भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

९ कण्डिका ] गोभिलगृह्यसूत्रे- २०९ पैजवनः पिजवनपुत्रोऽपि । शतमित्यादि संख्यामात्राभिधाने गा एव, तथाच द्राह्मायणसूत्रम् “संख्यामात्रे च दक्षिणा गावः” इति ॥ १२ ॥ अथ यदि गृहेऽग्नो सायम्प्रातर्होमयोर्वा दर्शपूर्णमासयोर्वा हव्यं वा होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥ १३ ॥ स्वयमशक्तौ दैवाद्यदि गृहेऽग्नौ यावज्जीवं कर्त्तव्ययोस्सायम्प्रातर्होमयो- (१)र्हव्यादिकन्नाधिगच्छेन्न प्राप्नुयात्तदा कथङ्कुर्यादिति प्रश्ने— उत्तरयति— आ सायमाहुतेः प्रातराहुतिर्नात्येत्याप्रातराहुतेः सायमाहुतिराऽमा- वास्यायाः पौर्णमासनात्येत्यापौर्णमास्याआमावास्यम् ॥१४॥ आसायमाहुतेः सायमाहुतिपर्यन्तम् । मर्यादायामाङ् । नात्येति नातिक्रा- मति । तत्र प्रायश्चित्तमात्रं स्मर्यते— “स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः । प्राक्च्यातराहुतेः कालः प्रायश्चित्ते कृतेसति ॥ प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः । प्राक्पौर्णमासाद्दर्शस्य प्राग्दर्शादितरस्य च ॥” इति । प्रायश्चित्तञ्च महाव्याहृतिहोमरूपमन्यत्र दृष्टमिहापि सामान्येन । एतेनैव सूत्रशेषोव्याख्यातः । तदिदं प्रदर्शनार्थम्परिकीर्त्तनं सायमाहुत्यादीनां, न नियमार्थम् । कुतः स्मृत्यन्तरदर्शनात् । तथाचोक्तम्— “मुख्यकाले यदा ऽवश्यङ्कर्म कर्त्तुं न शक्यते । गौणकालेऽपि कर्त्तव्यं गौणोऽप्यत्रेदृशोभवेत् ॥ आसायमाहुतेः कालात्कालः स्यात्प्रातराहुतेः । प्रातराहुतिकालात्प्राक् कालः स्यात्सायमाहुतेः ॥” इत्यादि—एवम्— “गौणेषु तेषु कालेषु कर्मचोदितमाचरन् । प्रायश्चित्तप्रकरणप्रोक्तां निष्कृतिमाचरेत् ॥” इति । वैश्वदेवस्य पुनरतिक्रमेऽभोजनेऽपि प्रायश्चित्तानन्तरमेव कालान्त- रे तदनुष्ठितिः स्मर्य्यते— “वैश्वदैवे त्वतिक्रान्ते अहोरात्रमभोजनम् । प्रायश्चित्तमथो कृत्वा पुनः सन्तनुयाद्व्रतम् ॥” इति । प्रथमवैश्वदेवातिक्रमे दिवा अभोजनं, द्वितीये रात्रावभोजनमिति


( १ ) प्रदर्शनमेतद्गृह्यदेवस्यापि दैवादन्यस्मात्कारणाद्धव्यं हवनीयं वस्तु—इत्येवमर्थः

११० दर्शपूर्णमासविधिः । [१ प्रपाठक परिशिष्टप्रकाशः । वैश्वदेवद्रव्यातिक्रमे तु विशेषमाह कर्मप्रदीपः— "परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम् । पितृव्यज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥ अनिष्वा नवयज्ञेन नवान्नप्राशने तथा । भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् ॥” इति । प्राक्सूर्यास्तमयात्प्रथमोवैश्वदेवोनात्येति । प्राक् च रात्रेः सार्द्धात्प्रह- राद्द्वितीयः । यतस्तावानेव भोजनकालः पुरस्तादभिहितः ॥ १३ ॥ १४ ॥ एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सोत ॥ १५ ॥ एतेनैवेति गौणकालपरामर्शः। लिप्सोत—लब्धुमिच्छेत। प्राप्तस्याप्यादरार्थ- मभिधानम् । तथा लिप्सोत यथागौणकालोऽपि नातीयादिति ॥ तस्याप्यतिक्रमे कर्मैव लुप्येत । यदा पुनर्लभ

९ कण्डिका ] गोभिलगृह्यसूत्रे— १११ स्याप्यालाभाद्धोममकुर्वतः प्रायश्चित्तम्भवति । तच्च प्रायश्चित्तम्पुनराधानमुक्तम् । यथाच स्मर्यते— “होमद्वयात्यये दर्शपूर्णमासात्यये तथा । पुनरेवाग्निमादध्यादिति भास्करशासनम् ॥” इति । इति शब्दोऽत्रा(१)द्यार्थः अन्यान्यपि पुनराधाननिमित्तानि समुच्चिनोति । तानि च कर्मप्रदीपादिष्वनुसन्धेयानि । पुनराधानप्रकारश्च— “पूर्वैव योनिः पूर्वाऽऽवृत्पुनराधानकर्म्मणि” इत्यादिना कर्मप्रदीप एव वर्णितः ॥ १८ ॥ नाव्रतोब्राह्मणः स्यादिति ॥ १९ ॥ अव्रतोव्रतरहितोब्राह्मणोन स्यादल्पमपि कालम् । “मुहूर्त्तमपि नाव्रतोब्रा- ह्मणःस्यादि”-ति पाठे व्यक्त एवार्थः । इति हेतौ । यस्मान्नाव्रतोब्राह्मणः स्यात्तस्मात्पुनराधाननिमित्ते जातेऽविलम्बमेवादध्या

अहुताः परिसंख्याय पात्रे कृत्वाऽऽहुतीः सकृत् । मन्त्रेण विधिवद्धुत्वा एवमेवापरा अपि” ॥ इति ॥ २२ ॥ एवमस्य व्रतं सन्ततम्भवतीति ॥ २३ ॥ एवमपि कृतेऽस्य व्रतिनोव्रतं नियमः सन्ततमविलुप्तं भवति ॥ तस्मात्सत्यु- पाये पुनराधानं न कर्त्तव्यम् । इतिर्ब्राह्मणवाक्यसमाप्तिज्ञापनार्थः । प्रकरण- समाप्त्यर्थोवा ॥ २३ ॥ एषोऽत ऊर्ध्वं हविराहुतिषु न्यायः ॥ २४ ॥ एषोऽनन्तरोक्तोन्यायः प्रकारः । अत ऊर्ध्वं वक्ष्यमाणासु हविराहुतिषु द्रष्ट- व्यः । इत्युक्तप्रकारः सर्वत्रातिदिश्यते । न्यायग्रहणेन चैतदुक्तं भवति अत ऊर्ध्वं ये क्षिप्रहोमा ब्रह्मचारिसमिदादयोवक्ष्यन्ते तेषु क्षिप्रहोमोक्त एव प्रकारो- भवति । ये पुनस्तन्त्रहोमा वैवाहिकहोमादयस्तेषु ब्रह्मोपवेशनादितन्त्रं द्रष्टव्यम् । तथा

द्धारः करणीयः । तदप्याह-म एव- “नोऽङ्कुर्याद्धोममन्त्राणां पृथगादिषु कुत्र चित् । अन्येषाञ्च विकृष्टानां कालेनाचमनादिना” ॥ इति ॥ २५ ॥ आज्याहुतिष्वाज्यमेवसँस्कृत्योपघातञ्जुहुयात् नाज्यभागौ न स्विष्टकृत् ॥ २६ ॥ आज्यस्य यथोक्तस्याहुतिषु । यत्राज्यमेव हूयते तत्र, आज्यं संस्कृत्यैवोपघा- तं यथाभवति तथा जुहुयाद्द्रवद्रव्यकत्वात्स्रुवेणेत्यर्थः । एवकारेण यद्यावच्छि- द्यते तदप्युच्यते सुखावबोधार्थम्-नाज्यभागावित्यादि । तदेते अतिदेशागता इह प्रतिषिध्यन्ते ॥ २६ ॥ आज्याहुतिष्वनादेशे पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिहोमः ॥ २७ ॥ आज्याहुतिषु-यत्राज्यमेव हूयते नान्यच्चर्वादि हविरन्तरमस्ति । तेषु नाम- करणादिकर्म्मसु । एवम् अनादेशे-यत्रहोम एवनादिश्यते पुंसवनादिषु । तत्र(१) च पुरस्ताच्चोपरिष्टाच्च-पूर्वं पश्चाच्च । व्याहृतिभिर्होमः कार्य्यइत्यर्थः । ताश्चो- क्ताः कात्यायनेन- “भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्य(२)याः ।” इति ॥ गृह्यसङ्ग्रहे- “यत्र व्याहृतिभिर्होमः प्रायश्चित्तार्थकोभवेत् । चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥” इति । एवञ्च यत्र विशेषोपदेशातिदेशाभ्यां प्रायश्चित्ततया वा व्याहृतिहो- मलाभस्तत्र व्याहृतिभिस्तिस्रः समस्ताभिरेकेत्याहुतिचतुष्टयमन्यत्र व्याहृति- त्रयमिति न वचनयोर्विरोधः(३) ॥ २७ ॥ यथा पाणिग्रहणे तथा चूडाकर्म्मण्युपनयने गोदाने च ॥२८॥ यथा पाणिग्रहणे महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्र आहुतयोहूयन्ते तथा चूडाकर्म्मादावपि । सोऽयमनार्गतातिदेशः । चूडाकर्म्मादिव्यतिरिक्तेषु तु तिस्र एवाहुतयोभवन्तीत्यवगमयति ॥ २८ ॥


( १ ) अत्र “मध्यात्पूर्वाद्वार्दि”—( १।८।६ ) ति वकारोलुप्तवद् द्रष्टव्यः ॥ ( २ ) अविनाशिन्यः । एतेन त्रिवेदसर्वस्वत्वमासां ज्ञापयति । तथाच मनुः “अका- रञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥” इति ॥ ( ३ ) मनुरपि “ॐकारपूर्विकास्तिस्रोमहाव्याहृतयोऽमलाः” इत्याह । पद्धतिकृ- तस्तु--भूर्भुवस्वरिति प्रत्येकं तिस्रोव्याहृतयः । मिलितास्तु महाव्याहृतयः । सूत्रादौ च व्याहृतिष्वपि तिसृषु महाव्याहृतित्वोपचारात्प्रयोग इत्यर्थगत्या वदन्ति ॥ १५ गो० गृ० सू०

अपवृत्ते कर्म्मणि वामदेव्यगानँ शान्त्यर्थँ शान्त्यर्थम् ॥ २६ ॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे प्र० प्र० नवमी कण्डिका ॥ १ ॥ ९ ॥ अपवृत्ते-समाप्ते कर्म्मणि । वामदेव्यस्य “कयान”(१) इत्यादिकस्य (सा० उ० अ१ खं०२) गानं कर्त्तव्यमिति परिभाष्यते । तस्मात्सर्वेषामपि कर्म्मणामप- वर्गे वामदेव्यं साम गातव्यम् कर्म्मणीति सामान्यतयोपदेशात् । बहूनाङ्कर्मणा- मेकदा करणेऽन्ते सकृदेव तद्द्वानमित्याह कर्म्मप्रदीपः— “अहोमाकेऽष्वपि भवेद्यथोक्तं चन्द्रदर्शने । वामदेव्यन्तृणस्यान्ते बल्यन्ते वैश्वदेविके ॥” इति । गानस्याशक्तावपि ऋचोवारत्रयं पठनीया इत्याह स एव— “अन्ते च वामदेव्यस्य गानङ्कुर्यादृचस्त्रिधा ॥” इति । शान्त्यर्थमित्यर्थवादः । स्तूयते(२)ह्यनेन गानम् । अन्तेऽस्याभ्यासो- ऽत्र प्रपाठकपरिसमाप्तिद्योतकः ॥ २९ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “गूढाख्यायां मुकुन्दशर्म्मसङ्कलिताया- म्प्रथमप्रपाठकस्य नवमी कण्डिका ॥ १ ॥ ९ ॥ प्रथमप्रपाठकेऽग्निसमाधानमुपक्रम्य तत्रावश्यककर्त्तव्यं सायम्प्रातर्होमादि-दर्श- पूर्णमासान्तोविधिरभिहितः । तत्र च जायायाः पाणिग्रिहणमन्त्याधानकाल- विशेषणतयाऽभिहितम् । तत्प्रकारपरिदर्शनाय द्वितीयप्रपाठकारम्भः । अत्र ( द्वितीयप्रपाठके ) विवाहाद्युपनयनान्तोदशकर्म्मविधिरनुक्तपूर्वं उच्यते— पुण्ये नक्षत्रे दारान्कुर्वीत ॥ १ ॥ ( १ ) कयान इति महावामदेव ऋषिर्गायत्रीच्छन्दोऽग्निदेवताऽग्निष्टोमादौ द्वितीय- पृष्ठे शान्तिकर्म्मणि च जपे विनियोगः । ॐ कयानश्चित्र आभुवदूती सदावृधः । सखाकया सचिष्ठया वृता ॥१॥ कस्त्वो सत्योमदानां मंहिष्ठोमत्सदन्धसः । दृढाचिदारु ये वसु ॥२॥ अभीषुणः सखीनामविता जरितॄणां, शतमन्वास्यूतये ॥३॥ स्वस्तिनइन्द्रोवृद्धश्रवाःस्व- स्तिनः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ॥ ४ ॥ स्वस्तिनोबृहस्पतिर्दधातु ॐ ३ स्वस्तिनोबृहस्पतिर्दधात् ॥ ४ ॥ ॐ प्रजापत्यं वैवामदेव्यं प्रजापताव्वेव प्रतिष्ठा- योत्तिष्ठन्तु ॥ ५ ॥ ॐ पशवोवैवामदेव्यं पशुष्वेव प्रतिष्ठायात्तिष्ठन्तु ॥ ६ ॥ ॐ शान्ति- र्वैवामदेव्यं शान्ताव्वेवप्रतिष्ठायात्तिष्ठन्तु ॥ ७ ॥ ॐ अत एतत् कर्माऽच्छिद्रमस्तु । ( अस्तु ) ॥ ८ ॥ इतिगानमन्त्रः ॥ अत्रान्तेऽस्त्वित्यवधारणं सर्वेषाम् ॥ अर्थोऽस्यास्म- त्कृते कर्म्मकाण्डमन्त्रार्थप्रदीपे द्रष्टव्यः ॥ ( २ ) गानमन्त्र “गैंशब्दे” ( भ्वा० प० ) इत्यस्माद्भावे ल्युटा साधुत्वं बोध्यम् । तेनास्य पाठमात्रमर्थः कार्यः ॥

पुण्ये(१) शोभने । नक्षत्रे ज्योति(२)श्शास्त्रोक्ते । विवाहे तस्यादरातिशयो- ऽनेन द्योत्यते । दारान्-“दाराः पुंभूम्नि चाक्षताः” इत्यभिधानान्नित्यं पुंलिङ्गो- बहुवचनान्तश्च दारशब्दः सहधर्म्मचारिणीवाचकः । तांकुर्वीत । उद्वहेत ॥ १ ॥ कीदृशान्? तत्राह- लक्षणप्रशस्तान्कुशलेन ॥ २ ॥ लक्षणेन प्रशस्तान्प्रशस्त(३)लक्षणोपेतान् । यद्वाऽन्तर्भावितण्यर्थोऽत्र प्रशंस- तिः । लक्षणपदञ्च तज्ज्ञे लाक्षणिकन्तेन लक्षणज्ञप्रशंसितान् । कुशलेनेति लक्षण- पदार्थान्वयि । स्त्रीलक्षणाभिज्ञेनेति तदर्थः । तथाच तद्द्वारा लक्षणान्यवगन्तव्या- नि । नित्यसापेक्षस्थले एकदेशान्वयस्य देवदत्तस्य गुरुकुलमित्यादिषु दर्शनात् । यद्वा कुशलेन स्त्रीलक्षणविदा पुरुषेण लक्षणैर्वैधव्यादिसूचकैरन्निन्द्याद्युक्तैः प्रश-

११६ दर्शपूर्णमासविधिः । [ १ प्रपाठके दीनि प्रत्यङ्गगम्यानि बाह्यानि । तथाचमनुः— "अव्यङ्गा(१)ङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम् ॥" इति ॥ अव्यङ्गाङ्गीम्-अविकलाङ्गीम् । तनुलोमकेशदशनाम्-अनतिस्थूललोमकेश- दन्ताम् । स्त्रियमिति नपुंसकत्वनिरासार्थम् ॥ यान्याभ्यन्तराणि तान्युक्तान्या- श्वलायनगृहे "दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वे"-त्यादिवाक्ये।क्तानि । तान्ययमप्यनुपदं सूत्रयित्वा दर्शयिष्यति ॥ २ ॥ लक्षणावगतौ प्रकारान्तरमाह— तदलाभे पिण्डान् ॥ ३ ॥ तदिति प्रकृतः स्त्रीलक्षणवित् कुशलः परामृश्यते "कुर्वीत" इति वाक्यशे- षः । तैश्च स्वयमेव दारान्परीक्षेतत्यर्थः । पिण्डानित्यविशेषोपादानेऽपि मृद एव तान्कुर्वीत । उत्तरसूत्रदर्शनात् ॥ ३ ॥ वेद्याः सीताया ह्रदाद्गोष्ठाच्चतुष्पथाद्भादेवनादादहनादीरणात् ॥४॥ वेदिः परिष्कृता भूमिरग्निष्टोमादौ विहिता यज्ञस्थानमिति यावत् । तस्याः । सीता लाङ्गलपद्धतिः । कृष्टं क्षेत्रमिति यावत्तस्याः । ह्रदोऽगाधजलाशयस्तस्मा- त् । गावोयत्र तिष्ठन्ति तद्गोष्ठन्तस्मात् । चतुष्पथः प्रसिद्धः। तस्मात् । आगत्या- क्षिकैर्दीव्यते यत्र तद्भादेवनं द्यूतस्थानन्तस्मादादेवनात् । आ मर्यादया दह्यते देहो- यत्र तद्दादहनं श्मशानन्तस्मात् । "ईरणन्तूषरे शून्येऽपी"-ति मेदिन्यभिधाना- दीरणमूपरं, यत्रोप्तं बीजन्न प्ररोहति तस्मात् । एताभ्योमृदमादाय पृथगेवाष्टौ पिण्डान् कुर्वीतेत्यर्थः ॥ ४ ॥ सर्वेभ्यः सम्भार्य्यन्नवमम् ॥ ५ ॥ सम्भार्यं संहार्य संहृत्य क्रियमाणम् । सम्पूर्वाद्धरतेः "ऋहलोर्ण्यत्" (पा०३। १।१२४ ) इतिण्यत्प्रत्यये आदिवृद्धिः । हस्य च भश्छान्दसः (पा०३।१।८४वा०) सर्वेभ्योवेद्यादिभ्यः ॥ ५ ॥ समान् कृतलक्षणान् ॥ ६ ॥ तांश्च नव पिण्डान् समांस्तुल्यप्रमाणान् । लक्षणं चिह्नं, कृतं लक्षणं येषां स्तान् । यतमः पिण्डोयतमस्या मृदस्तच्चिह्नङ्कर्त्तव्यम् । वक्ष्यमाणकृत्यनि- र्वाह्वाय ॥ ६ ॥ ( १ ) पुनर्मनुः "नोद्वहेत्कपिलाङ्कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां ना- र्तिलोम्नीं न वाचालान्न पिङ्गलाम् ॥ नक्षत्रवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । नाहि- पक्षिप्रेष्यनाम्नीं न च भीषणनामिकाम्" ॥ इत्यादिसंस्कारदीपके म. म. हर्षनाथशर्म्म- कृते द्रष्टव्यम् ॥

१० कण्डिका ] गोभिलगृह्यसूत्रे- ११९ तान्खल्विमान् पिण्डान्- पाणावाधाय कुमार्या उपनामयेत् । "ऋतमेव प्रथमममृतं नात्ये- ति कश्चनर्तेऽयं पृथिवीश्रिता सर्वमिदमसौ भूयात्" (म०ब्रा-१।१।१) इति । तस्या नाम गृहीत्वैषामन्यतमं गृहाणेति ब्रूयात् ॥ ७ ॥ पाणौ स्वकीये (वरः) आधाय-धृत्वा । कुमार्या उप समीपे नामयेत्स्थापयेत् । "ऋतमिति" त्यादिमन्त्रेण । अस्यार्थः-ऋतमिति सत्यनाम । (निरु०४।१९। ९) 'ऋतमेव'-सत्यमेव 'प्रथमम्' आद्यमुद्गारणम् । तथाच श्रुतिः "तस्य ह वैतस्य ब्रह्मणोनाम सत्यमिति । 'ऋतं' सत्यं 'ना० न' नातिक्रामति कश्चिदपि । 'ऋते' सत्ये चे'यं पृथिवी(आ)श्रिता' । न केवलम्पृथिव्येव, किन्तु 'सर्वमिदम्' । चकारोलुप्तवद्द्रष्टव्यः । यथाचेदं सर्वं वस्तु जातं सत्याश्रितं न्तथा'ऽसौ' (यशोदादेवी) सत्या 'भूयात्'-भवतु ॥ इति ॥ अत्रासावित्यस्य स्थाने तस्याः कुमार्या नाम गृहीत्वोच्चार्य एवं सम्बोधनान्तं नाम मन्त्रान्ते गृहीत्वा एषां पिण्डानामेकं गृहाणेति तस्यै ब्रूयात् ॥ ७ ॥ पूर्वेषाञ्चतुर्णां गृह्णन्तीमुपयच्छेत् ॥ ८ ॥ पूर्वेषामिति । मध्ये-एकमिति शेषः । वेद्यादिपिण्डचतुष्टयान्यतममाददानां विवाहयेदित्यर्थः । गृह्णन्तीमित्यत्र तुम्छान्दसः ॥ ८ ॥ सम्भार्यमपीत्येके ॥ ९ ॥ सम्भार्यं नवमपिण्डमाददानाऽपि विवाहेत्येकदेशिमतम् । तथाच गृह्य- सङ्ग्रहेऽङ्गिराः- “क्रियावती वेदिपिण्डं सीतायाः फलते कृषिः । अक्षोभ्या च ह्रदे ज्ञेया गोष्ठे भवति गोमती ॥ चतुष्पथे प्रकीर्णा स्याद्यूतस्थाने कलिप्रिया । श्मशाने म्रियते भर्त्ता बन्ध्या भवति चोत्तरे ॥ नवमे सर्वमेवैतत्कन्यायास्तु परिग्रहात् ॥” इति । प्रकीर्णा-स्वैरिणी । परिशिष्टान्तरम्- “गृह्णाना वेदिपिण्डन्तु प्रसूते याज्ञिकान्सुतान् । सीतापिण्डन्तु गृह्णाना सुतान्सूते कृषीवलान् ॥ सर्वकामसमृद्धांश्च तृतीयस्य परिग्रहात् । गोष्ठपिण्डग्रहाच्चैव गोमतः सुखिनः सुतान् ॥ इतश्चेतश्च गन्तारः पञ्चमेनास्थिराः सुताः । षष्ठेन तु गृहीतेन भवन्ति द्यूतदेविनः ॥ श्मशानपिण्डग्रहणाद्दिधवा जायते ध्रुवम् । बन्ध्या वा विधवा वा स्यादष्टमस्य परिग्रहात् ॥

मिश्रमेतद्भवेत्सर्व्वय्याँ(१)त्पूर्व्वादित्फलं । नवसस्य ग्रहन्तत्स्याच्छुभोवाऽन च वाऽशुभः ॥” इति । अत्र प्रजास्तुतिनिन्दाद्वारेण चैव वस्तुतोनिन्दिताऽनिन्दिता चेति मन्तव्यम् । अत्र ( कन्यापरिग्रहे ) विशेषः शुभकर्म्मनिर्णये मुरारिमिश्रीये, सं- स्कारदीपके हर्षनाथशर्म्म निर्मिते च द्रष्टव्यः ॥ ९ ॥ ( अथज्ञातिकर्म्म ) अथेदानीमासन्नविवाहकालायाः कन्यायाः स्नपनमभिदधाति— क्लीतकैर्य्यैवम्मौषधैर्व्वा ऽऽप्लुतांऽऽप्तैर्गुहृत्सुराेत्तमेन सशरीरां त्रिर्मूर्द्धन्य- भिषिञ्चेत् “कामवेद ते नाम मदोनामासी”ति । “समानयामुमि”ति पतिनाम गृह्णीयात् । स्वाहाकारान्ताभिरुपस्थमुत्तराभ्यां प्लावयेत् ॥ १० ॥ ( मं० ब्रा० १।१।२-३-४ ) क्लीतकै—रुदकक्लिन्नैश्चूर्णीकृत्य द्रवीकृतैरित्यर्थः । आप्लुतां—कृतसर्वां- ङ्गोद्वर्त्तनाम् । सुहृत् स्निग्धहृदयो वयस्या मातृवर्गश्च सुरा—उदकम् ( निघं० १।१२ ) कोशेऽपि “वरुणासुराऽरविन्दानी”—त्युदकपर्यायेषु (२)पठ्यते इति म० म० मुरारिमिश्रादयः । तथोत्तमोदकेन(३)। सशरीरां—(४)कन्याम् मूर्द्धनि—शिरसि(५) । त्रि-र्व्वारत्रयमभिषिञ्चेत् । अयमर्थः । मूर्द्धनि तथाऽभि- षिञ्चेद्यथा सर्व्वमेव शरीरमभिषिक्तं भवतीति ॥ तत्र करणमन्त्रमाह—कामेत्या- दिय् । इति-एवमादिभिस्तिसृभिऋग्भिः स्वाहा कारान्ताभिः । ता यथा—“काम वेद ते नाम मदोनामासि समानयामुंऽसुरा ते अभवत् । परमत्र जन्माग्ने तप- सोनिम्मितोऽसि स्वाहा ॥ २ ॥ इमन्त उपस्थं मधुना सं सृजामि । प्रजापते- र्मुखमेतद्द्वितीयम् ॥ तेन पुंसो अभिभवामि सर्व्वान्वशिन्यसि राज्ञी स्वाहा ॥ ३ ॥ अग्निङ्क्रव्यादमकृण्वन्गुहानाः स्त्रीणामुपस्थमृषयः पुराणाः । तेनाऽन्यमकृण्वंस्तैस्त्रुङ्गं त्वाष्ट्रं त्वयि तद्दधातु स्वाहा”॥४॥ इति ॥ आसामर्थः ।

( १ ) यावत्सर्व्वम् “यावत्तावच्चसाकल्ये” इत्यमरात् ॥ ( २ ) ननु--प्रसिद्धत्वान्मद्यमेवास्तु इति चेन्न बाधसापेक्षविष्यापत्तेः । तत्स्पर्शेऽपि प्रायश्चित्तोपदेशात् । तथाचाङ्गिराः--“सुराया गन्धमाघ्राय स्नात्वाज्यं प्राश्य शुद्ध्यति । स्पर्शे प्रतिग्रहे चैव त्र्यहं पीत्वा तथोदकम्” । इति । सूत्रस्य जलपरतया समर्थनेनान्य- थानुपपत्तेरभावात् । अत एव गृह्यासङ्ग्रहः” सर्व्वेषु विप्राणामद्भिः पूर्व्वप्रवर्त्तनम् । यस्मात्सुरा जलम्प्रोक्तमद्भिरेवाऽभिषेचयेत्” ॥ इति ॥ ( ३ ) क्षारादिदोषरहितेन शोभनगन्धवर्णादियुक्तेन च ॥ ( ४ ) एतेन सर्वाङ्गस्नानं शिरआदिपादान्तमुक्तम्भवति तदेतदनुपदं व्यक्तीभविष्यति॥ ( ५ ) अत्रावच्छेदकत्वरूपविषयत्वं सप्तम्यर्थः । पृथगुक्तेः प्राधान्यमङ्गेषु शिरसो- ज्ञापयति ।

१० कण्डिका] गोभिलगृह्यसूत्रे— ११५ 'हेकाम ! । 'तेनाम' सर्वोऽपि 'वेद' जानाति । त्वं 'मदः' मादको 'नाम' प्रसि- द्धो'ऽसि'भवति । अतः 'अमुं' सम्भावितमेतस्याः पतिं 'समानय' सङ्गमय । “एतये”-तिशेषः । 'ते' सहायभूता 'सुरा' एषा स्नानार्थमेतस्या उपस्थिता “अभवत्” भवति । 'परं' किन्तु—हे 'जन्माग्ने' । जन्महेतु भूताग्निस্বরূপ ! 'अत्र' अस्यां ( निमित्तेसप्तमी ) एतदर्थमेव । 'तपसः' प्रतिविशिष्टात्कर्मणः । त्वं प्रजापतिना 'निर्मितोऽसि' । तस्मै तुभ्यं जन्माग्निरूपाय 'स्वाहा' सुहुतमस्तु २ “इमं” प्रत्यक्षभूतं 'ते' त्वदर्थमुपकल्पितम् 'उपस्थं' गुह्याङ्गं 'मधुना' प्रिय- द्रव्येणोद्वर्त्तनभूतगन्धादिना । 'संसृजामि' संसर्गयामि । 'एतत्

तेन यावद्वरोवधूमादाय गृहा-"

Line 10: "निष्क्रम्यागच्छति तावदन्य एव कश्चिदग्नि स्थापयति। आवृतमपि स एव" Wait, "कश्चिदग्नि स्थापयति" or "कश्चिदग्निं स्थापयति"? Look at line 10: "कश्चिदग्नि स्थापयति" - there is no dot on ग्न, so "कश्चिदग्नि स्थापयति".

Line 11: "करोति—इतिशब्दस्वरसादवगम्यते। अतएव सूत्रयिष्यति बर्हिषोऽन्तं कटानां"

Line 12: "प्रापयेत्” ( २।१।२२ ) इति। तदेद्भट्टभाष्यसम्मतञ्चन्द्रकान्तोऽप्यनुमन्यते-"

Line 13: "स्म स्वभाष्ये। वस्तुतस्तु। वर एवात्रकर्त्तेति तत्सूत्रे ( २।१।२२ ) एव व्य-" Wait, is there an avagraha? "एवात्रकर्त्तेति" - no avagraha.

Line 14: "क्तीभविष्यति॥ अग्निस्थापनञ्च वेदिमध्ये कार्यं, वेदिश्च चतुर्विंशाङ्गुलायता"

Line 15: "चतुरङ्गुलोच्छ्रिता च कार्येत्याह—गृह्यसंग्र

परीक्षणे नारदः— Line 10: “यस्याप्सु प्लवते वीजं हारि मूत्रञ्च फेनिलम् । Line 11: पुमान्स्यालक्षणैरेतैर्विपरीतस्तु शत्रिकः ॥” Wait, look at L11: Is it "पुमान्स्यालक्षणैरेतैर्विपरीतस्तु शत्रिकः ॥"? Wait, why does it look like "पुमान्स्यालक्षणैरेतैर्विपरीतस्तु"? Wait, "पुमान्स्याल्लक्षणैरेतैर्" has double 'ल'? In image: "पुमान्स्यालक्षणैरेतैर्विपरीतस्तु शत्रिकः ॥" (single ल: स्या-ल-क्षणै-). Wait, look at "शत्रिकः": Under "श", there are two little dots? Yes, looks like printer's marks, let's not worry, the text is "शत्रिकः". Line 12: इति । शत्रिकः षण्ढः । ( नपुंसकः ) व्यासः— Wait, after 'व्यासः' there is a dash or mark: "व्यासः—" Line 13: “जातिर्विद्या वयः शीलमारोग्यं बहुपक्षता । Line 14: अर्थित्वं वित्तसम्पत्तिरष्टावेते वरे गुणाः ॥” Line 15: इति । एवमादयो गुणाः

वयवान्वयोऽस्त्येव । एकस्य हि पितृशरीरस्यावयवाः पुत्रद्वारा तास्वाहिता इति मिताक्षराकार-मदनपारिजातादयः प्राहुः ॥ कथञ्चिदेकपिण्डक्रियाप्रवेशेन निर्वाह्यं सापिण्ड्यं चन्द्रिकाऽपरार्कमेधातिथिमाधवादयोवदन्ति । नन्वेवं(१) विधातृशरीरावयवान्वयेन सापिण्ड्यातिप्रसङ्गेन एकपिण्डदानक्रियान्वयित्वेन वा गुरुशिष्यादेरपि श्राद्धदेवतावत्वात्सापिण्ड्यमिति न काप्यसपिण्डेत्यत आह- याज्ञवल्क्यः- "पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा” इति । मातृतः मातुः सन्ताने पञ्चमादूर्ध्वं, पितृतः पितुः सन्ताने सप्तमा- दूर्ध्वं सापिण्ड्यं "निवर्त्तत" इतिशेषः । तथाच वृद्धशातातपः- "पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । सपिण्डता निवर्त्तेत सर्ववर्णेष्वयं विधिः ॥” इति । [

इति वदन्ति । महामहो० महेशठक्कुरास्तु-तत्त-

Line 30: त्पाठमन्यथयित्वा पितृपक्षे सर्वत्र सप्तमीपरिणयमनुजानन्ति । तत्र च शिष्टसंवादमाचा-

Line 31: रञ्चप्रमाणयन्तीत्यास्तां विस्तरः ॥

Line 32 (Footnote 1): ( १ ) आदिपदेन सञ्चारी रोगः । यथाह याज्ञवल्क्य एव “दशपुरुषविख्याताच्छ्रो-

Line 33: त्रियाणां महाकुलात् । स्फीतादपि न सञ्चारिरोगदोषसमन्वितादि-”ति । पुरुष एव

Line 34: पुरुषः । दशभिः पितृतः पञ्चभिर्मातृतश्च । श्रोत्रियाणां श्रुत्यध्ययनसम्पन्नानाम् । “कन्यां

Line 35: हरेदि”ति शेषः । अपवादमाह स्फीतादपीति । उक्तमहाकुलादपीत्यर्थः । सञ्चारिणोरोगाः Wait: "सञ्चारिणोरोगाः" or "सञ्चारिणो रोगाः"? It is run together: "सञ्चारिणोरोगाः".

Line 36: कुष्ठापस्मारादयः । शुक्रशोणितद्वारा ये सञ्चरन्ति । तदुक्तं वैद्यके । “

१२४ विवाहविधिः । [ १ प्रपाठके मतीमिति । पुत्रिका(१)करणशङ्कानिवृत्त्यर्थम् । यत्र तु पुत्रिकाकरणाभावनि- श्रयस्तामभ्रातृकामप्युद्वहेत् ॥ असमानार्षगोत्रजामिति । अत्र प्रत्येकमेव नञा सम्बन्धः । ऋषेरिदमार्षम् । गोत्रप्रवर्त्तकस्य मुनेर्व्यावर्त्तकोमुनिगणः । प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । (स्व) समाने आर्षगोत्रे ( यस्य ) तस्मा- ज्जाता या न भवति ताम् । एतत्परिणये प्रायश्चित्तमाह—स्मृतिः— “परिणीय सगोत्राञ्च समानप्रवरान्तथा । त्यागं कृत्वा द्विजस्तस्यास्ततश्चान्द्रायणञ्चरेत् ॥” इति । त्यागश्चोपभोगस्यैव न तस्या इत्याह-शातातपः— “समानप्रवराङ्कन्यामेकगोत्रामथापि वा । विवाहयति योमूढस्तस्य वक्ष्यामि निष्कृतिम् ॥ उत्सृज्य तान्ततोभार्या मातृवत्परिपाल

१० कण्डिका ] गोभिलगृह्यसूत्रे- १२५ वृत्तस्वाध्यायसापेक्षंमघसङ्कोचनन्तथा । अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च ॥ प्रायश्चित्ताऽभिधानञ्च विप्राणां मरणान्तिकम् । संसर्गदोषः पापेषु मधुपर्के पशोर्वधः ॥ दत्तौरसेतरेषाञ्च पुत्रत्वेन परिग्रहः । शामित्रञ्चैव विप्राणां सोमविक्रयणन्तथा ॥ दीर्घकालं ब्रह्मचर्यं नरमेधाश्वमेधकौ । कलौ युगे विमान्धर्म्मान्वर्ज्यानाहुर्मनीषिणः ॥” इति । अत्र ( कन्यापरिग्रहे ) स्वयमयमाचार्योवक्ष्यति समावर्त्तनप्रक्रमे । ( ३।४।४-५ ) तद्द्रष्टव्यम् ॥ १२ ॥ अथ जन्यानामेकोध्रुवाणामपां कलशम्पूरयित्वा सहोदकु- म्भः प्रावृतोवाग्यतोऽग्रेणाऽग्निम्परिक्रम्य दक्षिणत उदङ्मुखोऽव- तिष्ठते ॥ १३ ॥ अथ अग्निस्थापनानन्तरम् । “जन्याः स्निग्धा वरस्य ये”इत्यमरः । नवो- ढाज्ञा(१)तयोवेति चन्द्रकान्तः । तेषामेकोऽन्यतमः कश्चित्स च द्विज एव । तथाच गृह्यासङ्ग्रहः- “गन्धमाल्यैरलंस्कृत्य(२) सकुम्भोवाग्यतः शुचिः । धारयेत्त्रिषु वर्णेषु प्रावृताङ्गोद्विजोत्तमः ॥” इति । अत्र धारयेदित्यत्र विभक्तिविपरिणतङ्कुम्भमित्यनुषज्यते । ब्राह्मणो- वरदिश्यः कलशधारीति हारिलपद्धतिरपि । ध्रुवाणाम्—अतिप्रखरतापेऽपि अशुष्कजलाशयोत्थितानामिति सत्यव्रतः । तदेतदज्ञानविजृम्भितम् । तथाच गृह्यासङ्ग्रहेऽङ्गिराः- “महानदीषु या आपः कौप्याश्च हृदेषु च । गन्धवर्णरसैर्युक्ता ध्रुवाः स्युरिति निश्चयः ॥” इति । कौप्याः अकूपसम्बन्धिन्यः । तथाच महानद्याद्यसम्भवे कूपोद- कमिन्ना याः काश्चिदप्यापोगन्धादिगुणयुक्ता ग्राह्या इत्यर्थः ध्रुवाणामपामिति षष्ठी तृतीयार्थे । सहोदकुम्भः । उदकपूर्णकुम्भसहिः । अत्र मध्यमपदलोपी समासः ( पा० ६।३।५९ ) ॥ “वोपसर्जनस्य”-( पा-६।३।८२ ) इति सहस्य ( १ ) “जन्योवरवधूज्ञातिप्रियभृत्यहितेषु च” इति विश्वप्रकाशः ॥ “भृत्याश्चापि न- वोढाया जन्या” इति केशवः । ( २ ) “अत्रात्मानम्” इति शेषः ॥

१२६ विवाहविधिः। [ १ प्रपाठके सादेशः। प्रावृतः कृ·(धृ·)तोष्णीषइतिभाष्यकारः। वस्त्राच्छादितशरीर(१) इतिपद्धतिः। दक्षिणतः प्रकृतत्वादग्नेर्ब्रह्मणश्च। अवतिष्ठत इति। ऊर्ध्वस्थितो- भवेदित्यर्थः। अत्रापि वाग्यमनलोपे पूर्वोक्तमेव ( १-६-१९पृ० ८२ ) प्रायश्चित्तं कारणस्याविशेषादिति द्रष्टव्यम्। एवमन्यत्रापि ॥ १३ ॥ प्राजनेनान्यः ॥ १४ ॥ अन्योऽपरोवरपक्ष्यः। प्राजनेन-प्रतोदेन(२) गृहीतेनोपलक्षितस्तथैवावति- ष्ठते। अत्रोपलक्षणे तृतीया (पा० २।३।२१) "प्राजनंतोदनंतोत्रम्"-त्यमरः। एव समाचारोऽद्यत्वेनास्ति ॥१४॥ शमीपलाशमिश्रांश्च लाजांश्चतुरञ्जलिमात्रान्सूर्पेणोपसादयन्ति पश्चादग्नेः ॥ १५ ॥ शमी-प्रसिद्धा। तस्याः पलाशानि पत्राणि तैर्मिश्रान् लाजान्— "अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना भवन्ति ते। भृष्टास्तु व्रीहयोलाजा घटः खाण्डिक उच्यते ॥" इति कर्म्मप्रदीपोक्तलक्षणात् । चतुरञ्जलिमात्रान् । चत्वारोऽञ्जलयः प्रमाणमेषामिति तद्धितार्थे समासः । ( पा० २।१।५१ ) प्रमाणे च मात्रच्प्र- त्ययः । ( पा० ५।२।३७ ) यावद्भिश्चत्वारोऽञ्जलयः पूर्यन्ते तावतः । अग्नेः पश्चात् । शूर्पेणोपसादयन्ति । शूर्पेस्थान्कृत्वा समीपे स्थापयन्ति ॥ १५ ॥ दृषत्पुत्रञ्च ॥ १६ ॥ दृषत्पुत्रं—शिलापुत्रकम् "लोढ़ेति" प्रसिद्धम् । अग्नेः पश्चादुपसादयन्तीति पूर्वेणान्वितम् ॥ १६ ॥ अथ यस्याः पाणिं ग्रहीष्यन्भवति सशिरस्का साऽऽप्लुता भवति ॥ १७ ॥ आप्लुता-अविधवापनीतमङ्गलोदकैस्त्रिभिर्घटैः स्नाता । तथाच-गृह्यास- ( १ ) निवीतं प्रावृतं त्रिषु" इत्यमरटीकायां "निवीतं प्रावृतमिति द्वे प्रावृतवस्त्र- स्ये"ति महेश्वरः । प्रकर्षेणावृतं वेष्टितं वस्त्रं येनेति तदर्थः ॥ ( २ ) "चाबुक"-पदाभिधेयेन । प्रकर्षेण तुदति व्यथयत्यश्वादिकमनेनेति व्युत्पत्तेः । यत्पर्यायः "कशे"ति ॥ "प्राजनं तोदनन्तोत्रम्" इत्यमरे तोदनं प्रतोद इत्यनर्थान्तरम् । आद्ये "तुदव्यथने" इत्यतः करणे ल्युट् ( पा० ३।३।११९ ) । द्वितीये करणे घञ् ( पा० ३।३।१९ ) । प्रेति प्रकर्षार्थकमत्र विशेषः । प्राजनमितितु "अजगविक्षेपणयोरि"त्य- ( भ्वा० प० )-स्मात्करणे ल्युट् पूर्ववत् । प्रवीयतेऽनेनेति । "वायौ" ( पा० २।४।५७ ) इति व्यादेशोऽजेर्भवति ॥

१० कण्डिका ] गोभिलगृह्यसूत्र- १२७ डुमूहः "स्नानञ्चतुर्भिःकलशैः प्लावनस्तु त्रिभिर्घटैः ।” इति ॥ एतद्विधानमु- क्तमधस्तत् । ( २।१।१० ) ॥ ( अत्र विशेष उच्यते ) अथ कण्ठतः सूत्रकारानुक्तमपि कन्यादानमिदानीमेव “पतिः-परिदध्यादि” त्यग्रिमसूत्रस्वरसात् । अन्यथा(१) तस्य पतित्वासम्भवेन तत्पदेन(२) वरोपा- ( १ ) कन्यादानाभावे । तस्यवरस्य ॥ ( २ ) पतिपदेन प्रतिग्रहीतोच्यते । प्रतिग्रहश्चायं ग्रहणविशेषः विवाहपदप्रवृत्तिनि- मित्तभूतः । स च स्वत्वविशेषोत्पत्त्यनुकूलव्यापाररूपः स्वीकारविशेषः । तदुक्तमाश्वला- यनगृह्यभाष्ये-"उपयमनं नाम कन्यायाः स्वीकरणम्”ति । अत एवो-“पाणेश्च स्वकरणे” ( १-३-५६ ) इति पाणिनिस्मरणम् । उपयच्छत-इत्युदाहृत्योद्वहतीति विवरणं च वृत्ति- कारोक्तं सङ्गच्छते । स्वत्वे विशेषत्वञ्च स्वनिरूपकपतिनाशादिदोषैरनश्वरत्वस्वरूपम् । अत एव मृतेऽपि पत्यौ तस्येयमिति प्रयोगः । स चायं स्वीकारोद्विविधः कन्यापित्रादि- कर्त्तृकदानादिप्रयोज्यः ॐ-इत्यादिप्रयोगादिप्रकाशयप्रतिग्रहरूपः १। "भगोऽर्यमासवि- तापुरन्धिर्मह्यन्त्वादुर्गार्हपत्याय देवा" इत्यादिमन्त्रप्रकाशयदेवकत्तृककन्यादानसम्पाद- कप्रतिग्रहस्वरूपश्च २। तत्प्रकाशकश्च "गृभ्णामि ते सौभगत्वाय हस्तम्" इत्यादिमन्त्रप्र- योगः । पाण्यवच्छेदेन कन्याग्रहणञ्च देवकर्तृकदानं मनुरप्याह-“देवदत्ताम्पतिर्भार्यां विन्दते नेच्छयाऽऽत्मनः” इति । तमिमद्विविधमपि दर्शयति नारदः- “स्त्रीपुंसयोस्तु सम्बन्धाद्वरणं प्राग्विधीयते । वरणाद्ग्रहणं पाणेः स सम्बन्धोद्विलक्षणः” इति । विवृणो- ति चैतद्रत्नाकरः । सम्बन्धात्-पाणिग्रहणात्मकात् वरणात् वरणोत्तरं द्विलक्षणः वरणरूपः पाणिग्रहरूपश्चेति । वरणं कन्यापित्रादिकर्तृकन्दाने “प्रत्यङ्मुखा वरयन्ति प्रतिगृह्णन्ति प्राङ्मुखाः” इत्यादौ तथा दर्शनात् । वरयन्ति-गोत्रप्रवराद्यभिधानपूर्वकं ददतीत्यर्थ इति हि तद्व्याख्यातारोरत्नाकरायः । तच्च प्रतिग्रहपर्यन्तं विवक्षिते पाणिग्रहणपदञ्च सप्तप- दीपरिणयनान्त कर्म्माभिधायकम् । अत एव कन्यादाननिष्पत्त्यनन्तरं पाणिग्रहणात्पूर्वमपि विवाह सम्पत्तिकथनं प्रथमप्रतिग्रहरूपस्यैकरूपस्य निष्पन्नत्वात् । यथा त्रिशङ्कपाख्याने- “पाणिग्रहणमन्त्राणां विघ्नं चक्रे स दुर्मतिः । येन भार्या हृता पूर्वं कृतोद्वाहा परस्य वै” इति । कृतोद्वाहा पाणिग्रहात्पूर्वं हृतेत्यर्थः । अयमत्र विवेहः । केवलेन प्रथमप्रतिग्रहेण कन्यायां पत्युः स्वत्वमुत्पद्यते । दातुः स्वत्वं निवर्त्तते । तथाच मनुः "मङ्गळार्थं स्वस्त्ययनं यज्ञस्तासां प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम्” इति । प्रदानं स्वाम्य- कारणं-प्रदानेनैव कन्यायां वरस्य स्वाम्यं जायते दातुः स्वाम्यं निवर्त्तत इति रत्नाकरः । नचानेन दानमात्रस्य स्वाम्यकारणत्वमभिहितं न तु प्रतिग्रहस्येति वाच्यम् । दानस्य प्रतिग्रहपर्यन्तत्वात् । स्वनिरूपकपतिनाशादिदोषानश्वरत्वविशिष्टस्वत्वोत्पत्तिस्तु सप्तपदी- परिणयनान्तकर्मरूपद्वितीयप्रतिग्रहसहकारैणैव । अत एव कन्यादाना नन्तरं “गृभ्णामि ते सौभगत्वाय हस्तमि”त्येवमुक्तपाणिग्रहणसंस्कारात्पूर्वं वरमरणे वरान्तराय कन्यापितृक- तृके पुनर्दाने सङ्गच्छते । तथाच वसिष्ठः “अद्भिर्वाचा च दत्तायां मृत ऊर्ध्वं वरोयदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव से”ति । एतद्वचनव्याख्याने रत्नाकरः । कन्यायाः सकृद्दानं यन्मन्वादिभिरुक्तन्तत्पाणिग्रहणान्तसंस्कारवत्कन्याविषयमिति ॥

१२८ विवाहविधिः । [ १ प्रपाठके- दानानुपपत्तेः । तदुक्तं गृह्यसङ्ग्रहे— “पुनरुक्तमतिक्रान्तं यच्च सिंहावलोकितम् । गोभिलोक्तेन गृह्णन्ति न ते ज्ञा यन्ति गोभिलम् ॥” इति । गोभिलं-गोभिलकृतं गृह्यसूत्रम् । अतएव भाष्यकृतोऽपि-अनुपद- मुश्लिष्यमाणसूत्रे “परिदध्यादि”तिपदमुपादाय “पतिस्ताङ्कन्यामादत्तां सतीं परिधापयेत्”इतिव्याख्यातवन्तः ॥ यत्तु कन्यादानान्तरमेवाग्निस्थापनमिति तन्न “वराय शुचिसन्निधौ” इति कातीयसमयोद्बोधकवक्ष्यमाणबृहस्पतिवचनविरोधात् । शुचिरग्निः । ‘शुचिर्ग्रीष्माग्निशृङ्गारेष्वि”ति मेदिनी । “अभ्युदानयन्नि”ति ( २।१।१९ ) सू- त्रविरोधाच्च । वीरेश्वरादिपद्धतिस्वरसोऽप्येवम् । मण्डपानयनानन्तरं कन्याया द्विराचमनम् । द्विराचामेदित्यनुवृत्तौ—“प्रारम्भे शुभकर्मणाम्” इति स्कन्दपुरा- णवचनात् । वराचमनन्तु-अब्राह्मणादिस्पर्शासम्भवे । वीरेश्वरादिपद्धतिरप्येवम् कन्यादानाधिकारिणः पूर्वमुक्ताः ( २।१।१२ ) तत्रर्तुमत्याः प्रदाने दोषमाह याज्ञवल्क्यः— “अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ । गम्यन्त्वभावे दातॄणाङ्कन्या कुर्यात्स्वयं वरम् ॥” इति । गम्यम्-गमनाह्रन्नारदोक्तसवर्णत्वादिवर्म्मवन्तम् । कन्यैव वरयेत् । तदेतदृतुत्रयान्ते बोद्धव्यम्(१) । तथा च विष्णुः— “ऋतुत्रयमपाकृत्य कन्या कुर्यात्स्वयं वरम् । ऋतुत्रये व्यतीते तु प्रभवत्यात्मनस्तु सा । पितृवेश्मनि या नारी रजः पश्यत्यसंस्कृता । सा कन्या वृषली ज्ञेया हरंस्तां न च दुष्यति ॥” ( १ ) मनुस्तु-“त्रीणि वर्षाण्युपासीत कुमार्यृतुमती सती । ऊर्ध्वन्तु कालादेतस्मा द्विन्देत सदृशं पतिम् ॥ अदीयमाना भर्त्तारमधिगच्छेत्स्वयन्तु सा । नैनः किञ्चिदवा- प्नोति न च यं साऽधिगच्छति ॥ अलङ्कारन्नाददीत पितृदत्तं स्वयंवरा । मातृभ्रातृदत्तं वा स्तेयं स्याद्यदि सा हरेत् ॥ पित्रे न दद्याच्छुल्कन्तु कन्यामृतुमतीं हरन् । स हि स्वा- म्यादतिक्रामेदृतूनां प्रतिरोधनात् ॥” इति । एनः पापमसतीत्वनिबन्धनम् । अत्रेदं बोध्यम् । योहि— “पितृगेहे तु या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः कन्या सा वृषली स्मृता ॥ यस्तु तां वरयेत्कन्यां ब्राह्मणाज्ञानदुर्बलः । अश