गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 189, कुल 332 में से
संदर्भ में पढ़ेंबुधे रम्ये” इति मेदिनी । अत्राभिरूप्यं ब्राह्मणकुलं विशिंषदस्य गुणोभवति । स चेदुपादीयमानः प्रधानमुपरुणद्धि, गुणत्वमस्य नावकल्पते । गुणोहि प्रधान- मुपकर्तुं व्याप्रीयते नैतदुपरोद्धुम् । अतएव वेद्यामेवान्ततः कर्म्म कर्त्तव्यम् । कर्म्मणः प्रधानत्वात् । तथाच गृहान्तरम्--“अथोत्तरविवाहः प्रागुदीच्याम- न्यत्र(१) वा ब्राह्मणकुले मन्त्रवति, वेद्यां वा”इति । अस्मादप्यवगम्यते । इतः प्रभृति “उत्तरविवाह”समाख्यं कर्म्मेति ॥ १ ॥ अत्राग्निरुपसमाहितोभवति ॥ २ ॥ अत्रोक्तविधे ब्राह्मणकुले । उपसमाहितः-लक्षणं कृत्वा स्थापितः । लक्षणं कृत्वेति सूत्रशेषतयैव केचित्पठन्ति । वेद्याञ्च करणे प्रधानमात्रस्यैव कर्त्तव्यता, आवृच्च तन्त्रेणैव स्यात् “गणेष्वेकम्परिसमूहनमि-”ति वचनात् । एवञ्च वेद्या- ङ्करणपक्षे एतस्यापि कर्म्मणोऽनन्तरमेव मन्त्रसमापनं न तु पाणिग्रहणकर्म्मणः परत एवेति बोध्यम् ॥ २ ॥ अपरेणाऽग्निमानडुहं रोहितञ्चर्म्म प्राग्ग्रीवमुत्तरलोमास्तीर्णम्भवति॥३॥ अपरेणाऽग्निम् । अग्नेः पश्चात् । आनडुहं-वार्षभं रोहितं लोहित(२)व- र्णं, तदभावेऽन्यदपि “गुणलोपेन प्रधानस्ये-”ति न्यायात् । चर्म्म-शुष्कम् । प्राग्ग्रीवम्-पूर्वशिरस्कम् । उत्तरलोम-उत्तरे उपरिष्टालोमानि सन्त्यस्येति तथा- विधं यथाभवति तथा । आस्तीर्णं प्रसारितम्भवति । उपवेशनार्थं वध्वाः । क- र्तुरनियमः ॥ ३ ॥ तस्मिन्नेनां वाग्यतामुपवेशयन्ति ॥ ४ ॥ तस्मिंश्चर्म्मणि । एनां वधूं वाग्यतां-नियमितवचनाम् । ( कृतमौनाम् ) उपवेशयन्ति । य एव केचित्कन्यापक्षीयाः ॥ ४ ॥ सा खल्वास्त एवानक्षत्रदर्शनात् ॥ ५ ॥ सा वधूः । नक्षत्रदर्शनं यावदुपविष्टैव तत्र तिष्ठेत् । अन्यत्रात्ययिकादि- त्यर्थः । एवशब्दादधुनाऽपीत्यर्थ इति भाष्यकारः । दिवा विवाहविषयमेतद्व- चनम् ॥ ५१ ॥ प्रोक्ते नक्षत्रे षडाज्याहुतीर्जुहोति “रेखासन्धिष्वे”-तत्प्रभृतिभिः॥६॥ ( मं० ब्रा० १।३।१-६ ) प्रोक्ते-इति । केनापि नक्षत्रमुदितमित्युक्ते इत्यर्थः । अत्राज्यतन्त्रविहितो- ( १ ) उक्तविध्युक्तब्राह्मणगृहे । तदलाभे वेद्यामपीत्यर्थः ॥ ( २ ) “रोहितोलोहितोरक्तः” इत्यमराद्रक्तवर्णमित्यर्थः ॥ एष आचारोयुगान्तर- विषयः ।