गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 175, कुल 332 में से
संदर्भ में पढ़ें१४४ विवाहविधिः । [ २ प्रपाठके- अथवा 'अघम्'दुःखम् (१) । एतत्सर्वं 'शीर्ष्णः' मूर्ध्नः शकासात् 'स्रजमिव' मालाम् इव 'उन्मुच्य' ऊर्ध्वं त्वत्तोऽपसार्य ( पृथक्कृत्य ) 'पाशम्' मृत्युपाश- भूतमेतत्सर्वं ते 'द्विषद्भ्यः' (२) शत्रुभ्यः तानुद्दिश्य 'प्रतिमुञ्चामि' तद्गलेषु स्थापयामि (३) । इदमग्नये 'स्वाहा' सुहुतमस्तु । अत्र "सर्वे विधयश्छन्दसि विक- ल्पन्ते” इति नियमाद्-वा अघमित्यत्र सन्ध्यभाव आर्षः । अविवक्षया वा ॥१४॥ "परैतु मृत्युरमृतम्म आगाद्वैवस्वतो नोऽअभयं कृणोतु । परम्मृत्योऽनुपरेहि पन्थां यत्र नो अन्य इतरीदेवयानात्” ॥ चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषोमोतवीरान्स्वाहा ॥१५॥ कन्यकैवाशास्ते—“मृत्युः' (४) मरणम् । मत्तः 'परैतु' दूरङ्गच्छतु । 'अमृ- तम्' अमरणम् । 'मे' मम 'आगात्' आगच्छतु (५) । तथा 'वैवस्वतः' यमः । (६) 'नः' अस्माकम् (७) । 'अभयम्' भयाभावम् (८) । 'कृणोतु' करोतु । एवम्प- रोक्षमुक्त्वा प्रत्यक्षीकृत्य मृत्युरेवाभ्यर्थ्यते-हे 'मृत्यो ! मत्तः 'परम्' अन्यं 'पन्थां' पन्थानम् (९) । 'अनुपरेहि' कमप्यनुगत्यापसर । यत्र 'नः' अस्माकम् 'अन्यः' परः शत्रुरस्ति । कोऽसौ पन्थाः ? 'देवयानात्' देवपथात् 'इतरः' अन्यः (१०)पि- तृपथः । यत्र गत्त्वा पुनरावर्त्तते मृत्युवशमापन्नः । किञ्च 'चक्षुष्मते शृण्वते' 'ते' तुभ्यं 'ब्रवीमि' प्रार्थये । यत् 'नः' अस्माकं 'प्रजां' सन्ततिम् । 'उत' अपि च 'वीरान्(११)' विक्रान्तान् पुरुषान् पतिपुत्रादीन् 'मा रीरिषः' मा हिंसी.(१२) तस्मै मृत्यवे 'स्वाहा' सुहुतमस्तु । अत्र “प्रकृत्यान्तः पादमव्यपरे" ( पा० ६।१।११५ ) इति नो इत्यस्य प्रकृतिभावात्पूर्वरूपाभावः ॥ १५ ॥ महाव्याहृतिभिश्च पृथक् ॥ २७ ॥ महाव्याहृतिभिर्भूर्यादिभिस्तिसृभिः । पृथक्-प्रत्येकं, क्रियानुषङ्गार्थश्चका- रः ॥ १५ ॥
( १ ) “अंहोदुःखव्यसनेष्वघम्” इत्यमरः ॥ ( २ ) "रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः" इत्यमरः ॥ ( ३ ) प्रतिपूर्वकोमुञ्चतिर्निधापने वर्त्तते । एवमाङ्पूर्वोऽपि । इति बोध्यम् ॥ ( ४ ) "मृत्युर्मरणं निधनेऽस्त्रियाम्” इत्यमरः ॥ ( ५ ) लोडर्थे लुङ् ( पा० ३।४।६) ॥ ( ६ ) "यमः । कालोदण्डधरः श्राद्धदेवोवैवस्वतोऽन्तकः” इत्यमरः ॥ ( ७ ) “अस्मदोद्वयोश्च” ( पा० १।२।६९ ) इत्येकत्वे बहुवचनम् ॥ ( ८ ) अर्थाभावेऽव्ययीभावः ( पा० २।१।६ ) समासः ॥ ( ९ ) नलोप आर्षः ॥ ( १० ) "इतरस्त्वन्यनीचयोः" इत्यमरः ॥ ( ११ ) "वीरविक्रान्तौ" [ चु० आ० ] पचाद्यच् ( पा०३।१।१३४ ) णिलोपः ॥ ( १२ ) "रिषहिंसायाम्" स्वार्थेणिजन्तान्माङि लुङ् (पा० ३।३।१७५ ) इति लुङ् "न माङ्योगे" ( पा० ६।४।७४ ) इत्यडभावः ॥