गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 213, कुल 332 में से
संदर्भ में पढ़ें१८२ पुंसवनविधिः । [ २ प्रपाठके प्रातरुदयसन्निधौ(१) उत्तराग्रेषु कुशेषूपविश्य । सशिरस्काऽऽप्लुता । शिरः स्नाता वधूः । पत्या संस्कृतस्याग्नेः पश्चादुत्तराग्रेषु कुशेषु प्राङ्मुखी उप- विशेत्पत्युर्द्दक्षिणतः । “दक्षिणतः पाणिग्राहस्योपविशती”-त्यन्यत्र दर्शनात् । एवम् उपविष्टायान्तस्यां व्याहृतिहोमान्तङ्कर्म कुर्यात्पतिः ॥ २ ॥ पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंᳪसमन्व- वमृश्यानन्तर्हितन्नाभिदेशमभिमृशेत् “पुमांᳪसौ मित्रावरुणा” वित्येतयर्चा ॥ ३ ॥ ( मं० ब्र० १।४।८ ) पश्चात्-पृष्ठदेशे अवस्थाय-प्राङ्मुख ऊर्ध्वजानु.स्थित्वा 'दक्षिणम् अंसम् भुजशिरः (अंशः) “स्कन्धोभुजशिरोंसोऽस्त्री”-त्यमरः। तूष्णीम्(२)। अन्वव- मृश्य । पृष्ठतोऽन्ववलम्ब्य स्पृष्ट्वा । अनन्तर्हितम् । अव्यवहितम् (वस्त्राद्यना- च्छादितम्) अभिमृशेत्-स्पृशेत् । “पुमांᳪसावि”त्येतयर्चा, सा यथा— “पुमांᳪसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान्गर्भस्तवोदरे” ॥ ८ ॥ इति । अस्या अर्थः । अत्र साकाङ्क्षत्वाद्वाक्यस्य यथा तथेत्यस्तु इति चाध्याहा- र्य्यम् । तथाच-यथा 'पुमांसौ' 'मित्रावरुणौ' आदित्यप्रचेतसौ । यथा च “अश्विनौ” देवभिषजौ 'पुमांसौ' । यथा च 'अग्निः वायुश्च' पुमान् । तथा 'तव' उदरे' कुक्षावयं 'गर्भः पुमान्' अस्तु ॥ इति ॥ ३ ॥ अथ यथार्थम् ॥ ४ ॥ अथ-अनन्तरम् । यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते । वामदेव्य- गानान्ततन्त्रसमापनमत्र कर्त्तव्यम् ॥ ४ ॥ अथाऽपरम् ॥ ५ ॥ अथैतस्मात्पुंसवनकर्म्मणोऽनन्तरम् अपरमन्यद्द्वितीयं पुंसवनं शृङ्गाकर्म्म- संज्ञकम् । “कर्त्तव्यम्(३)” इति वाक्यशेषः । पाठादेवाऽऽनन्तर्यलाभादथशब्दः पूर्वप्रकृतार्थो वा वर्णनीयः । पूर्ववदिदमपि पुंसवनम्पूर्वप्रकृत एव काले करणी- ( १ ) अन्यथा “प्रागावर्त्तनादहः” ( १-१-३ ) इति प्राप्तत्वात्पुनरुक्तत्वापत्तेः । तथाच स्मरन्ति 'प्रातः कालोमुहूर्तांस्त्रीन्" इति । तत्राद्यमुहूर्त्तस्य निषिद्धत्वात्तदुपरीतनः कालोऽत्र विवक्षितः ॥ ( २ ) अत्र तूष्णीमंसस्याभिमर्शनम् । मन्त्रेण नाभिदेशस्येति भट्टनारायण-मुरारि- मिश्र-प्रभृतयः । ( ३ ) तदेतत्प्रथमे कृते फलानुपलब्धौ द्वितीये गर्भे कर्त्तव्यमिति मे प्रतिभाति । पद्धतिकृतस्तु-यथालिखितमाहुः ॥