भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 183, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 183

१५२ विवाहविधिः । [ २ प्रपाठके- स्याशंसने पद्धतिकृता विनियोग उक्तः । युक्तश्च तथा मन्त्रलिङ्गात् । इतिमुरा- रिमिश्राः शुभकर्म्मनिर्णये प्राहुः । मन्त्रो यथा— “सखा सप्तपदी भव सख्यन्ते गमेयम् । सख्यन्ते मा जोषाः । सख्यन्ते मा योष्ठाः ॥ ७ ॥ (मं० ब्रा० १।२।७ ) इति । अस्यार्थः । पतिः कन्यां प्रार्थयते—हे कन्ये ! त्वं मम ‘सखा’ सखी(१) सती ‘सप्तपदी’ सप्तपदाऽऽक्रान्तेष्वर्थेषु सहचारिणी ‘भव’ अहं ‘ते’ तव ‘सख्यं’ (२)मैत्रीं ‘गमेयं’ तव(३) सखा भवेयमित्यर्थः । किञ्च ‘ते’ तव । मया सह यत् ‘सख्यं’ तत् अन्याः ‘योषाः’ स्त्रियः । ते सपत्न्यः ‘मा’ “छिन्दन्तु” इतिशेषः । किञ्च ‘मायोष्ठाः’(४) सुखकारिण्यः स्त्रियः । ‘ते’ त्वया(५) सह । ‘सख्यं “कुर्व्वन्त्व—”ति शेषः ॥ ७ ॥ ईक्षकान्प्रतिमन्त्रयेत “सुमङ्गलीरियं वधूरि-“ति ॥ १४ ॥ ( मं० ब्रा० १।२।८ ) ईक्षकान्-वधू प्रेक्षितुमागतान् । प्रतिमन्त्रण-मनुमन्त्रण-मित्यनर्थान्तर- म् । तच्चात्रेक्षकानवलोकयता कर्त्तव्यम् । योग्यत्वात् । तदाह कर्म्मप्रदीपः— “स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सर्वदैवाऽनुमन्त्रयेत् ॥” इति । मन्त्रोयथा— “सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेत न ॥” ८ ॥ इति ॥ इति । अस्यार्थः—हेप्रेक्षकाः ! ‘इयं वधूः’ ‘सुमङ्गलीः’(६) प्रशस्तमङ्गल- वती परिणीता यतोऽतो यूयं ‘समेत’ समागच्छत । समागत्य च ‘इमां’ ‘पश्यत’ । ‘अथ’ अनन्तरम्। ‘अस्यै’ वध्वै ‘सौभाग्यं’ सुभगत्वं ‘दत्त्वाय’ दत्त्वा। (७)यूय- म् ‘अस्तं’ स्वगृहम् (निघं० ३।४।५) ‘विपरेतन’ विपरेत(८) । गच्छत । यद्वा- ( १ ) “सख्यशिश्वोति भाषायाम्” ( पा० ४।१।६२ ) इतिस्मरणाद्वेदे सखेत्येव- भवति ॥ ( २ ) “सख्युर्यः” ( पा० ५।१।१२६ ) इति भावे यप्रत्ययः । ( ३ ) अत्र “लिङ्याशिष्यङ्” ( पा० ३।१।८६ ) इत्यडागमः । अत्र गमेयमित्यु- क्त्यात्वद्विरुद्धं नाचरेयमित्यपि गम्यते ॥ ( ४ ) मय एव मायः। सुखम् ( निघं० ३।६।७ ) दीर्घ आर्षः । ( पा० ६।३।१३७ ) तस्य स्थानं मायोष्ठम् । तत्र भवा मायोष्ठ्याः । “भवेच्छन्दसि” ( पा० ४।४।११० ) इतियत्प्रत्ययः ॥ ( ५ ) तृतीयार्थे षष्ठी ( पा० २।३।६८ ) बाहुलकात् । ( ६ ) “छन्दसीवनिपौ च वक्तव्यौ” ( पा० ५।२।१२२ ) इति मत्वर्थे ईप्रत्ययः । ( ७ ) “क्तो यक्” ( पा० ७।१।४७ ) इति यगागमः । ( ८ ) “तप्तनप्तनथनाश्च” ( पा० ७।१।४५ ) इति तस्य तनबादेशः ।

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक) · पृष्ठ 183, कुल 332 में से · BharatKosha