गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
DevanagariHindipublished332 पृष्ठ
पृष्ठ 202, कुल 332 में से
संदर्भ में पढ़ेंपृष्ठ 202
ध्वम्। प्रजा जनयन्तु(१)। 'इह' च 'अश्वः' निषीदतु' आवसतु। 'इह' पूरुषः' परिचारकवर्गः। परिजनश्च निषीदतु। 'इह' 'उ' वितर्के। पदपूरणो- वा। 'सहस्रदक्षिणः' सहस्रं दक्षिणा यत्र स महाधनसाध्योयज्ञः। 'अपि' च 'पूषा' तन्नामकोदेवः सर्वपोषकोऽपि निषीदतु॥ सम्भवतु-उपविशतु वेति क्रमे- णार्थः ॥ १४ ॥ इति ॥ ६ ॥ तस्याः कुमारमुपस्थ आदध्युः ॥ ७ ॥ तस्या आनडुहे चर्मण्युपविष्टाया वध्वा उपस्थे उत्सङ्गे ( क्रोड़े ) “उप- स्थः शेफसि क्रोड़े तथा मदनमन्दिरे" इति मेदिनी। कुमारम्-अकृतचूडं यं कञ्चिद्बालकम्(२)। आदध्युः। स्थापयेयुः। ता एव ब्राह्मण्यस्तासामेवो- पक्रमात् ॥ ७ ॥ तस्मै शकलोटानञ्जलावावपेयुः ॥ ८ ॥ [L1