भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 176, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 176

२ कण्डिका ] गोभिलगृह्यसूत्रे— १४५ समस्ताभिश्चतुर्थीम् ॥ २६ ॥ इति श्रीम० गो० गृ० द्वि० प्र० स्य प्रथमा कण्डिका ॥२॥ १ ॥ ॐ ॥ भूर्भुवः स्वः स्वाहेति समस्ताभिः चतुर्थीमाहुतिं जुहुयात् । होमस्य खल्व- स्याज्यहविष्कतयाऽऽज्यतन्त्रविहितोमहाव्याहृतिहोमः पुरस्तादपि भवति । आ- ज्यभागौ स्विष्टकृच्च न भवन्ति । परन्तास्तिस्र एवाज्यतन्त्रोपक्रमविहिताः पुर- स्तात् । परस्तात्तु चतस्र इदानीमेव तथोपदेशादिति बोध्यम् ॥ २६ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां मृदुलाख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वितीयप्रपाठकस्य प्रथमा कण्डिका ॥ २ ॥ १ ॥ ॐ ॥ अथ द्वितीया कण्डिका । हुत्वोपोत्तिष्ठतः ॥ १ ॥ उपेति-संहतहस्तत्वमुच्यते । हुत्वा संहतहस्तौ (१)दम्पती उत्तिष्ठतः । मुरा- रिमिश्रास्तु-उप-अग्निसमीपे होमानन्तरमेवाग्निसमीपे दम्पती उत्तिष्ठतइति- व्याचख्यौ । अत्रानन्तरमेवेत्यनेनानन्तर्यमात्रं क्त्वार्थो न तु समानकर्त्तृकत्व- मपीत्युच्यते । दृश्यते चासमानकर्तृकेऽपि कर्म्मणि क्त्वाश्रुतिः । “आज्या- हुतिं हुत्वा मुख्यं धनं दद्यात्” इत्येवमादौ बहुलम् । अत्र खलु ऋत्विग्जु- होति यजमानोददाति । होमकुर्वाणस्य पत्युरंसमन्वारम्भमाणा वधूरपि कयाचिद्विवक्षया होमानुकूलचेष्टावती भवति । इत्यस्ति समानकर्त्तृत्वमिति तत्त्वकारः । केचित्तु उपेत्याञ्जलिं वध्वेत्याहुः ॥ १ ॥ अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते वध्वञ्जलिङ्गृहीत्वा ॥ २ ॥ पतिश्चानुपृष्ठं-(२)वधूं पृष्ठेन परिक्रम्य वधूदक्षिणतः । उदङ्मुख उत्तराभि- मुखोभूत्वा वध्वञ्जलिं-वध्वास्तस्या एवाञ्जलिं दक्षिणेन पाणिना गृहीत्वा अव- तिष्ठेतेत्यर्थः(३) । स खल्वयमञ्जलिः पाणिग्रहणपर्यन्तं स्थास्यति । पतिश्च तावन्तं कालममुमञ्जलिमनापत्सु न त्यजेत् । तथाच गृहान्तरम्— “हुत्वाऽऽज्यमथ जायाया अन्वारभ्याञ्जलिम्पतिः । न विमुञ्चेदनापत्सु यावत्पाणिग्रहो जपः” ॥ इति ॥ २ ॥

( १ ) एतच्च भट्टभाष्यानुसारि व्याख्यानम् ॥ ( २ ) अत्रानुपूर्व्येऽव्ययीभावः ( पा० २।१।६। ) ॥ पृष्ठेनेति प्रकारित्वं तृतीयार्थः । ( पा० २।३।१८ वा० ) । “प्रकृत्यादिगणजाता तृतीया तु तदात्मताम् । अवच्छेदकता- बुद्धिप्रकारित्वादि शंसती”ति ह्युक्तेः । ( ३ ) ऊर्ध्वस्तिष्ठेत् । विधौ लेटि रूपमेतत् । अत्र “किं कृत्वा ? वध्वञ्जलिङ्गृहीत्वा १९ गो० गृ० सू०