गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 18, कुल 332 में से
संदर्भ में पढ़ें( ११ ) अथ द्वितीयप्रपाठके प्रथमा कण्डिका — १ पुण्ये नक्षत्रे दारान्कुर्वीत ॥ २ लक्षणप्रशस्तान्कुशलेन ॥ ३ तदलाभे पिण्डान् ॥ ४ वेद्याः सीताया हृदाद्गोष्ठाच्चतुष्पथाद्देवनादादहनादीरिणात् ॥ ५ सर्वेभ्यः सम्भार्य्यं नवमम् ॥ ६ समान् कृतलक्षणान् ॥ ७ पाणावाधाय कुमार्य्या उपनामये-“ऋतमेवप्रथममृतं नात्येति कश्चनर्त- इयं पृथिवी श्रिता सर्वमिदमसौ भूयादि”ति तस्या नाम गृहीत्वैषा- मेकं गृहाणेति ब्रूयात् ॥ ८ पूर्वेषाञ्चतुर्णांङ्गृण्हन्तीमुपयच्छेत् ॥ ९ सम्भार्य्यमपीत्येके ॥ १० क्रीतकैर्य्यैर्म्मार्गैर्वाऽऽप्लुताᳪसुहृत्सुरोत्तमेन सशरीरां त्रिर्म्मूर्धन्य- भिषिञ्चेत्-“कामं वेद ते नाम मदोनामासी”ति समानयाम्युमिति पतिनामगृह्णीयात्—स्वाहाकारान्ताभिरुपस्थमुत्तराभ्यां प्लावयेत् । ११ ज्ञातिकर्म्मतत् । १२ पाणिग्रहणे पुरस्ताच्छालाया अग्निरुपसमाहितोभवति ॥ १३ अथ जन्यानामेको ध्रुवाणामपां कलशं पूरयित्वा सहोदकुम्भः प्रावृतो वाग्यतोऽग्रेणाग्निं परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते ॥ १४ प्राजनेनान्यः ॥ १५ शमीपलाशमिश्रांश्च लाजांश्चतुरञ्जलिमात्रान् शूर्पेणोपसादयन्ति । पश्चादग्नेः ॥ १६ दृषदत्पुत्रञ्च ॥ १७ अथ यस्याः पाणिं ग्रहीष्यन्भवति सशिरस्का साऽऽप्लुता भवति ॥ १८ अहतेन वसनेन पतिः परिदध्यात् “याअकृन्तन्” एतयर्चा “परिधत्त धत्त वाससे”ति च ॥ १९ प्रावृतां यज्ञोपवीतिनीमभ्युदानयन् जपेत् “सोमोऽददद्गन्धर्व्वायेति” ॥ २० पश्चादग्नेः संवेष्टितकूटमेवं जातीयं वान्यत् पद्भ्या प्रवर्तयन्तीं वा- चयेत्-“प्रमे पतियानः पन्थाः कल्पतामि”ति ॥ २१ स्वयं जपेदजपन्त्यां “प्रास्या” इति ॥ २२ बर्हिषेऽन्तं कटान्तं प्रापयेत् ॥ २३ पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति ॥ २४ दक्षिणेन पाणिना दक्षिणमᳪसंमन्वारब्धायाः षडाज्याहुतीर्जुहो-