गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 132, कुल 332 में से
संदर्भ में पढ़ें८ कण्डिका ] गोभिलगृह्यसूत्रे--- १०१ संहितापाठे षष्ठ्यन्तं पठन्ति । तत्र निवृत्त्यर्थमित्यस्याध्याहारः क्लेशः । पञ्च- म्यन्तत्वे तु हेतौ पञ्चमी "विभाषा" ( पा० २।३।८५ ) इति योगविभागाद्बो- ध्या । यातयामं पर्युषितम् ॥ १३ ॥ अग्नये स्विष्टकृते स्वाहेत्युत्तरपूर्वार्द्धे जुहुयात् ॥ १४ ॥ उत्तरपूर्वार्द्धे-अग्नेरेव । ऐशान्यामिति तदर्थः ॥ १४ ॥ महाव्याहृतिभिराज्येनाभिजुहुयात् ॥ १५ ॥ भू-र्भुवः-स्वरिति तिस्रोमहाव्याहृतयः प्रसिद्धाः । कर्म्मप्रदीपोऽप्याह— “भूराद्यास्तिस्र एवेता महाव्याहृतयोऽव्ययाः” इति । ताभिः स्रुवेण (१)कृत्वाऽऽज्येनाभिस्रुव्येन जुहुयात् । स खल्वयम- हाव्याहृतिहोमश्चरुहोमे पश्चादेव । तथैवोपदेशात् । आज्याहुतिषु तु पुरस्ता- त्परस्ताच्च कर्त्तव्य इति वक्ष्यत्युपरिष्टात् ॥ १५ ॥ प्राक्स्विष्टकृत आवापः ॥ १६ ॥ स्विष्टकृत—स्तद्धोमात्प्राक्” आउप्यत इत्यावापः । प्रधानहोमः “कर्त्तव्यः” इति शेषः । मुख्यहोममात्रे-स्विष्टकृत्तदन्ते महाव्याहृतिहोमः । ततः कर्मापवर्ग- विहितां समिधमाधाय प्रायश्चित्तहोम आज्येनाज्यतन्त्रेण कार्यः । हविषोऽना- देशात् । स च यद्यपि “सर्वस्यैव प्रायश्चित्तिः” इति श्रुतेरुल्लिखितुमुचितः । भट्टभाष्येऽपि “एतत्सर्वं प्रायचित्तं क्षिप्रहोमवर्ज्जं सर्वत्रैव स्यादि”त्युक्तन्तथा- प्यर्थं प्रकृतहोमवैगुण्य एव तत्प्रशमनार्थोविधीयते, इति नाऽसाववैगुण्ये कर्त्तव्य इति नात्र सूत्रित आचार्येण । अनियतत्वादिति द्रष्टव्यम् । अत्र मुख्यहोमेऽकृते यदि चरुर्नष्टोदुष्टोवा भवति तदान्यः पाक्यः । मु- ख्ये कृते चेन्नाशदुष्टी स्यातान्तदाऽऽज्येनैव स्विष्टकृद्धोम इति सरलाकार आह । चन्द्रकान्तस्तु—“एकदेशद्रव्योत्पत्तौ विद्यमानसंयोगात्” (४-१-२८) इति जैमिनीयसिद्धान्तात्स्विष्टकृद्धोमस्य प्रतिपत्तिरूपत्वात्प्रतिपत्तेश्च प्रतिपाद्याभावे लोप एवाकरणे निरूपित इत्येवमाह । मुख्यहोमार्थमवत्ते हविषि नष्टे दुष्टे वा खल्वाज्येन होतव्यम् । न पुनरवदातव्यं न वान्यत्पाच्यं कुतः ? “निर्देशाद्वाऽ- न्यदागम्यते” ( ४।४।२ ) इति जै० सिद्धान्तात् । “यस्य सर्वाणि हवींषि नश्ये- युर्दुष्येयुरपहरेयुर्वा, आज्येन ता देवताः परिसंख्याय यजेरन्” इति च हविषो- नाशे आज्यविधानात् । “तत्र सर्वशब्दस्य निमित्तविशेषणत्वेनाविवक्षितत्वान्ना- शमात्रे सर्वत्राज्यस्य विधिः” इत्यधिकरणमालायां माधवाचार्याः । स खल्वयं प्रायश्चित्तहोमः व्यस्तसमस्तमहाव्याहृतिभिर्वा । “अज्ञातमि” ( १ ) द्रवद्द्रव्यकत्वात् ॥