भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 195, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 195

१६४ विवाहविधिः । [ २ प्रपाठके इति स्मर्यते। एतेन कृताहारस्य तद्दिने(१) कन्यापरिणयार्थङ्गमनं, गत्वा वा तत्र ( श्वशुरकुले ) भोजनमनाचार एवेति मन्तव्यम्। सर्वथा चात्र सयँ- मो भोजनादेर्यज्ञाङ्गकर्म्मान्तरवदित्यवगन्तव्यम् ॥ १७ ॥ हविष्यमन्नम्प्रथमं परिजपितम्भुञ्जीत ॥ १८ ॥ हविषि-साधु-हविष्यं “तत्र साधुः” ( पा० ४।४।९८ ) इति साध्वर्थेय- त्प्रत्ययेन होमावशिष्टमितिचन्द्रकान्तभाष्यस्वरसः। माषकोद्रवादि(२)वर्जम् । अन्नं वरेण तद्दिने प्रथमं परिजपितम् “अन्नपाशेन मणिने”-त्यादिमन्त्रेणा- भिमन्त्रितम्। उत्तरत्र तथा श्रवणात्। भुञ्जीत भोक्तव्यम्। अत्रापि “भुक्तो- च्छिष्ठं वध्वै प्रदाय यथार्थम्”-ति ( २।३।३२ ) वक्ष्यमाणं सिंहावलोकितकेन सम्बन्धनीयम् । श्वस्तनप्रथमभोजने तथाचरणादिति ॥ १८ ॥ श्वोभूते वा शमशनीयं᳡स्थालीपाकं कुर्वीत ॥ १९ ॥ लग्नादिसाद्गुण्याद्रात्रौ विवाहे(३) भोजनकालस्य चालाभे प्रकारान्तर- माह—श्वोभूतइति। श्वोऽग्रिमदिनेभूते(४)प्राप्ते प्रभाते जाते यथासमयं, सम- शनीयम् सम्यगशनार्थाङ्क्रियते इति तथाभूतं स्थालीपाकं मधुपर्कसमाख्यं कुर्वी- त । यथावद्विदधीत वाशब्दोविकल्पार्थस्तेन पूर्वदिनेऽपि समयलाभेऽमुङ्कुर्वीतैवे- ति बोधयति ॥ १९ ॥ तस्य देवता अग्निः प्रजापतिर्विश्वेदेवा अनुमतिरिति ॥ २० ॥ तस्येति-तच्छब्देन पूर्वदिने परदिनेऽपि वा करणेऽपि स्थालीपाकस्यास्यैता देवता इति दर्शयति। तथाच—“अघं स केवलम्भुङ्क्ते यः पचत्यात्मकारणात्। यज्ञशिष्टाशनं ह्येष सतामन्नं विधीयते ॥” इति मनुवचनेन “केवलाघोभवतिके- वलादी”ति श्रुत्या च न विरोधः ॥ अत्र ( सूत्रे ) असमासकरणम्पृथङ्गिर्वाप- ( १ ) विवाहदिने । कन्यायास्तु विवाह औपनायनिक इति उपनयने माणवकस्येव भोजनेऽपि न क्षतिरित्याचक्षते । किन्तु व्रतबन्धसमाख्यातोऽस्य भोजनं गोःपयआदिक- मेव । तथाच श्रुतिः “पयोव्रतोब्राह्मणोभवति, यवागूव्रतोराजन्य, आमिक्षाव्रतोवैश्य” इति । यवागूंमृष्टयवचूर्णपायसम् । आमिक्षा-श्रूतोष्णे पयसि क्षिप्ते दधि । तथाच श्रुतिः “तप्ते पयसि दध्यानयति स वैश्वदेव्यामिक्षा भवति” इति । “यवागूरुष्णिका श्राणा विलेपी तरला च सा”इति चामरः ॥ ( २ ) हविष्यमिति तदर्थः । तल्लक्षणमुक्तमधस्तात् । ( १।३।६ ) । कात्यायनः “ह- विष्येषु यवा मुख्यास्तदनुव्रीहयोमताः । माषकोद्रवगौरादीन्सर्वांलाभेऽपि वर्जयेत्” इति । गौरो-गौरसर्षप इति मुरारिः । चीनक इति वयम् ॥ आदिना चणकादिपरिग्रहः ॥ ( ३ ) रात्रौ भोजनकालादुपरि विवाहे निर्वृत्ते प्रक्रान्त विवाह होमविधिना वा सोऽन्नकालातिक्रमे इत्यर्थः ॥ ( ४ ) भूधातौ आत्मनेपदी । क्तः कर्मणि ॥