गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 204, कुल 332 में से
संदर्भ में पढ़ें“सहस्रेण पितॄन्माता गौरवेणातिरिच्यते” इति मानवीयेन तत्र गौरवातिरेकबोधनात् । पितॄनिति व्यक्तिभेदाभिप्रायम् । सहस्रेण गुणेन प्रकृत्यादित्वादुपलक्षणे वा तृतीया⁶ । यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते । यथोक्तार्थकम् ॥ दक्षिणा चास्यानादेशात्पूर्णपात्रादिकै- वेति शुभम् ॥ ११ ॥ ॐ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वि०प्र०स्य चतुर्थीकण्डिका ॥ २ ॥ ४ ॥ * ॥ ( अथ पञ्चमी कण्डिका ) अथातश्चतुर्थीकर्म ॥ १ ॥ वर्त्तिष्यत इति शेषः । अथ शब्दोविवाहानन्तर्यार्थः । अतः शब्दोहेत्वर्थः । यत एतस्मिन्नक्रियमाणे वध्वाः पापोलक्ष्मी शरीरात्रापैति । अत एतदवश्य- कर्त्तव्यमिति । एवञ्चात्र कल्पे चतुर्थीहोमस्य पापीलक्ष्म्पादिरूपाऽलक्षण- फलन्न शाखान्तरवद्गोत्रसंक्रमणशरीरैक्यादि । अन्त एवतत्संभवादित्युक्तमेव (२।३६-१३) तथाच दैवादेतदनिष्पत्तौ न विवाहवैगुण्यमपीतिस्मर्त्तव्यम् । अत्र च तैलोर्द्धर्त्तनादि कृत्वा युगकाष्ठ उपविश्य वध्वा सह यवमाषचूर्णेन स्ना- नमाचारादिति मुरारिमिश्राःप्राहुः ॥ १ ॥ अग्निमुपसमाधाय प्रायश्चित्त्याऽऽहुतीर्जुहोति “अग्नेप्रायश्चित्त”इति चतुः॥ २ ॥ अग्निमुपसमाधायेत्युक्तार्थम्। प्रायश्चित्तेति। प्रायश्चित्तलिङ्गकैर्म्मन्त्रैराज्या- हुतयः प्रायश्चित्ताख्याहुतयः । “अग्ने प्रायश्चित्ते” इत्यादिमन्त्रेण चतु-र्वारंचतु- ष्ट्यञ्जुहोति जुहुयात्। यद्यप्यत्र वीप्सा नश्रूयते तथापि कल्प्या, वक्ष्यमाणकात्या- यनस्वरसात् तस्य तत्तात्पर्योन्नायकत्वात् ॥ २ ॥ तत्किमाम्नायपठितेनैव चतुश्चतुर्होमो, नेत्याह— अग्नेः स्थाने वायुचन्द्रसूर्याः ॥ ३ ॥ क्रमशः सम्बोधनान्ताः “प्रयोक्तव्याः”इति सूत्रशेषः । समाम्नायपाठोद्देशा-
तदानीं कंसवधान्ते सभायां वसुदेव एव पुरस्तादुपलब्धः सभ्येषु । देवकीत्वन्तःपुरिकत- याऽज्ञातस्वरूपतया च वसुदेवसहायेन तेन तत्र गत्वाऽवाप्तपरिचया प्रणतेति क्रमकल्पना- न्तरकल्पनावसरः । उभयसन्निधाने तु—“मातरम्पितरञ्चोभौ दृष्ट्वा पुत्रस्तु धर्म्मवित् । प्रणम्य मातरं पश्चात्पितरं प्रणमेदगुरुम्” इति पुराण एव प्रथमं मातुः प्रणामभिधान- मिति न किञ्चिदेतत् ।