भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 180, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 180

२ कण्डिका ] गोभिलगृह्यसूत्रे— १४६ इति । अस्यार्थः । 'इयं' 'कन्यला' कन्या(१) । 'पितृभ्यः' पितृकुलात्(२) 'पतिलोकं' पतिगृहं(३) 'यती' (४)गच्छन्ती । 'अपदीक्षां' दीक्षां वर्जयित्वा(५) 'अयष्ट' इष्टवती । दीक्षापदेनाऽत्रवैवाहिकं(६) व्रतमुच्यते । 'उत' अपि च । 'कन्या' हे कन्ये ! (७)'त्वया' सहिता(८) 'वयं' 'द्विषः' शत्रून् कामादीन् 'अतिगाहेमहि' अतिक्रामेमहि(९) । अत्र दृष्टान्तः—'धाराः' जलस्य ( सुसी- तलाः ) कर्त्र्यः 'उदन्याः' (१०)पिपासाः कर्म्मभूताः 'इव' । ता ( धाराः ) यथा ताः ( पिपासाः ) शमयन्ति तद्वत् ॥ ५ ॥ “यतीयमि”ति मन्त्रलिङ्गान्मन्त्रं पठन्परिणयतीति गम्यते । सोऽयम्पतिर- [L10

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 180, कुल 332 में से · BharatKosha