गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 19, कुल 332 में से
संदर्भ में पढ़ें( १२ ) ति-“अग्निरेतु प्रथम” इत्येतत्प्रभृतिभिः ॥ २५ महाव्याहृतिभिश्च पृथक् ॥ २६ समस्ताभिश्चतुर्थीम् ॥ इति द्वितीयपाठकस्य प्रथमा कण्डिका ॥ २ ॥ १ ॥ अथ द्वितीया कण्डिका— १ हुत्वोपोत्तिष्ठतः ॥ २ अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते । वध्वञ्जलिं गृहीत्वा ॥ ३ पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन ॥ ४ पाणिग्राहो जपति “इममश्मानमारोहे”ति ॥ ५ सकृत्सङ्गृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावावपति ॥ ६ तं सोपस्तीर्णाभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिं “इयं नार्यु- पब्रूते” इति ॥ ७ “अर्यमण्णु देवं” “पूषणमि” त्युत्तरयोः ॥ ८ हुते पतिर्यथेतं परिव्रज्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वा ब्राह्मणः “कन्यलापितृभ्य” इति ॥ ९ परिणीता तथैवावतिष्ठते तथाऽऽक्रामति, तथा जपति तथाऽऽवपति तथा जुहोति ॥ १० एवं त्रिः ॥ ११ शूर्पेण शेषमग्नावावप्य प्रागुदीचीमभ्युत्क्रामय“न्त्येकमिश” इति ॥ १२ दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ॥ १३ “मा सव्येन दक्षिणमतिक्रमे”ति ब्रूयात् ॥ १४ ईक्षकान्प्रतिमन्त्रयेत “सुमङ्गलीरियं वधू” रिति ॥ १५ अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्द्धदेशेऽवसिञ्चति, तथेतरां “समञ्जन्त्व”त्येतयर्चा ॥ १६ अवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना दक्षिणां पाणि साङ्गुष्ठमुत्तानं गृहीत्वैताः षट् पाणिग्रहणीया जपति “गृभ्णामित” इति ॥ १७ समाप्तासूद्वहन्ति ॥ * ॥ इति द्वितीयप्रपाठकस्य द्वितीया कण्डिका ॥ २ ॥ ३ ॥