भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 158, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 158

१० कण्डिका ] गोभिलगृह्यसूत्र- १२७ डुमूहः "स्नानञ्चतुर्भिःकलशैः प्लावनस्तु त्रिभिर्घटैः ।” इति ॥ एतद्विधानमु- क्तमधस्तत् । ( २।१।१० ) ॥ ( अत्र विशेष उच्यते ) अथ कण्ठतः सूत्रकारानुक्तमपि कन्यादानमिदानीमेव “पतिः-परिदध्यादि” त्यग्रिमसूत्रस्वरसात् । अन्यथा(१) तस्य पतित्वासम्भवेन तत्पदेन(२) वरोपा- ( १ ) कन्यादानाभावे । तस्यवरस्य ॥ ( २ ) पतिपदेन प्रतिग्रहीतोच्यते । प्रतिग्रहश्चायं ग्रहणविशेषः विवाहपदप्रवृत्तिनि- मित्तभूतः । स च स्वत्वविशेषोत्पत्त्यनुकूलव्यापाररूपः स्वीकारविशेषः । तदुक्तमाश्वला- यनगृह्यभाष्ये-"उपयमनं नाम कन्यायाः स्वीकरणम्”ति । अत एवो-“पाणेश्च स्वकरणे” ( १-३-५६ ) इति पाणिनिस्मरणम् । उपयच्छत-इत्युदाहृत्योद्वहतीति विवरणं च वृत्ति- कारोक्तं सङ्गच्छते । स्वत्वे विशेषत्वञ्च स्वनिरूपकपतिनाशादिदोषैरनश्वरत्वस्वरूपम् । अत एव मृतेऽपि पत्यौ तस्येयमिति प्रयोगः । स चायं स्वीकारोद्विविधः कन्यापित्रादि- कर्त्तृकदानादिप्रयोज्यः ॐ-इत्यादिप्रयोगादिप्रकाशयप्रतिग्रहरूपः १। "भगोऽर्यमासवि- तापुरन्धिर्मह्यन्त्वादुर्गार्हपत्याय देवा" इत्यादिमन्त्रप्रकाशयदेवकत्तृककन्यादानसम्पाद- कप्रतिग्रहस्वरूपश्च २। तत्प्रकाशकश्च "गृभ्णामि ते सौभगत्वाय हस्तम्" इत्यादिमन्त्रप्र- योगः । पाण्यवच्छेदेन कन्याग्रहणञ्च देवकर्तृकदानं मनुरप्याह-“देवदत्ताम्पतिर्भार्यां विन्दते नेच्छयाऽऽत्मनः” इति । तमिमद्विविधमपि दर्शयति नारदः- “स्त्रीपुंसयोस्तु सम्बन्धाद्वरणं प्राग्विधीयते । वरणाद्ग्रहणं पाणेः स सम्बन्धोद्विलक्षणः” इति । विवृणो- ति चैतद्रत्नाकरः । सम्बन्धात्-पाणिग्रहणात्मकात् वरणात् वरणोत्तरं द्विलक्षणः वरणरूपः पाणिग्रहरूपश्चेति । वरणं कन्यापित्रादिकर्तृकन्दाने “प्रत्यङ्मुखा वरयन्ति प्रतिगृह्णन्ति प्राङ्मुखाः” इत्यादौ तथा दर्शनात् । वरयन्ति-गोत्रप्रवराद्यभिधानपूर्वकं ददतीत्यर्थ इति हि तद्व्याख्यातारोरत्नाकरायः । तच्च प्रतिग्रहपर्यन्तं विवक्षिते पाणिग्रहणपदञ्च सप्तप- दीपरिणयनान्त कर्म्माभिधायकम् । अत एव कन्यादाननिष्पत्त्यनन्तरं पाणिग्रहणात्पूर्वमपि विवाह सम्पत्तिकथनं प्रथमप्रतिग्रहरूपस्यैकरूपस्य निष्पन्नत्वात् । यथा त्रिशङ्कपाख्याने- “पाणिग्रहणमन्त्राणां विघ्नं चक्रे स दुर्मतिः । येन भार्या हृता पूर्वं कृतोद्वाहा परस्य वै” इति । कृतोद्वाहा पाणिग्रहात्पूर्वं हृतेत्यर्थः । अयमत्र विवेहः । केवलेन प्रथमप्रतिग्रहेण कन्यायां पत्युः स्वत्वमुत्पद्यते । दातुः स्वत्वं निवर्त्तते । तथाच मनुः "मङ्गळार्थं स्वस्त्ययनं यज्ञस्तासां प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम्” इति । प्रदानं स्वाम्य- कारणं-प्रदानेनैव कन्यायां वरस्य स्वाम्यं जायते दातुः स्वाम्यं निवर्त्तत इति रत्नाकरः । नचानेन दानमात्रस्य स्वाम्यकारणत्वमभिहितं न तु प्रतिग्रहस्येति वाच्यम् । दानस्य प्रतिग्रहपर्यन्तत्वात् । स्वनिरूपकपतिनाशादिदोषानश्वरत्वविशिष्टस्वत्वोत्पत्तिस्तु सप्तपदी- परिणयनान्तकर्मरूपद्वितीयप्रतिग्रहसहकारैणैव । अत एव कन्यादाना नन्तरं “गृभ्णामि ते सौभगत्वाय हस्तमि”त्येवमुक्तपाणिग्रहणसंस्कारात्पूर्वं वरमरणे वरान्तराय कन्यापितृक- तृके पुनर्दाने सङ्गच्छते । तथाच वसिष्ठः “अद्भिर्वाचा च दत्तायां मृत ऊर्ध्वं वरोयदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव से”ति । एतद्वचनव्याख्याने रत्नाकरः । कन्यायाः सकृद्दानं यन्मन्वादिभिरुक्तन्तत्पाणिग्रहणान्तसंस्कारवत्कन्याविषयमिति ॥