गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 177, कुल 332 में से
संदर्भ में पढ़ेंपूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन ॥ ३ ॥ पूर्वा-पूर्वदिगवस्थिता । माता-प्रकृतत्वाद्वध्वाः । भ्राता वा तस्या एव । पूर्वदिगवस्थित एव सव्यहस्तेन लाजानादाय लाजपूर्णं शूर्पं कृत्वा-आदाय । दक्षिणहस्तेन वधूं दक्षिणेन प्रपदेन पादाग्रेण(१) । अश्मानं-शिलापुत्रकम् आक्रामयेत् । केचित्तु-पूर्वा वह्वीनां मातृणां प्रथमेति व्याचक्षते तन्न मातृबहु- त्वस्यासार्वत्रिकत्वात् ॥ ३ ॥ पाणिग्राहोजपति “इममश्मानमारोहे”ति ॥ ४ ॥ (मं०ब्रा०२।१।१) स्पष्टार्थम् । मन्त्रस्तु— “इममश्मानमारोहाश्मेव त्वं स्थिरा भव । द्विषन्तमपबाधस्व मा च त्वं द्विषतामधः” ॥ ३ ॥ इति । अस्यार्थः—हे कन्यके! त्वम् ‘इमं’ पुरःस्थम् ‘अश्मानं’ दृषत्पुत्रम् । ‘आ- रोह’ आक्राम । किञ्च ‘अश्मेव’ पाषाणवत् ‘त्वं स्थिरा भव’ । ततश्च ‘द्विष- न्तम्’(२) शत्रुम् ‘अपबाधस्व नितान्तं पीडय । ‘त्वञ्च’ ‘द्विषताम्’ ‘अधः’ पादतले ‘मा’ “भू”रिति शेषः(३) ॥ ४ ॥ सकृत्संगृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावावपति ॥ ५ ॥ सकृत्-एकवारं संगृहीतम्-सम्यग्गृहीतम् । अविकिरन्निति यावत् । लाजानामञ्जलिम् अञ्जलिपरिमितन् लाजान् । भ्रातेत्यनन्तरं “माता(४) वे”ति शेषः ॥ ५ ॥ तमुं सोपस्तीर्णाऽभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिम् “इय- न्नार्युपब्रूते” इति ॥ ६ ॥ (म० ब्रा० २।१।२) [L2