गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 179, कुल 332 में से
संदर्भ में पढ़ें१४८ विवाहविधिः । [ २ प्रपाठके इति । किञ्च 'मम' 'ज्ञातयः' बान्धवाः । 'एधन्ताम्' वर्द्धन्ताम्, धनधान्यपुत्रा- दिभिः । इदञ्चास्मा अग्नये 'स्वाहा' सुहुतमस्तु ॥ ३ ॥ ६ ॥ "अर्यमणन्तु देवं" "पूषणम्"-त्युत्तरयोः ॥ ७ ॥ ( म० ब्रा० १ । २ । ३-४ ) उत्तरयोर्लाजहोमयोर्यथा "अर्यमणन्तु देवं" "पूषणन्तु देवम्" इति मन्त्रौ विनियोक्तव्यावित्यर्थः । तौ यथाक्रमम्— "अर्यमणन्तु देवं कन्या अग्निमयक्षत । स इमान्देवाऽअर्यमा प्रेतोमुञ्चातु माऽमुतः स्वाहा" ॥ ३ ॥ इति । अस्यार्थः—नुशब्दोऽत्र चार्थे । 'कन्याः' कत्र्र्यः । 'अर्यमणं' तदाख्यं 'देवम्' अभिमत दानादिगुणयुक्तम् । 'अग्निं' च 'अयक्षत' इष्टवत्यः । ( पूजितवत्यः ) 'स' च ( अर्यमा अग्निश्च ) इष्टः सन् 'इमां' कन्यां परिणी- यमानाम् । 'इतः' पितृकुलात् 'प्रमुञ्चातु' प्रमुञ्चतु-प्रमोचयतु । 'मा' न 'अमुतः' अमुष्मात्पतिकुलात् । तदेतत् ताभ्यां 'स्वाहा' सुहुतमस्तु । अत्र पूर्वा- र्द्धेन विशेषोपसंहार इति गुणविष्णुः । मुञ्चात्विति दीर्घश्छान्दसः । अन्तर्भावि- तण्यर्थश्चैवमग्रेऽपि ( पा०६।३।१३७ ) एवमग्रेऽपि । "पूषणन्तु देवं कन्या अग्निमयक्षत । स इमान्देवः पूषा प्रेतो मुञ्चातु मा पतेः स्वाहा" ॥ ४ ॥ इति । अर्थः प्राग्वत् । अत्र पतेरिति-पतिशब्दो न मुख्यार्थकः(१) । ला- जहोमकर्मण आसमाप्तेस्तथात्वाभावादितिगुणविष्णुः ॥ ४ ॥ हुते पतिर्यथेतं परिक्रम्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वाब्राह्मणः "कन्यला पितृभ्य" इति ॥ ८ ॥ ( मं० ब्रा० १।२।२ ) हुते-वध्वा (२)लाजहोमे कृते पतिः यथेतं यथाऽऽगतं(३) परिक्रम्य पुन- रागम्य प्रदक्षिणं यथा भवति तथा पत्नीमग्निं परिणयति परिसर्बतोभावेन न येत् । अग्निप्रादक्षिण्येने भ्रामयेदित्यर्थः । "कन्यला पितृभ्य" इति-अनेन मन्त्रेण । मन्त्रोयथा— "कन्यला पितृभ्यः पतिलोकं यतीयमप दीक्षामयष्ट । कन्या उत त्वया वयं धारा उदन्या इवाऽतिगाहेमहि द्विषः" ॥५॥ ( १ ) किन्तु-पतिरित्याख्यातः पतिः । "नष्टे मृते प्रव्रजिते क्लीबे तु पतिते पतौ" इति- वत् । आख्यानणिजन्तात्कर्मणि क्विपि टिलोपे णिलोपे च कृते "इन्सर्वधातुभ्य" इत्यौणा- दिकडन् प्रत्ययः । "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" इतिन्यायेन "पतिःसमास एवे" ( पा० १।४।८ ) ति नियमोन प्रवर्त्ततेऽत्र ॥ ( २ ) हुत इत्येकवचनसम्बन्धादेकस्मिन्नेव लाजाञ्जलौ हुते इत्यर्थः । अन्यथैतदनर्थकं स्यादिति चन्द्रकान्तः । (३) यथा वध्वाऽनुपृष्ठमितमागमनं कृतं पत्नीदक्षिणस्यान्तथैव ।