भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 140, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 140

९ कण्डिका ] गोभिलगृह्यसूत्रे- २०९ पैजवनः पिजवनपुत्रोऽपि । शतमित्यादि संख्यामात्राभिधाने गा एव, तथाच द्राह्मायणसूत्रम् “संख्यामात्रे च दक्षिणा गावः” इति ॥ १२ ॥ अथ यदि गृहेऽग्नो सायम्प्रातर्होमयोर्वा दर्शपूर्णमासयोर्वा हव्यं वा होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥ १३ ॥ स्वयमशक्तौ दैवाद्यदि गृहेऽग्नौ यावज्जीवं कर्त्तव्ययोस्सायम्प्रातर्होमयो- (१)र्हव्यादिकन्नाधिगच्छेन्न प्राप्नुयात्तदा कथङ्कुर्यादिति प्रश्ने— उत्तरयति— आ सायमाहुतेः प्रातराहुतिर्नात्येत्याप्रातराहुतेः सायमाहुतिराऽमा- वास्यायाः पौर्णमासनात्येत्यापौर्णमास्याआमावास्यम् ॥१४॥ आसायमाहुतेः सायमाहुतिपर्यन्तम् । मर्यादायामाङ् । नात्येति नातिक्रा- मति । तत्र प्रायश्चित्तमात्रं स्मर्यते— “स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः । प्राक्च्यातराहुतेः कालः प्रायश्चित्ते कृतेसति ॥ प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः । प्राक्पौर्णमासाद्दर्शस्य प्राग्दर्शादितरस्य च ॥” इति । प्रायश्चित्तञ्च महाव्याहृतिहोमरूपमन्यत्र दृष्टमिहापि सामान्येन । एतेनैव सूत्रशेषोव्याख्यातः । तदिदं प्रदर्शनार्थम्परिकीर्त्तनं सायमाहुत्यादीनां, न नियमार्थम् । कुतः स्मृत्यन्तरदर्शनात् । तथाचोक्तम्— “मुख्यकाले यदा ऽवश्यङ्कर्म कर्त्तुं न शक्यते । गौणकालेऽपि कर्त्तव्यं गौणोऽप्यत्रेदृशोभवेत् ॥ आसायमाहुतेः कालात्कालः स्यात्प्रातराहुतेः । प्रातराहुतिकालात्प्राक् कालः स्यात्सायमाहुतेः ॥” इत्यादि—एवम्— “गौणेषु तेषु कालेषु कर्मचोदितमाचरन् । प्रायश्चित्तप्रकरणप्रोक्तां निष्कृतिमाचरेत् ॥” इति । वैश्वदेवस्य पुनरतिक्रमेऽभोजनेऽपि प्रायश्चित्तानन्तरमेव कालान्त- रे तदनुष्ठितिः स्मर्य्यते— “वैश्वदैवे त्वतिक्रान्ते अहोरात्रमभोजनम् । प्रायश्चित्तमथो कृत्वा पुनः सन्तनुयाद्व्रतम् ॥” इति । प्रथमवैश्वदेवातिक्रमे दिवा अभोजनं, द्वितीये रात्रावभोजनमिति


( १ ) प्रदर्शनमेतद्गृह्यदेवस्यापि दैवादन्यस्मात्कारणाद्धव्यं हवनीयं वस्तु—इत्येवमर्थः

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 140, कुल 332 में से · BharatKosha