गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 182, कुल 332 में से
संदर्भ में पढ़ें२ कण्डिका ] गोभिलगृह्यसूत्रे- १५१ प्रक्षिप्य । शेषहोममकृत्वाऽवस्थितां वधूं(१) प्रागुदीचीमैशानीं दिशम् । अभि वराभि(२)मुखीम् । उत्क्रामयन्ति—दक्षिणपादाङ्गुष्ठमुन्नाम्य वामञ्चानु(३)गम- यन्ति “एकमिषे” इत्येवमादिभिः सप्तभिर्मन्त्रावयवैः । प्रतिमन्त्रमेकैकः पाद- न्यास इत्यर्थः । बहुवचनादनियतः कर्त्ता । मन्त्रा यथा— “एकमिषे विष्णुस्त्वा नयतु १ द्वे ऊर्जे वि० २ त्रीणि व्रताय वि० ३ चत्वा- रि मायोभवाय वि० ४ पञ्च पशुभ्यो वि० ५ षड्रायस्पोषाय वि० ६ सप्तसप्त- भ्योहोत्राभ्योविष्णुस्त्वा नयतु ७॥ ६॥ अस्यार्थः—हे कन्ये ! 'विष्णु'र्विश्वव्यापकोनारायणः । 'त्वा' त्वाम् 'इषे' अन्नाद्यर्थलाभाय ( नि० २।७।१४८ ) 'एकं' पदम् । 'आनयतु । १ । एवम् 'ऊर्जे' बललाभाय(४) । २ । 'व्रताय' यज्ञकर्मणे(५) ( निघं०२।१।१७ ) । ३ । 'मायोभवाय' सुखप्राप्तये(६) । ( निघं० ३।६ । ७ ) । ४ । 'पशुभ्यः' (७)पशु- प्राप्तये । ५ । 'रायस्पोषाय' धनपुष्ट्यै(८) । ६ । 'सप्तभ्यो' 'होत्राभ्यः' अच्छा- वाकादिभ्यः(९) । ७ । इति ॥ ११ ॥ दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ॥ १२ ॥ दक्षिणेन-पादेन । प्रक्रम्य-गत्वा । अनु-पश्चात् । सव्येन-वामेन । क्रामेत् । गच्छेत् । क्रममाणा सव्यं (१०)पादमग्रतो न कुर्यात् । इत्यर्थः ॥ १२ ॥ ताञ्च क्रामन्तीं पतिः— “मा सव्येन दक्षिणमतिक्रामे”ति.ब्रूयात् ॥ १३ ॥ अत्र “पतिर्वधूमिति शेषः । सव्येन-वामेन । दक्षिणं-पादं माऽतिक्राम । अग्रतोवामपादममा कार्षीरित्येवं ब्रूयात् । अत्र “सखा सप्तपदी भवे”ति मन्त्र- ( १ ) वाक्योपपत्तये स्थितमित्यध्याहृतं वेदितव्यम् ॥ ( २ ) वरन्तिर्यक्पश्यन्ती पृष्ठतोऽग्रेऽपादप्रक्षेपङ्कुर्यात् । इति भावः । ( ३ ) पश्चात्प्रक्षेपयन्ति । अत्रायमाशयः । वामाङ्गी जाया सा सर्वदा पश्चात्पत्युर- वतिष्ठेत । इत्येतस्या दृष्टान्तभूतयाऽऽवृतेति । ( ४ ) “ऊर्जंबलप्राणनयोः” ( चु० प० ) किप् ॥ ( ५ ) तथाच निरुक्तम् “व्रतमिति कर्मनाम वृणोतीति सतः” इति ( २।१३।८ ) ॥ ( ६ ) मय इति सुखनाम ( निघं० ३।६।७ ) दीर्घ आर्षः । ( पा० ६।३।१३७ ) मा यसोऽअवने मायोभवः । भवतेः “ऋदोरप्” ( पा० ३।३।५७ ) इति भावेऽप्रत्ययः ॥ ( ७ ) तादर्थ्ये चतुर्थी ( पा० २।४।४४वा० ) तादर्थ्यमुपकार्योपकारकभावः । ( ८ ) रै इति धननाम ( निघं० २।१०।१६ ) ततः षष्ठी । पोषणं पोषोघञ् । षष्ठ्याः पतिपुत्रे०” ( पा० ८।३।९३ ) त्यादिना सत्वम् “अर्थे रैविभवाअपो”त्यमरोऽपि ॥ ( ९ ) होत्राशब्द ऋत्विग्वाचीति “होत्राभ्यश्छन्दसी” ( पा० ५।१।१३५ )ति सूत्रे वृत्तिकृतः प्राहुः ॥ ( १० ) सव्यपादस्याग्रे निधानं गमने स्त्रीस्वभाव इति प्रतिषिध्यते ।