गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
DevanagariHindipublished332 पृष्ठ
पृष्ठ 201, कुल 332 में से
संदर्भ में पढ़ेंपृष्ठ 201
इति। अस्यार्थः। 'य' इन्द्रः। 'अभिश्रिषः' अभिश्रिषः (अभिश्र्लेष- णात्सन्धानद्रव्यात् ) 'ऋतेचिद्' विनाऽपि 'जत्रुभ्यः' ग्रीवाभ्यः (स्कन्ध(१) सन्धिभ्यः) सकाशात् 'आतृदः' आतर्द्नात्। (आ रुधिरनिःस्रावणात् ) 'पुरा' पूर्वमेव 'सन्धि' सन्ध्यातव्यं तं 'सन्धाता' संयोजयिता भवति, 'मघवा' धनवान्(२) 'पुरुवसुः' बहुधनः स इन्द्रः, 'अविह्रुतम्' विच्छिन्नं तं 'पुनः' 'इष्कर्त्ता' संस्कर्त्ता भवति। इति सायणः॥ १३॥ अभ्यञ्जनमिह 'ऋक्षणम्(३)। अत्रहि व्याहृतिहोममात्रविधानात्तूष्णींप्रहो- मोऽयम्। तत्र च न्यञ्चकरणपर्युक्षणाऽऽज्यसंस्कार-समिदाधान-व्याहृति- होम-पर्युक्षणान्येव कार्याणि॥ ३॥