गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 190, कुल 332 में से
संदर्भ में पढ़ें२ कण्डिका ] गोभिलगृह्यसूत्रे- १५६ महाव्याहृतिहोमः पुरस्ताच्चोपरिष्टाच भवति । आज्यभागौ स्विष्टकृच्च न भवन्तीत्यवगन्तव्यम् ॥ ६ ॥ मन्त्रा यथा- “रेखासन्धिषु पद्मस्वावर्त्तेषु च यानि ते । तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यह ँस्वाहा ॥ १ ॥ “केशेषु यच्च पापकमीक्षिते रुदिते च यत् । ” ” ॥ २ ॥ “शीले यच्च पापकम्भाषित हसिते च यत् । ” ” ॥ ३ ॥ “आरोकेषु च दन्तेषु हस्तयोः पादयोश्च यत् । ” ” ॥ ४ ॥ “ऊर्वोरुपस्थे जङ्घयोः सन्धानेषु च यानि ते । ” ” ॥ ५ ॥ यानि कानि च घोराणि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभिराज्यस्य सर्वाणि तान्यशीशम ँ स्वाहा ॥ ६ ॥ एषामर्थाः । हे कन्यके ! ‘ते’ तव ‘रेखासन्धिषु’ हस्तादिरेखासन्धिस्यानेषु । ‘पद्मषु’-नेत्रपिधानस्यानेषु । ‘आवर्त्तेषु’ ककुदावर्त्ताद्यभिधेषु लोमसन्निवेश- विशेषेषु । ककुन्दरादिद्वारेषु वा ।(१) ‘च’ कारः समुच्चयार्थः । एवमनेकधा ‘यानि’ अलक्षणानि ‘ते’ तव सन्ति । ‘तानि’ ‘सर्वाणि’ अशेषारिण ‘अहं’ पाणिग्राहः ‘शमयामि’ शान्तिङ्गमयामि । तदेतत् ‘स्वाहा’ सुहुतमस्तु ॥ १ ॥ हे कन्ये ? ‘यत्’ ‘ते’ तव ‘केशेषु’ चिकुरेषु ‘ईक्षिते’ दर्शने । ‘च’ ‘यत्’ ‘रुदिते’ अश्रुविमोचने यत् किञ्चित् ‘पातकम्’ अलक्षणमस्ति । ‘तानि’ ‘सर्वाण्य’पि ‘ते’ तवसम्बन्धीनि‘पूर्णाहुत्ये’-त्यादि गतार्थम् ॥ २ ॥ हे कन्यके! ‘यत्’ ‘ते’ तव ‘शीले’ वृत्ते (चरित्रे) ‘च’ कारादामिरूप्ये ‘भा- षिते’ वचने ‘हसिते’ हसने ‘च’ काराद्गमने ‘यत्पापकम्’ अलक्षणमस्ति । ता- नि सर्वाणी” त्यादि गतार्थम् ॥३॥ हे कन्यके ? ‘यत्’ ‘ते’ तव ‘आ’ समन्तात् ‘रोकेषु’ दन्तच्छिद्रेषु ‘छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्र”-मित्यमरः । ‘दन्तेषु’ ‘यच्चहस्तयोः पाद्योः’ ‘च’ कारादङ्गुलफयोः ‘पापकम्’ अलक्षणमस्ति । तानि सर्वाणीत्यादि गतार्थम् ॥ ४ ॥ एवं ‘सन्धानेषु’ रेखासन्धिव्यतिरिक्तेषु सन्धि- स्थानेषु ‘च’ कारान्मुखे यान्यलक्षणानीत्यादिगतार्थम् ॥ ५ ॥ ‘यानि’ प्रकृतान्य- प्रकृतानि च ‘कानि च’ कानिचित् । ‘घोराणि’ क्रूराणि लक्षणानि ‘तव सर्वा- ङ्गेषु’ अभवन्’ । तानि सर्वाणि’ ‘आज्यस्य पूर्णाहुतिभिः’ ‘अहम्’ ‘अशीशमम्’ अनाशयम् । तदेत‘स्वाहा’ सुहुतमस्तु ॥ ६ ॥ आहुतेराहुतेस्तु सम्पातं मूर्द्धनि वध्वा अवनयेत् ॥ ७ ॥ आहुतेराहुतेरिति । प्रत्याहुति शेषं स्रुवलग्नमाज्यं वधूरशिरसि दद्यात । ( १ ) नितम्बस्थौ ( पृष्ठवंशाधोभागे विद्यमानौ ) कूपकौ ( गतौ ) कुकुन्दरे उच्ये-