गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 159, कुल 332 में से
संदर्भ में पढ़ें१२८ विवाहविधिः । [ १ प्रपाठके- दानानुपपत्तेः । तदुक्तं गृह्यसङ्ग्रहे— “पुनरुक्तमतिक्रान्तं यच्च सिंहावलोकितम् । गोभिलोक्तेन गृह्णन्ति न ते ज्ञा यन्ति गोभिलम् ॥” इति । गोभिलं-गोभिलकृतं गृह्यसूत्रम् । अतएव भाष्यकृतोऽपि-अनुपद- मुश्लिष्यमाणसूत्रे “परिदध्यादि”तिपदमुपादाय “पतिस्ताङ्कन्यामादत्तां सतीं परिधापयेत्”इतिव्याख्यातवन्तः ॥ यत्तु कन्यादानान्तरमेवाग्निस्थापनमिति तन्न “वराय शुचिसन्निधौ” इति कातीयसमयोद्बोधकवक्ष्यमाणबृहस्पतिवचनविरोधात् । शुचिरग्निः । ‘शुचिर्ग्रीष्माग्निशृङ्गारेष्वि”ति मेदिनी । “अभ्युदानयन्नि”ति ( २।१।१९ ) सू- त्रविरोधाच्च । वीरेश्वरादिपद्धतिस्वरसोऽप्येवम् । मण्डपानयनानन्तरं कन्याया द्विराचमनम् । द्विराचामेदित्यनुवृत्तौ—“प्रारम्भे शुभकर्मणाम्” इति स्कन्दपुरा- णवचनात् । वराचमनन्तु-अब्राह्मणादिस्पर्शासम्भवे । वीरेश्वरादिपद्धतिरप्येवम् कन्यादानाधिकारिणः पूर्वमुक्ताः ( २।१।१२ ) तत्रर्तुमत्याः प्रदाने दोषमाह याज्ञवल्क्यः— “अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ । गम्यन्त्वभावे दातॄणाङ्कन्या कुर्यात्स्वयं वरम् ॥” इति । गम्यम्-गमनाह्रन्नारदोक्तसवर्णत्वादिवर्म्मवन्तम् । कन्यैव वरयेत् । तदेतदृतुत्रयान्ते बोद्धव्यम्(१) । तथा च विष्णुः— “ऋतुत्रयमपाकृत्य कन्या कुर्यात्स्वयं वरम् । ऋतुत्रये व्यतीते तु प्रभवत्यात्मनस्तु सा । पितृवेश्मनि या नारी रजः पश्यत्यसंस्कृता । सा कन्या वृषली ज्ञेया हरंस्तां न च दुष्यति ॥” ( १ ) मनुस्तु-“त्रीणि वर्षाण्युपासीत कुमार्यृतुमती सती । ऊर्ध्वन्तु कालादेतस्मा द्विन्देत सदृशं पतिम् ॥ अदीयमाना भर्त्तारमधिगच्छेत्स्वयन्तु सा । नैनः किञ्चिदवा- प्नोति न च यं साऽधिगच्छति ॥ अलङ्कारन्नाददीत पितृदत्तं स्वयंवरा । मातृभ्रातृदत्तं वा स्तेयं स्याद्यदि सा हरेत् ॥ पित्रे न दद्याच्छुल्कन्तु कन्यामृतुमतीं हरन् । स हि स्वा- म्यादतिक्रामेदृतूनां प्रतिरोधनात् ॥” इति । एनः पापमसतीत्वनिबन्धनम् । अत्रेदं बोध्यम् । योहि— “पितृगेहे तु या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः कन्या सा वृषली स्मृता ॥ यस्तु तां वरयेत्कन्यां ब्राह्मणाज्ञानदुर्बलः । अश