमेण स्थापिनकुशानामूलानि स्थाप्यमानकु- शाग्रैश्छादयन्नीशानादाग्नेयान्तं वायव्यान्रैर्ऋतान्तं प्राक् प्रतीच्योः । प्राक्प्रत्य- क्क्रमेण च दक्षिणोत्तरयोरित्येष परिस्तरणक्रम आयाति । किन्तु-“प्राङ्युदञ्चि वा कर्म्माणि सन्तिष्ठन्ते" इति श्रुतेराजानिकशिष्टाचापरिगृहीतत्वादाग्नेय्या- मुत्तराग्रास्तीर्णकुशाग्राधस्तादास्तीर्य्यमाणकुशमूलङ्कार्य्यमित्येवमुदक्संस्था भवति । तथाच साङ्ख्यायनीये-“प्रागग्रैः कुशैः परिस्तृणो”ति-इत्युपक्रम्य “सर्वाश्चावृत्तो- दक्षिणाप्रवृत्तय उदक्संस्था भवन्ति” इत्युक्तम् । आवृत्तः प्रक्रियाः परिपाट्योवां “आवृत्पर्रिपाटी अनुक्रमः” इत्यमरः ।। आश्वलायनोऽपि-“दिक्षु सर्वासूद- क्संस्था-प्राच्यादिषु परिस्तृतिः” इत्युक्तवान् । अतएव पार्वणे पश्चिमादारभ्य पूर्वान्तम् । आभ्युदयिकेच दक्षिणादारभ्योत्तरान्तमर्ध्यादिक्रमः सकलशिष्टा- चारपरिगृहीत उपलभ्यते । वीरेश्वरादयोऽपि-“आग्नेयादीशानान्तम्” इत्येवं परिस्तरणक्रमं स्वपद्धतौ वाजसनेयके लिखन्ति स्म । यत्तु-प्रागग्रैरित्यनेन प्रा- क्पश्चिमयोरपि पूर्वाग्राणामेव कुशानाम्परिस्तरणमिति केषाञ्चिन्मतं तत्र परि- धिकार्य्यनिर्वाहकताऽग्रे (१।७।१६) वक्ष्यमाणा नोपपद्यते । इति द्रष्टव्यम् ॥१२॥ परिस्तरणे प्रकारान्तरमाह- पश्चाद्वाऽऽस्तीर्य दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण ॥१३॥ वा-अथवा। पश्चात्--प्रतीच्यामग्रैः । प्राच्यामिवास्तीर्य । दक्षिणतः-- दक्षिणास्यां, प्राञ्चं पूर्वपूर्वाप्रक्रमेण यथास्यात्तथा (अग्रैर्मूलानिच्छादयन्) प्रकर्षति । प्रकीर्णयति । ( परिस्तृणाति ) तथा-तेनैव प्रकारेण । उत्तरेण उत्त- नैवायुग्मत्वे प्राप्ते एकत्रृत्तस्यापि प्राप्यर्धमिदम् “शब्दाधिक्यादि”--तिन्यायात् । तथा- चशृङ्गान्तरम्-“सकृत्त्रिर्वा प्रदक्षिणं प्रतिदिशमग्नेरि”—ति । संहतमन्तरालशून्यं, सर्व- मिदं क्रियाविशेषणमिति द्रष्टव्यम् । अत्रप्रदक्षिणमिति शाखान्तराभिप्रायमित्याहुः ॥ ( १ ) अत्रारुचिविशेषोऽनुपदं मूलएव द्रष्टव्यः ॥