भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 143, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 143

अहुताः परिसंख्याय पात्रे कृत्वाऽऽहुतीः सकृत् । मन्त्रेण विधिवद्धुत्वा एवमेवापरा अपि” ॥ इति ॥ २२ ॥ एवमस्य व्रतं सन्ततम्भवतीति ॥ २३ ॥ एवमपि कृतेऽस्य व्रतिनोव्रतं नियमः सन्ततमविलुप्तं भवति ॥ तस्मात्सत्यु- पाये पुनराधानं न कर्त्तव्यम् । इतिर्ब्राह्मणवाक्यसमाप्तिज्ञापनार्थः । प्रकरण- समाप्त्यर्थोवा ॥ २३ ॥ एषोऽत ऊर्ध्वं हविराहुतिषु न्यायः ॥ २४ ॥ एषोऽनन्तरोक्तोन्यायः प्रकारः । अत ऊर्ध्वं वक्ष्यमाणासु हविराहुतिषु द्रष्ट- व्यः । इत्युक्तप्रकारः सर्वत्रातिदिश्यते । न्यायग्रहणेन चैतदुक्तं भवति अत ऊर्ध्वं ये क्षिप्रहोमा ब्रह्मचारिसमिदादयोवक्ष्यन्ते तेषु क्षिप्रहोमोक्त एव प्रकारो- भवति । ये पुनस्तन्त्रहोमा वैवाहिकहोमादयस्तेषु ब्रह्मोपवेशनादितन्त्रं द्रष्टव्यम् । तथा