गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 145, कुल 332 में से
संदर्भ में पढ़ेंअपवृत्ते कर्म्मणि वामदेव्यगानँ शान्त्यर्थँ शान्त्यर्थम् ॥ २६ ॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे प्र० प्र० नवमी कण्डिका ॥ १ ॥ ९ ॥ अपवृत्ते-समाप्ते कर्म्मणि । वामदेव्यस्य “कयान”(१) इत्यादिकस्य (सा० उ० अ१ खं०२) गानं कर्त्तव्यमिति परिभाष्यते । तस्मात्सर्वेषामपि कर्म्मणामप- वर्गे वामदेव्यं साम गातव्यम् कर्म्मणीति सामान्यतयोपदेशात् । बहूनाङ्कर्मणा- मेकदा करणेऽन्ते सकृदेव तद्द्वानमित्याह कर्म्मप्रदीपः— “अहोमाकेऽष्वपि भवेद्यथोक्तं चन्द्रदर्शने । वामदेव्यन्तृणस्यान्ते बल्यन्ते वैश्वदेविके ॥” इति । गानस्याशक्तावपि ऋचोवारत्रयं पठनीया इत्याह स एव— “अन्ते च वामदेव्यस्य गानङ्कुर्यादृचस्त्रिधा ॥” इति । शान्त्यर्थमित्यर्थवादः । स्तूयते(२)ह्यनेन गानम् । अन्तेऽस्याभ्यासो- ऽत्र प्रपाठकपरिसमाप्तिद्योतकः ॥ २९ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “गूढाख्यायां मुकुन्दशर्म्मसङ्कलिताया- म्प्रथमप्रपाठकस्य नवमी कण्डिका ॥ १ ॥ ९ ॥ प्रथमप्रपाठकेऽग्निसमाधानमुपक्रम्य तत्रावश्यककर्त्तव्यं सायम्प्रातर्होमादि-दर्श- पूर्णमासान्तोविधिरभिहितः । तत्र च जायायाः पाणिग्रिहणमन्त्याधानकाल- विशेषणतयाऽभिहितम् । तत्प्रकारपरिदर्शनाय द्वितीयप्रपाठकारम्भः । अत्र ( द्वितीयप्रपाठके ) विवाहाद्युपनयनान्तोदशकर्म्मविधिरनुक्तपूर्वं उच्यते— पुण्ये नक्षत्रे दारान्कुर्वीत ॥ १ ॥ ( १ ) कयान इति महावामदेव ऋषिर्गायत्रीच्छन्दोऽग्निदेवताऽग्निष्टोमादौ द्वितीय- पृष्ठे शान्तिकर्म्मणि च जपे विनियोगः । ॐ कयानश्चित्र आभुवदूती सदावृधः । सखाकया सचिष्ठया वृता ॥१॥ कस्त्वो सत्योमदानां मंहिष्ठोमत्सदन्धसः । दृढाचिदारु ये वसु ॥२॥ अभीषुणः सखीनामविता जरितॄणां, शतमन्वास्यूतये ॥३॥ स्वस्तिनइन्द्रोवृद्धश्रवाःस्व- स्तिनः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ॥ ४ ॥ स्वस्तिनोबृहस्पतिर्दधातु ॐ ३ स्वस्तिनोबृहस्पतिर्दधात् ॥ ४ ॥ ॐ प्रजापत्यं वैवामदेव्यं प्रजापताव्वेव प्रतिष्ठा- योत्तिष्ठन्तु ॥ ५ ॥ ॐ पशवोवैवामदेव्यं पशुष्वेव प्रतिष्ठायात्तिष्ठन्तु ॥ ६ ॥ ॐ शान्ति- र्वैवामदेव्यं शान्ताव्वेवप्रतिष्ठायात्तिष्ठन्तु ॥ ७ ॥ ॐ अत एतत् कर्माऽच्छिद्रमस्तु । ( अस्तु ) ॥ ८ ॥ इतिगानमन्त्रः ॥ अत्रान्तेऽस्त्वित्यवधारणं सर्वेषाम् ॥ अर्थोऽस्यास्म- त्कृते कर्म्मकाण्डमन्त्रार्थप्रदीपे द्रष्टव्यः ॥ ( २ ) गानमन्त्र “गैंशब्दे” ( भ्वा० प० ) इत्यस्माद्भावे ल्युटा साधुत्वं बोध्यम् । तेनास्य पाठमात्रमर्थः कार्यः ॥