गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
DevanagariHindipublished332 पृष्ठ
पृष्ठ 184, कुल 332 में से
संदर्भ में पढ़ेंपृष्ठ 184
२ कण्डिका ] गोभिलगृह्यसूत्रे— १५३ दत्त्वा-याथ । यात(१) 'नविपरीत' विमुखतया न परा-इत ( नापगच्छत ) किन्तु-पुत्रादिमङ्गलमाशास्य पुनरागमनाय व्रजतेत्यर्थः ॥ ८ ॥ १४ ॥ अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्द्धदेशेऽवसिञ्चति । तथेतरां "समञ्जन्त्वे"—तयर्चा ॥१५॥ (म०ब्रा०२।२।६) अपरेणाऽग्निम्(२) । अग्नेः पश्चिमाया दिशा । औदक उदककलशधारी (३)पुरुषः । अनुसंव्रज्य संवृतगतिरेत्य “सप्तपदीस्थानमि”तिभवदेवभट्टः । पूर्वा- वस्थितः । पाणिग्राहं वरं मूर्द्धदेशे शिरसि । अवसिञ्चति-अभिषिञ्चति कलशस्थाभिर्ध्रुवाभिरद्भिः । तथा--तेनैव प्रकारेण इतरां-वधूमप्यभिषिञ्चतीत्य- र्थः । तत्र मन्त्रमाह- "समञ्जन्त्वि"तियत