भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 131, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 131

२०७ दर्शपूर्णमासविधिः । [ १ प्रपाठके

कति जुहुयादित्युच्यते— सकृद्वा त्रिर्वैतेन कल्पेन ॥ १० ॥ एतेन कल्पेन-अनन्तरोक्तयाऽऽवृता ( परिपाट्या ) इत्यादरार्थमुक्तम् सकृद्वा त्रिर्वा जुहुयात् । वाशब्दद्वयन्तुल्यवद्विकल्पार्थम् । त्रित्वपक्षे च—"ए- का देया तिस्रोदेया" (१)इत्यादिवच्छ्रेयोभूयस्त्वं कल्पयितव्यम् । अन्ये- त्वाहुः अभावविकल्पोऽयं, त्रित्वपक्षाशक्तौ सकृत् ॥ १० ॥ अथ स्विष्टकृत उपस्तीर्यावद्यत्युत्तरार्द्धपूर्वाद्धत् । सकृदेव भूयिष्ठमवद्य द्विरभिघारयेत् ॥ ११ ॥ अथ—प्रधानहोमानन्तरं स्विष्टकृतः(२) अर्थे । अवद्यति अवदाय(३) स्रु- चि गृह्णाति । किङ्कृत्वा ? उपस्तीर्य—सकृदाज्यं स्रुवेण स्रुचि निधाय । कथम् ? चरोरुत्तरार्द्धपूर्वाद्धत्-अपराजिताया ( ऐशान्या ) दिशः । सकृदेक- वारमेव भूयिष्ठं बहुतरं यथा स्यात्तथा अवद्य-हविर्द्विरभिघारयेत् । आज्य- स्रुवेण वारद्वयमाप्लावयेत् । एवं किल चत्वार्यवदानानि सम्पद्यन्ते । सकृदुप- स्तरणमवदानं हविषोद्विरभिघारणञ्चेति ॥ ११ ॥ यद्यु पञ्चावत्ती स्याद्विरुपस्तीर्यावदाय द्विरभिघारयेत् ॥ १२ ॥ उ वितर्के(४) । यदि पुनरयं यजमानः पञ्चावत्ती(५) स्यात् तर्हि द्विरु- पस्तीर्थ अवदाय हविर्द्विरभिघारयेत्—द्विवारमाप्लावयेत् । पञ्चावदानसम्पत्त्य- र्थम् ॥ पञ्चावत्तिनस्तु— "जामदग्न्या विदा वत्सा वार्षिषेणास्तथैव च । भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः" ॥ इति गोभिल गृह्यभाष्योक्ता बोध्याः ॥ १२ ॥ न प्रत्यवनक्त्यवदानस्थानान्ययातयामतायै ॥ १३ ॥ स्विष्टकृतोऽर्थेऽवद्य होमान्तरकर्त्तव्यताभावात्तदर्थ-मयातयामतायै प्रत्यवने- जनमवदानस्थानस्य नोपयुज्यत इति न प्रत्यवनक्तीति समासार्थः । अत्र "मश- काय धूम" इतिवन्निवृत्त्यर्थं (६)भाक्तमिदमयातयामताया इति । केचित्तु-


( १ ) कात्यायनोऽपि "यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयोविशिष्यते" इति ॥ ( २ ) चतुर्थ्यन्तपाठे तादर्थ्यं चतुर्थी बोध्या ॥ ( ३ ) द्यतिरत्र खण्डने ( दि० प० ॥ ( ४ ) "यद्युवा" इति पाठे सोऽयं निपातसमुदायो यद्यर्थ इति भाष्यम् ॥ ( ५ ) अत्र "कृष्णसर्पवान्वल्मीक" इतिवन्मत्वर्थीय इनिर्बोद्ध्यः । पञ्च-संख्याकम् । ग्रस्तमवदानमस्यास्तीति कर्त्तरि षष्ठ्यर्थे इनिः ॥ ( ६ ) लाक्षणिकम् ।