गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 162, कुल 332 में से
संदर्भ में पढ़ें१ कण्डिका ] गोभिलगृह्यसूत्रे- १३१ “एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । गौरीं वाप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ॥” इति स्मृत्या गौरीपरिणय एव श्रेयान् । सा च— “अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षा भवेत्कन्या तदूर्ध्वन्तु रजस्वला ॥” इत्यङ्गिरसोक्ता । तत्फलमपि सएवाह— “गौरीन्ददद्विष्णुलोकं ब्रह्मलोकञ्च रोहिणीम् । कन्यान्ददत्स्वर्गलोकं रौरवञ्च रजस्वलाम् ॥” इति । अत एवैताङ्कौरीमभिप्रेत्यैव मनुनाऽपि प्रथममष्टवर्षैव (१)प्राप्त- यौवेनेनोपेया । तरुणेन तु द्वादशवर्षीपीत्युक्तम् । यथा— “त्रिंशद्वर्षोवहेत्कन्यां हृद्यां द्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥” इति । अत्र द्वादशवर्षादरः कन्याप्रदानसमयसीमाऽवबोधकस्तथाच स्मर्यते । “प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति । ... ... ... इति । वस्तुतस्तु-गौरीपदेनाऽपि नग्निकैवोच्यते यथाहाचार्य-( गो० ) पुत्रोगृह्यासङ्ग्रहे— “नग्निकान्तु वदेत्कन्यां यावन्नर्त्तुमती भवेत् । ऋतुमती त्वनग्निका तां प्रयच्छेत्तु नग्निकाम् ॥ अप्राप्ता रजसोगौरी प्राप्ते रजसि रोहिणी । अव्यञ्जिता भवेत्कन्या कुचहीना तु नग्निका ॥ व्यञ्जनैस्तु समुत्पन्नैः सोमोभुङ्क्तेऽथ ( ङ्गीत ) कन्यकाम् ॥ पयोधरैस्तु गन्धर्वा रजसाऽग्निः प्रकीर्त्तितम्(२) । तस्मादव्यञ्जनोपेता अरजा(३) अपयोधरा ॥ ( १ ) तथाच सुश्रुतः । “आ षोडशाद्वृद्धिरा पञ्चविंशतेर्यावनमाचत्वारिंशतः स्थि- रता ततःकिञ्चिद्ह्रास” इति । अत्र आङ्अभिविधौ । षोडशवर्षमारभ्येत्येवन्तदर्थः । एतेन ( वरवयः कथनेन ) कन्यातस्त्रिगुणस्साद्ध्र्द्विगुणोवास उत्तमइत्युक्तम्भवति । अत एव पञ्चदशवर्षदेशीयेन रामेणषड्वर्षा मैथिलो समुपाद्यतेति पुराणेषु श्रूयते । “राज्ञोवल्- भिंनःषष्ठे'इतिमानवस्मरणात् । एतच्च सकाम-( विशेषकामना)-विषयमित्यवो- चाम ॥ ( २ ) अत्र व्यञ्जनैरित्याद्युपलक्षणे तृतीया । व्यञ्जनैर्लोमादिभिरुपलक्षितामित्ये- वमर्थः । अत्र “इति आचार्य्येणे-”ति शेषः । अत्र प्रकोसित, इत्यपपाठः ॥ ( ३ ) अत्र द्वितीयान्ततया पाठे रजःशब्दोऽद्रान्ततः । “ये सान्तास्तेऽदन्ताः” इति- प्रायोवाददर्शनात् । अतएव “पिण्डन्दद्याद्रयाशिरे” इतिस्मर्यते ॥ किन्तु तथापाठे तुरीय चरणे प्रथमान्ततया पाठोऽनोपपद्यते ॥