गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 203, कुल 332 में से
संदर्भ में पढ़ें१७२ विवाहविधिः । [ २ प्रपाठके तत्र होमे चतुर्थी न प्रयोक्तव्या । यथाच छन्दोगपरिशिष्टे कात्यायनः— “धृतिहोमे न प्रयुञ्ज्याद्गोनामसु तथाघ्न्यसु । चतुर्थी,-मध्य इत्येतद्गोनाम्नैव हि हूयते ॥” इति । धृतिहोमेऽस्मिन्नेव । तथा “आश्वयुज्यां पौर्णमास्यां गोनामभिश्च पृथक् “काम्यासी”त्येतत्प्रभृतिभिरे”त्यनेन गोभिलसूत्रेण काम्यासि-प्रियासि इडासि-रत्यसि-सरस्वत्यसि-मह्यसि हव्यासि-विश्रुतिरसि-इत्यघ्न्यानामानि, एतदष्टनामभिः स्वाहान्तैर्होम उक्तः । तत्र चतुर्थीन्न प्रयुञ्ज्यादित्यर्थः । एवञ्चे- “इहधृतिःस्वाहे”त्यादिः। “काम्यासिस्वाहे”त्यादिश्च प्रयोगोद्रष्टव्यः । अघ्न्या गौः ( निघं २।११।१ ) अमरोऽपि “अर्जुन्यघ्न्या रोहिणी स्यादि”त्याह । भारते ऽपि “अघ्न्या इति गवां नामे”त्युक्तम् । अघ्न्यै स्वाहेति यत्र न्वाहुतयस्तत्र बोद्धव्यमिति मुरारि(१)मिश्राः प्राहुः ॥ १० ॥ समाप्तासु समिधमाधाय यथावयसं गुरून्गोत्रेणाऽ भिवाद्य यथार्थम् ॥ ११ ॥ इतिश्रीमद्गोभिलीये गृह्यसूत्रे द्वि-प्र-स्य चतुर्थी कण्डिका ॥ २ ॥ ४ ॥ ॐ ॥ समाप्तासु धृत्याहुतिषु अन्यास्वप्याज्यतन्त्रविहितासु आहुतिषु समिधमा- धायैवाभिवादयेन्नत्वनुपर्युक्षणादिकमपि कृत्वा । यथावयसम् । वयोऽनतिक्रम- णेन । यथार्थेऽव्ययीभावे ( पा. २।१।६ ) “शरदादित्वात्” ( पा, ५।४।१०७ ) टच्समासान्तः । योयोवयसा वृद्धस्तंतंप्रथममित्यर्थः । गुरून् विद्यागुरु-मातृ- पितृ-प्रभृतीन् । तत्राऽपि प्रथमं विद्यागुरुम् । तथाच स्मर्यते— “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतोज्ञानं तं पूर्वमभिवादयेत्” ॥ इति । “न चानिसृष्टो गुरुणा स्वान्गुरून्अभिवादयेत्” इतिच ( मानवाक्यम् ) गुरुणा ब्रह्मदेन अनिसृष्टोऽनाज्ञप्तः स्वानात्मीया- न्गुरून्पित्रादीन् । तथा— “उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता” इति । मातापित्रोस्तु पूर्व्वमातरमेव(२) । ( १ ) अतएव हि सूत्रेऽष्टावित्युक्तिरिति तद्भावः । ( २ ) यत्तु कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम् । देवक्याश्च महाबाहुर्वसुदेव- सहायवान्”—ति पौराणिकवचनात्क्रमकल्पनाकुतोनेति । तन्मन्दं “यन्मनुरवदत्तद्भेष- जम्भेषजताया” इति श्रुत्या मनूक्तक्रमस्य श्रुतिसम्मितत्वेन । “भगवानपि सर्वात्मा” इत्युपक्रम्य—“ननाम दण्डवद्भूभौ मातरं पितरन्तथे”—ति पुराणान्तरवचनेन च सत्प्रति- पक्षतत्त्वात् । किञ्चोक्तवचने सत्वरमित्युक्त्या ससम्भ्रममित्येवार्थ आयाति । इत्थञ्च