गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 139, कुल 332 में से
संदर्भ में पढ़ेंअसम्भवे पुनरेतस्याह कर्म्मप्रदीपः— “यावता बहुभोक्तुस्तृप्तिः पूर्णेन जायते । नावराद्धंन्ततः कुर्यात्पूर्णपात्रमिति स्थितिः ॥” इति ॥ ७ ॥ ब्रह्मैवैक ऋत्विक् ॥ ८ ॥ दर्शपौर्णमासप्रस्तावादेवमुच्यते । तेन सायम्प्रातर्होमवैश्वदेवादीनामब्रह्मत्वे- ऽपि न क्षतिः । अयमर्थः । सर्वकर्म्मस्वेक एव ब्रह्मा ऋत्विक् कर्त्तव्योन पुनः कर्म्मभेदे नाना । तदनेन ( यजमानेन ) ऋत्विगत्याज्योभवतीत्युपदिशति । तथाच स्मरणम्— “ऋत्विग्याज्यमदुष्टश्चेद्यँस्त्यजेदनपकारिणम् । अदुष्टमृत्विजं याज्यो विनेयौ तावुभावपि ॥ क्रमागतेष्वेव धर्म्मो वृतेष्वृत्विक्षु च स्वयम् । यादृच्छिके तु संयोज्ये तत्त्यागे नास्ति किल्विषम् ॥” इति ॥ ८ ॥ पाकयज्ञेषु स्वयं होता भवति ॥ ६ ॥ एकाग्नौ ये यज्ञास्ते पाकयज्ञा उच्यन्ते । तथाच लाट्यायनः—“पाकयज्ञा इत्याचक्षते एकाग्नौ यज्ञान्” इति । तेषु स्वयं होमे फलातिशयः स्मर्यते— “स्वयं होमे फलञ्चैतत् तदन्येननजायते” इति ॥ अन्यो होता तु नानेन व्यवच्छिद्यते—तथाच कर्म्मप्रदीपः— “निःक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा । प्रवसेत्कार्यवान्विप्रो वृथैव न चिरङ्क्वचित्” ॥ इति । “जुहुयाद्वा हावयेद्वे”ति समान्यतःसूत्रणाच्च ॥ ९ ॥ पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा ॥ १० ॥ पुंस्त्वमत्र पूर्ववत् । अवमः अधमः । “रेफयाप्यावमाधमाः” इत्यमरः सर्वतोऽल्पः ॥ १ ॥ अपरिमितं परार्ध्यम् ॥ ११ ॥ अपरिमितं बहु,परार्द्ध्यं प्रशस्तम् । “परार्द्द्याग्रचप्राग्रहरप्राग्राग्राग्रीयमग्रि- मम्” इतिकोशेऽभिधानात् । “परावराधमोत्तमपूर्वाच्च” ( पा० ४।३।५ ) इति यत्प्रत्यः शैषिकः । परार्द्धमन्तिमा संख्या तत्रभवम् ॥ ११ ॥ अस्मिन्नथ श्रुतिर्दृष्टान्तयति— अपि ह सुदाः पैजवन ऐन्द्राग्निना स्थालीपाकेनेष्ट्वा शतं सहस्राणि ददौ ॥ १२ ॥ अपिरन्यानपि समुच्चिनोति । सुदाः शोभनदाता । कर्त्तर्र्यखुन (उ०४।१८४)