गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 127, कुल 332 में से
संदर्भ में पढ़ेंएवमाज्यस्य संस्कारः पूर्वैर्गोवोत्तरह्य तु ॥” इति । एवञ्च यत्किञ्चिदवशिष्टे संस्कृते घृतादौ पुनर्घृतान्तरप्रवेशने तत्र न संस्कारान्तरापेक्षा । सर्वापचारे पुनस्तदपेक्षैव तत्र संस्काराभावादिति द्रष्ट- व्यम् ॥ वारत्रयमेवमाज्यसंस्कार इति पद्धतिकृतोधीरोश्वरादयः ॥ एवमाज्यस्य संस्करणकल्पोभवतीति ॥ २८ ॥ इति गो० गृ० प्र० प्र० के सप्तमी कण्डिका ॥ १ ॥ ७ ॥ ॐ ॥ एवमनेन प्रकारेण आज्यस्य संस्करणकल्पोभवति । यत्र यत्राज्यं संस्कृ- यते तत्र तत्रैवकत्तर्व्यमित्यर्थः । इतिः कण्डिकापरिसमाप्त्यर्थः । स्रुवादिसंस्कार- समुच्चयार्थो वा । तथाच गृह्यान्तरम्-“स्रुवं प्रतप्य दर्भैः सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात्” इति । कर्म्मप्रदीपोप्याह-- “तेषां प्राक्शः कुशैः कार्य्यः सम्प्रमार्गोऽजुहूवता । प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा ॥” इति ॥ २८ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मृदुलाख्यायां मुकुन्दशर्म्मकृतायाम्प्रथ- मप्रपाठकस्य सप्तमी कण्डिका ॥ १ ॥ ७ ॥ * ॥ अथाष्टमी कण्डिका - पूर्वमाज्यमपरः स्थालीपाकः ॥ १ ॥ पूर्वापरदेशत्वाद्द्वयोरपि पूर्वापरव्यपदेशः । पूर्वस्यान्दिश्याज्यम् आसाद- यितव्यम् । अपरस्याञ्च स्थालीपाक आसादयितव्य इति शेषः । पूर्वं खल्वग्ने- रुत्तरतः समासादितयोरनयोरिदानीङ्क्रियासौकर्यार्थमग्नेः पश्चिमतः पूर्वापरभावेन समासादनमिति बोद्धव्यम् । तथाच गृह्यान्तरम्--“होत्रग्न्योरन्तरा आज्यह- विषी आसादयेत्” इति । इदानीं हविषः पश्चिमतः समासादनादेव वक्ष्यत्या- चार्य्यः “अथैतद्धविरुच्छिङ्घमुदगुद्वास्य” इति ॥ १ ॥ पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघात ँहोतुमेवोपक्रमते २ “अदितेऽनुमन्यस्व” इत्येवमादिनाऽग्निं पर्युक्ष्यस्थालीपाके चरौ आज्य- मानीय--प्रक्षिप्य मेक्षणेन यथोक्तेन ( १।५।१९ सू० ) उपघातम्--उपघात- नामा यथा भवति होमस्तथा होतुमेवोपक्रमते--प्रारभेत इत्यर्थः । विद्ध्यर्थेऽत्र- लेट् । एवकारोऽवधारणार्थः । नान्यत् किञ्चिदभिघारणादिकं कुर्य्यादिति तदर्थः । “चरावाज्यमानीय प्रपद्विरूपाक्षौ जपित्वा समिधमाधाय जुहुयादेव” इति भट्टभाष्यम् । तदनेनोपघातहोमे अभिघारणादिकमाज्यभागौ च न भवतीति