भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 138, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 138

९ कण्डिका ] गोभिलगृह्यसूत्रे— १०७ निषिद्धातिरिक्तेन तं तितर्पयिषेद्दिति गतेन सम्बध्यते । प्रतिपत्तिस्त्वेवमेतस्य वचनादन्नान्तरमुपादद्येम् । चरुशेषप्रदानादनन्तरमन्यदप्यन्नं प्रयच्छेदिति वा वर्णनीयम् ॥ ४ ॥ अथ ब्राह्मणान्भक्तेनोपेप्सेत् ॥ ५ ॥ अथ स्वपाकसिद्ध्यनन्तरं ब्राह्मणान्ब्रह्मातिरिक्तान्भक्तेन उपेप्सेत् तर्पयितु मिच्छेत् । अपवर्गेऽभिरूपभोजनं ब्रह्मणस्तर्पणेनैव मामंस्तेति पुनरसूत्रयत् ॥५॥ पूर्णपात्रोदक्षिणा तं ब्रह्मणे दद्यात् ॥ ६ ॥ पूर्णपात्रः पूर्णपात्रं पुंस्त्वं छान्दसम् । वक्ष्यमाणलक्षणम् दक्षिणा इत्युत्स- र्गः । तं ब्रह्मणे दद्यात् । दक्षिणा ग्रहणं ब्रह्मणोऽभावेऽप्यन्यस्मै दानार्थम् । स्वयं कर्मकरणेऽपि तथैवाम्नायते । व्यतिरेके च वैगुण्यं, यथाह कर्म्मप्रदीपः— “ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता । कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् ॥ विदध्याद्धौत्रमन्यश्चेद्वक्षिणार्द्धहरोभवेन् (१) । स्वयञ्चेदुभयङ्कुर्यादन्यस्मै प्रतिपादयेत् ॥” इति । अत्र पूर्णपात्रादिपदाद्दक्षिणाविशेषालाभे मूल्यादिकमपि सङ्गृह्णाति । तथा च मैत्रावरुणीयपरिशिष्टम् “दक्षिणाभावे मूलानां भक्ष्याणान्दक्षिणान्द- दाति” इति । अत्र विशेषश्चन्द्रकान्तभाष्यादौ द्रष्टव्यः ॥ ६ ॥ कंसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य वाऽपि वा फलानामेवैतं पूर्णपात्रमित्याचक्षते ॥ ७॥ कंसं कांस्यभाजनं वर्