गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 144, कुल 332 में से
संदर्भ में पढ़ेंद्धारः करणीयः । तदप्याह-म एव- “नोऽङ्कुर्याद्धोममन्त्राणां पृथगादिषु कुत्र चित् । अन्येषाञ्च विकृष्टानां कालेनाचमनादिना” ॥ इति ॥ २५ ॥ आज्याहुतिष्वाज्यमेवसँस्कृत्योपघातञ्जुहुयात् नाज्यभागौ न स्विष्टकृत् ॥ २६ ॥ आज्यस्य यथोक्तस्याहुतिषु । यत्राज्यमेव हूयते तत्र, आज्यं संस्कृत्यैवोपघा- तं यथाभवति तथा जुहुयाद्द्रवद्रव्यकत्वात्स्रुवेणेत्यर्थः । एवकारेण यद्यावच्छि- द्यते तदप्युच्यते सुखावबोधार्थम्-नाज्यभागावित्यादि । तदेते अतिदेशागता इह प्रतिषिध्यन्ते ॥ २६ ॥ आज्याहुतिष्वनादेशे पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिहोमः ॥ २७ ॥ आज्याहुतिषु-यत्राज्यमेव हूयते नान्यच्चर्वादि हविरन्तरमस्ति । तेषु नाम- करणादिकर्म्मसु । एवम् अनादेशे-यत्रहोम एवनादिश्यते पुंसवनादिषु । तत्र(१) च पुरस्ताच्चोपरिष्टाच्च-पूर्वं पश्चाच्च । व्याहृतिभिर्होमः कार्य्यइत्यर्थः । ताश्चो- क्ताः कात्यायनेन- “भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्य(२)याः ।” इति ॥ गृह्यसङ्ग्रहे- “यत्र व्याहृतिभिर्होमः प्रायश्चित्तार्थकोभवेत् । चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥” इति । एवञ्च यत्र विशेषोपदेशातिदेशाभ्यां प्रायश्चित्ततया वा व्याहृतिहो- मलाभस्तत्र व्याहृतिभिस्तिस्रः समस्ताभिरेकेत्याहुतिचतुष्टयमन्यत्र व्याहृति- त्रयमिति न वचनयोर्विरोधः(३) ॥ २७ ॥ यथा पाणिग्रहणे तथा चूडाकर्म्मण्युपनयने गोदाने च ॥२८॥ यथा पाणिग्रहणे महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्र आहुतयोहूयन्ते तथा चूडाकर्म्मादावपि । सोऽयमनार्गतातिदेशः । चूडाकर्म्मादिव्यतिरिक्तेषु तु तिस्र एवाहुतयोभवन्तीत्यवगमयति ॥ २८ ॥
( १ ) अत्र “मध्यात्पूर्वाद्वार्दि”—( १।८।६ ) ति वकारोलुप्तवद् द्रष्टव्यः ॥ ( २ ) अविनाशिन्यः । एतेन त्रिवेदसर्वस्वत्वमासां ज्ञापयति । तथाच मनुः “अका- रञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥” इति ॥ ( ३ ) मनुरपि “ॐकारपूर्विकास्तिस्रोमहाव्याहृतयोऽमलाः” इत्याह । पद्धतिकृ- तस्तु--भूर्भुवस्वरिति प्रत्येकं तिस्रोव्याहृतयः । मिलितास्तु महाव्याहृतयः । सूत्रादौ च व्याहृतिष्वपि तिसृषु महाव्याहृतित्वोपचारात्प्रयोग इत्यर्थगत्या वदन्ति ॥ १५ गो० गृ० सू०