गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 130, कुल 332 में से
संदर्भ में पढ़ें८ कण्डिका ] गोभिलगृह्यसूत्रे— ९९ कथमवद्यतीत्युच्यते— मध्यात्पूर्वाद्धाच्चतुरवत्ती चेद्भवति, मध्यात्पूर्वाद्धात् पश्चाद्धादिति पञ्चावत्ती चेद्भवतीति ॥ ६ ॥ मध्यात् — चरोर्म्मध्यप्रदेशात् । पूर्वाद्धात् — चरोरित्येव । चशब्दश्च समुच्च- यार्थोलुप्तवद्द्रष्टव्यः । तथाचान्यत्राप्युक्तम् “विनापि चं समुच्चयो द्योत्यते गाम- श्वं पुरुषम्पशुमिति यथे ” ति । तथाच गृह्यान्तरं “मध्यात्पूर्वाद्धाच्च हविषोऽव- द्यति” इति । चतुःकृत्वोऽवत्तान्यवदानानि सन्त्यस्येति (१) मत्वर्थ इनिः । ( पा० ५।२।११५ ) एवमग्रेऽपि । चेद्यदि अवदाता भवति तर्हि मध्यात्पूर्वाद्धा- च्चावद्यतीति गतेन सम्बन्धः । चेत्-यदि पुनः पञ्चावत्ती अवदाता भवति, तदा चरोर्म्मध्यात् — पूर्वाद्धात् पश्चाद्धात्-अपराद्धाच्च(२) अवद्यतीत्यर्थः । इति-एवमवदानं भवतीति मन्तव्यम् ॥ ६ ॥ अभिघारयत्यवदानानि ॥ ७ ॥ अवदानानि—यथा श्रुचि गृहीतानि हवींषि अभिघारयति-आज्यस्रुवेणा- प्लावयति । बहुवचनं वक्ष्यमाणत्रिर्होमापेक्षया । व्यक्तिभेदापेक्षया वा ॥ ७ ॥ प्रत्यनक्त्यवदानस्थानान्ययातयामतायै ॥ ८ ॥ अवदानानां स्थानानि येभ्योऽवद्यति तानि मेक्षणेनानक्ति-अङ्क्तानि करोतीत्यर्थः । बहु- वचनं पूर्ववद्व्याख्येयम् । प्रति प्रत्येकम् अनक्ति — अक्तानि करोति । आज्यस्रु- वेणाप्लावयतीत्यर्थः । किमर्थम् ? अयातयामतायै । यज्ञायोग्यता यातयामते- त्युच्यते(३) । न यातयामताऽयातयामता तस्यै । एतदुक्तं भवति । मेक्षणक्षतेन यातयामता चरोरुत्पद्यते । आज्याप्लावनेन पुनरयातयामता तस्य भवतीति ॥८॥ एवं खल्ववदाय— अग्नये स्वाहेति मध्ये जुहुयात् ॥ ६ ॥ मध्ये-अग्नेरेव ॥ ९ ॥ ( १ ) यद्यपि “न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेतदर्थप्रतिपत्तिकर” इति न्यायᳲपाणिनीयैराहतस्तथाप्येष “कृष्णसर्पवान्वल्मीक.” इत्यादौ व्यभिचरित इत्यु- पेक्षितोऽत्र तस्य परिग्रहः ॥ ( २ ) पश्चिमाद्धात् । “अपरस्यार्द्धे पश्चभावो वक्तव्य” ( पा० २।२।१८ वा० ) इति साधुः ॥ ( ३ ) तथाच “यो ह वा अविहितार्षेयच्छन्दोदैवतमन्त्रेण यजति याजयति अधी- तेऽध्यापयति × × × ×वा यातयामान्यस्य च्छन्दांसि भवन्ती”ति ॥ उद्धृत्य शिष्ट- मुच्छिष्टमित्येष दोषोऽपनीयते प्रत्यञ्जनेनेति वदन्ति ॥