भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 141, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 141

११० दर्शपूर्णमासविधिः । [१ प्रपाठक परिशिष्टप्रकाशः । वैश्वदेवद्रव्यातिक्रमे तु विशेषमाह कर्मप्रदीपः— "परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम् । पितृव्यज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥ अनिष्वा नवयज्ञेन नवान्नप्राशने तथा । भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् ॥” इति । प्राक्सूर्यास्तमयात्प्रथमोवैश्वदेवोनात्येति । प्राक् च रात्रेः सार्द्धात्प्रह- राद्द्वितीयः । यतस्तावानेव भोजनकालः पुरस्तादभिहितः ॥ १३ ॥ १४ ॥ एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सोत ॥ १५ ॥ एतेनैवेति गौणकालपरामर्शः। लिप्सोत—लब्धुमिच्छेत। प्राप्तस्याप्यादरार्थ- मभिधानम् । तथा लिप्सोत यथागौणकालोऽपि नातीयादिति ॥ तस्याप्यतिक्रमे कर्मैव लुप्येत । यदा पुनर्लभ