गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
DevanagariHindipublished332 पृष्ठ
पृष्ठ 161, कुल 332 में से
संदर्भ में पढ़ेंपृष्ठ 161
१३० विवाहावधिः । [ २ प्रपाठक-
तत्परिज्ञानञ्चान्तरजोऽवगतिसापेक्षं यदेतन्मात्रादिभिरदुर्विज्ञेयम्भवति । यद्वि- षये च सूत्रयिष्यति “नग्निका तु श्रेष्ठे”-( ३।४।६ )ति(१) । गम्यं सङ्गमनार्हम् विवाहयोग्यम् । अत्रेदं बोध्यम् । दातुर्नग्निका श्रेष्ठा । यथाह-वशिष्ठः- “तस्मान्नग्निका दातव्ये”-ति । नग्निकालक्षणन्तु- “यावन्न लज्जयाऽत्यर्थङ्कन्या पुरुषसन्निधौ । योन्यादीनुपगूहेत तावद्भवति नग्निका ॥” इति स्मृत्युक्तम् । अत्रार्थे आग्नेयमभिधानमपि “नग्निकाऽनागतात्तवे” ति । आर्त्तवमृतुः । स्वार्थेऽण् ( पा०५।४।३८ ) प्रत्ययः । अतएव “प्राग्वासः प्रतिपत्तेरि”-त्युक्तम् । सैषा दातुः श्रेष्ठा । प्रतिग्रहीतुस्तु-
देशवाध एव क