गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 17, कुल 332 में से
संदर्भ में पढ़ें( १० ) ३ “ब्राह्मणस्य तृप्तिमनुतृप्यामी”ति ह यज्ञस्य वेदयन्ते ॥ ४ अथ यदस्यान्यदन्नमुपसिद्धं स्यात् ॥ ५ अथ ब्राह्मणान्भक्तेनोपेप्सेत् ॥ ६ पूर्णपात्रोदक्षिणा तं ब्रह्मणे दद्यात् ॥ ७ कंसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य ‟वाऽपि वा फलानामेवैतं पूर्णपात्रमित्याचक्षते ॥ ८ ब्रह्मैवैक ऋत्विक् ॥ ९ पाकयज्ञेषु स्वयंऽहोता भवतीति ॥ १० पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा ॥ ११ अपरिमितम्पराद्धर्धम् ॥ १२ अपि ह सुदाः पैजवन ऐन्द्राग्नेन स्थालीपाकेनेष्ट्वा शतं सहस्राणि ददौ ॥ १३ अथ यदि गृह्येऽग्नौ सायं प्रातर्होमयोर्वा दर्शपूर्णमासयोर्वा हव्यं वा होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥ १४ आसायमाहुतेः प्रातराहुतिर्नात्येत्याऽऽप्रातराहुतेः सायमाहुतिरामा- वास्यायाः पौर्णमासं नात्येत्यापूर्णमास्या आमावास्यम् ॥ १५ एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सेत् ॥ १६ अपि वा यज्ञियानामेवौषधिवनस्पतीनां फलानि वा पलाशानि वा श्रपयित्वा जुहुयात् ॥ १७ अप्यप एवान्ततो जुहुयादिति ह स्माह पाकयज्ञ ऐडोहुतं ह्येव ॥ १८ अहुतस्य प्रायश्चित्तं भवतीति ॥ १९ नाव्रतो ब्राह्मणः स्यादिति ॥ २० अथाप्युदाहरन्ति ॥ २१ यावन्न हूयेताभोजनेनैव तावत्सन्तनुयात् ॥ २२ अथ यदाधिगच्छेत् प्रतिजुहुयात् ॥ २३ एवमस्य व्रतं सन्ततं भवतीति ॥ २४ एषोऽत ऊर्ध्वंऽहविराहुतिषु न्यायः ॥ २५ मन्त्रान्ते स्वाहाकारः ॥ २६ आज्याहुतिष्वाज्यमेव संस्कृत्योपघातं जुहुयात् नाज्यभागौ न स्विष्टकृत् ॥ २७ आज्याहुतिष्वनादेशे पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होमः ॥ २८ यथा पाणिग्रहणे तथा चूडाकरणे चोपनयने गोदाने च ॥ २९ अपवृत्ते कर्म्मणि वामदेव्यगानंऽशान्त्यर्थं शान्त्यर्थम् ॥ इति प्र०प्र०नवमी कण्डिका ॥ १ ॥ ९ ॥ समाप्तश्च प्रथमः प्रपाठकः ॥*॥