भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 14, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 14

( ७ ) ७ जुगुप्सेयातान्त्वेवावद्येभ्यः कर्म्मभ्यः ॥ ८ न प्रवसन्नुपसेदित्याहुः ॥ ९ पत्न्या व्रतम्भवतीति ॥ १० यथा कामयेत तथा कुर्य्यात् ॥ ११ एवमेवाहिताग्नेरप्युपवसथो भवति ॥ १२ यद्वाम्नायो विदध्यात् ॥ १३ अथ पूर्वाह्न एव प्रातराहुतिं हुत्वाऽग्रेणाग्निं परिक्रम्य दक्षिणतोऽग्नेः प्रागग्रान्दर्भानास्तीर्य्य ॥ १४ तेषां पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्सव्यस्य पादोरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या ब्रह्मासनात्तृणमभिसङ्गृह्य दक्षिणापरमश्मन्देशं निरस्यति “निरस्तः परावसुर्”ति ॥ १५ अप उपस्पृश्याथ ब्रह्मासन उपविशत्या“वसोः सदने सीदामी”ति ॥ १६ अग्निमभिमुखोवाग्यतः प्राञ्जलिरास्त आकर्म्मणः पर्य्यवसानात् ॥ १७ भाषेत यज्ञसंसिद्धिम् ॥ १८ नायज्ञियां वाचं वदेत् ॥ १९ यद्ययज्ञियां वाचं वदेद् वैष्णवीमृचं यजुर्वा जपेत् ॥ २० अपि वा नमोविष्णव इति ब्रूयात् ॥ २१ यद्यु वा उभयर्त्विकीषेद्धौत्रञ्चैव ब्रह्मत्वञ्चैवैतेनैव कल्पेन छत्रं वोत्त- रासङ्गं वोदकमण्डलं दर्भवटुं वा ब्रह्मासने विधाय तेनैव प्रत्याव्रज्या- थान्यच्चेष्टेत ॥ इति प्रथमप्र० षष्ठी कण्डिका ॥ १ ॥ ६ ॥ ❊ ॥ अथ सप्तमी कण्डिका -- १ अथोलूखलमुशले प्रक्षाल्य शूर्पञ्च पश्चादग्नेः प्रागग्रान्दर्भानास्तीर्य्यो- पसादयति ॥ २ अथ हविर्निर्व्वपति व्रीहीन् वा यवान् वा कांस्येन वा चरुस्था- ल्या वा ॥ ३ “अमुष्मै त्वा जुष्टं निर्वपामी”ति देवतानामादेशं सकृत् त्रिस्तूष्णीम् ॥ ४ अथ पश्चात्प्राङ्मुखोऽवहन्तुमुपक्रमेत, दक्षिणोत्तराभ्यां पाणिभ्याम् ॥ ५ त्रिःफलीकृताँस्तण्डुलान् त्रिर्देवेभ्यः प्रक्षालयेदित्याहुर्द्विर्म्मनुष्येभ्यः, सकृत् पितृभ्य इति ॥ ६ पवित्रान्तर्हितांस्तण्डुलानावपेत् ॥ ७ कुशलभृतमिव स्थालीपाकँ श्रपयेत् प्रदक्षिणमुदायुवन् ॥