भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

१८२ पुंसवनविधिः । [ २ प्रपाठके प्रातरुदयसन्निधौ(१) उत्तराग्रेषु कुशेषूपविश्य । सशिरस्काऽऽप्लुता । शिरः स्नाता वधूः । पत्या संस्कृतस्याग्नेः पश्चादुत्तराग्रेषु कुशेषु प्राङ्मुखी उप- विशेत्पत्युर्द्दक्षिणतः । “दक्षिणतः पाणिग्राहस्योपविशती”-त्यन्यत्र दर्शनात् । एवम् उपविष्टायान्तस्यां व्याहृतिहोमान्तङ्कर्म कुर्यात्पतिः ॥ २ ॥ पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंᳪसमन्व- वमृश्यानन्तर्हितन्नाभिदेशमभिमृशेत् “पुमांᳪसौ मित्रावरुणा” वित्येतयर्चा ॥ ३ ॥ ( मं० ब्र० १।४।८ ) पश्चात्-पृष्ठदेशे अवस्थाय-प्राङ्मुख ऊर्ध्वजानु.स्थित्वा 'दक्षिणम् अंसम् भुजशिरः (अंशः) “स्कन्धोभुजशिरोंसोऽस्त्री”-त्यमरः। तूष्णीम्(२)। अन्वव- मृश्य । पृष्ठतोऽन्ववलम्ब्य स्पृष्ट्वा । अनन्तर्हितम् । अव्यवहितम् (वस्त्राद्यना- च्छादितम्) अभिमृशेत्-स्पृशेत् । “पुमांᳪसावि”त्येतयर्चा, सा यथा— “पुमांᳪसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान्गर्भस्तवोदरे” ॥ ८ ॥ इति । अस्या अर्थः । अत्र साकाङ्क्षत्वाद्वाक्यस्य यथा तथेत्यस्तु इति चाध्याहा- र्य्यम् । तथाच-यथा 'पुमांसौ' 'मित्रावरुणौ' आदित्यप्रचेतसौ । यथा च “अश्विनौ” देवभिषजौ 'पुमांसौ' । यथा च 'अग्निः वायुश्च' पुमान् । तथा 'तव' उदरे' कुक्षावयं 'गर्भः पुमान्' अस्तु ॥ इति ॥ ३ ॥ अथ यथार्थम् ॥ ४ ॥ अथ-अनन्तरम् । यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते । वामदेव्य- गानान्ततन्त्रसमापनमत्र कर्त्तव्यम् ॥ ४ ॥ अथाऽपरम् ॥ ५ ॥ अथैतस्मात्पुंसवनकर्म्मणोऽनन्तरम् अपरमन्यद्द्वितीयं पुंसवनं शृङ्गाकर्म्म- संज्ञकम् । “कर्त्तव्यम्(३)” इति वाक्यशेषः । पाठादेवाऽऽनन्तर्यलाभादथशब्दः पूर्वप्रकृतार्थो वा वर्णनीयः । पूर्ववदिदमपि पुंसवनम्पूर्वप्रकृत एव काले करणी- ( १ ) अन्यथा “प्रागावर्त्तनादहः” ( १-१-३ ) इति प्राप्तत्वात्पुनरुक्तत्वापत्तेः । तथाच स्मरन्ति 'प्रातः कालोमुहूर्तांस्त्रीन्" इति । तत्राद्यमुहूर्त्तस्य निषिद्धत्वात्तदुपरीतनः कालोऽत्र विवक्षितः ॥ ( २ ) अत्र तूष्णीमंसस्याभिमर्शनम् । मन्त्रेण नाभिदेशस्येति भट्टनारायण-मुरारि- मिश्र-प्रभृतयः । ( ३ ) तदेतत्प्रथमे कृते फलानुपलब्धौ द्वितीये गर्भे कर्त्तव्यमिति मे प्रतिभाति । पद्धतिकृतस्तु-यथालिखितमाहुः ॥

६ कण्डिका ] गोभिलगृह्यसूत्रे- १८३ यमित्यर्थः । तच्चैकदिने दिनद्वये वेति विशेषोऽत्र न गम्यतेऽतः प्रथमदिने चेदङ्ग- यङ्गक्रियते तर्हि नान्दीश्राद्धमपि तन्त्रेणैव कर्त्तव्यम् । तथाच कर्म्मप्रदीपः— “गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ॥” इति ॥ ५ ॥ तस्येतिकर्त्तव्यतामाह— प्रागुदीच्यान्दिशि न्यग्रोधशुङ्गामुभयतः फलामस्रामामकृमिपरि- सृप्तान्त्रिः सप्तैर्यवैर्माषैर्वा परिक्रीयोत्थापयेत् ॥ ६ ॥ प्रागुदीच्यामैशान्याम् । दिशि अवस्थितायाः । न्यग्रोधस्य-वटस्य । “न्य- ग्रोधोबहुपाद्वटः” इत्यमरः । शुङ्गाम्-“लताग्रपल्लवोगृहः शुङ्गेति परिगीयते” इति कात्यायनोक्तलक्षणां ( मुकुलितपल्लवरूपाम ) कथम्भूताम् ? उभयतः फलाम्—उभयतः पार्श्वद्वये फले यस्यास्ताम् । अस्रामाम्-अम्लानाम् । इति मुरारिः(१) । अकृमिपरिसृप्ताम् । कृमिभिरव्याप्ताम् । एवम्भूतां परिक्रीय-क्री- त्वा उत्थापयेत् । गृह्णीयान् । कियतामूल्येनेत्यत्राह-त्रिः सप्तैरिति(२) । त्रिरावृत्तैः सप्तभिः । एकविंशत्या यवैर्माषैर्वेत्यर्थः । क्रयश्च वृक्षस्वामिनो न वृक्षात् । यवा- न्माषान्वा मूले निःक्षिप्य (३)परिक्रयणमित्येके प्राहुः ॥ ६ ॥ अथ क्रयणमन्त्राः— “यद्यसि सौमी सोमाय त्वा राज्ञे परिक्रीणामि” ॥ १ ॥ “यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रीणामि” ॥ २ ॥ “यद्यसि वसुभ्योवसुभ्यस्त्वा परिक्रीणामि” ॥ ३ ॥ “यद्यसि रुद्रेभ्योरुद्रेभ्यस्त्वा परिक्रीणामि” ॥ ४ ॥ “यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रीणामि” ॥ ५ ॥ “यद्यसि मरुद्भ्योमरुद्भ्यस्त्वा परिक्रीणामि” ॥ ६ ॥ “यद्यसि विश्वेभ्योदेवेभ्यो विश्वेभ्यस्त्वादेवेभ्यः परिक्रीणामि” ॥७॥ अत्र “यद्यसि” इत्यादिक्रयलिङ्गैः सप्तभिर्मन्त्रैर्यवैर्माषैर्वापरिक्रयणं, प्रतिमन्त्रं त्रीं-स्त्रीन् यवान्माषान्वावृक्षमूले प्रक्षिप्येति पद्धतिकृतोवीरेश्वरादयः । ( १ ) मेदिन्यां तु “नीलिकायामथश्रामो मासे मण्डपकालयोः इति तालव्यादिः श्रामशब्दउक्तः । तेनाश्रामामितिपाठेऽविद्यमानकालिमामितितदर्थः । ( २ ) अत्र क्रियाभ्यावृत्तिगणने “द्वित्रिचतुर्भ्यः सुच्” ( पा० ५।४।१८ ) इति सुच् । त्रिःसप्तैरिति बहुव्रीहिः । ( पा० २।२।२६ ) ततोडच् ( पा० ५।४।७३ ) समा- सान्तः । डित्त्वाट्टिलोपः ॥ ( ३ ) एवञ्च यस्यात्मीयोऽपि न्यग्रोधोभवेत्तेनापि सोमक्रयणवत्क्रयणमवश्यं कार्यम् ॥

१८४ पुंसवनविधिः। [ २ प्रपाठके- मन्त्रार्थस्तु— हेशुङ्गे ! त्वं 'यदि' 'सौमी' सोमप्रिया सोमदेवत्य। वा 'असि' भवसि । तदा 'सोमाय' 'राज्ञे' सोमराजप्रीत्यर्थमेव 'त्वा' त्वां 'परिक्रीणामि' । एवमग्रेऽपि । अत्र सर्वत्र तादर्थ्ये ( पा० १।४।४४वा० ) चतुर्थी । उपकार्योपकारकभावसम्ब- न्धश्च तादर्थ्यम् । “कृत्तद्धितसमासेभ्यः सम्बन्धाऽभिधानं भावप्रत्ययेने”ति सिद्धान्तात् ॥ १-७ ॥ ७ ॥ ( अथोत्थापनमन्त्रः ) ततश्च “ओषधः सुमनसोभूत्वाऽस्यां वीर्यं समाधत्त इयङ्कर्म करिष्यती” त्युत्थाप्य तृणैः परिधायाऽऽहृत्य वैहायसीं निदध्यात् ॥ ८ ॥ “ओषधयः” इत्यनेन मन्त्रेणेति कारान्तेनोत्थाय-उत्तोल्य । तृणैः कुशैः । तथैव समाचारात् । पद्धतिरप्येवमेव । परिधाय-परिधाप्य । अन्तर्भावितण्य- र्थोऽयम् । वेष्टयित्वा । आहृत्य-आनीय । वैहायसीम्-आकाशस्थां कृत्वा गृहो- परि अधोवा निदध्यात् । धारयेत् । मन्त्रार्थस्तु—हे 'ओषधयः' । ओषधिदेव- ताः! । “ओषधि फल(१)पाकान्ता स्या”-दित्यमरादिकारान्तोऽपि। ङीषि ओ- षधीत्यपि । रात्रिः रात्रीति वत् । यूयं 'सुमनसः' प्रसन्ना 'भूत्वा' 'अस्यां' वध्वां (२)'वीर्यम्' सामर्थ्यम् । 'समाधत्त' (३)सम्यग्विर्याधानं कुरुत । कुतः ? यतः 'इयं' वधूः 'कर्म्म' गर्भप्रसवनाख्यं(४) त्वत्सेवाञ्च 'करिष्यति' । 'इति' हेतोरि- तिसत्यव्रतः ॥ ८ ॥ तां खल्वाहृतां शुङ्गाम्— दृषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धुः कुमारी वाऽपत्याहरन्ती पिनष्टि ॥ ९ ॥ व्याहृतिहोमान्ते । दृषद्च्छिला ( पेष(५)णी ) तां प्रक्षाल्य-शोधयित्वा । ब्रह्मचारी-प्रथमाश्रमी । व्रतवती-पतिव्रता । गर्भिण्येवेत्येके । ब्रह्मबन्धुः । अन(६)धीतविद्यः । तथाचच्छन्दोगपरिशिष्टम्—“पतिव्रता व्रतवती ब्रह्मबन्धु- ( १ ) फलानां पाके एवान्तोयासान्ताः । ( २ ) क्रीतायां वटशुङ्गायाम् । ( ३ ) अर्पयत । ( ४ ) पुंसवनाख्याम् । ( ५ ) पिनष्ट्यस्यामित्यधिकरणे ल्युट् । ङीप् । तत्करणभूतं लोढकञ्च ॥ ( ६ ) कुत्सार्थे

स्तथाऽश्रुतः ॥” इति । अप्रत्याहरन्ती-प्रत्याहरणं पिष्टस्य पश्चादानयनम्(१) । तदकुर्वती । पिनष्टि-चूर्णीकरोति । ॰“पिष्लृसञ्चूर्णने” (रु० प०) लट् । मध्ये श्नम् । शुङ्गामित्यनुषञ्जनीयम् ॥ ९ ॥ वधूश्च— प्रातःसशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु । पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक्शिराः संविशति । १० । प्राक्शिराः—पूर्वशिरस्का । संविशति-स्वपिति । “स्यान्निद्राशयनं स्वापः स्वप्नः संवेश इत्यपि” इत्यमरः । शेषमुक्तार्थम् ॥ १० ॥ पश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गु- ल्‍याऽभिसंगृह्य दक्षिणे नासिकास्रोतस्यवनयेत् । “पुमानग्निः पुमानिन्द्र” इत्येतयर्चा ॥ ११ ॥ (मं. ब्रा. १।४।९) अभिसंगृह्य-गृहीत्वा । पिष्टां शुङ्गाम् । नासिकास्रोतसि-नासापुटरन्ध्रे । वध्वाएव । अवनयेत् । क्षिपेत् । (२)“पुमानग्निरि”ति मन्त्रेण । शेषमुक्ता- र्थम् । मन्त्रो यथा— “पुमानग्निः पुमानिन्द्रः पुमान्देवोबृहस्पतिः । पुमाग्ं सं पुत्रं विन्दस्व तम्पुमाननुजायताम् ॥” ॥ ९ ॥ इति । मन्त्रार्थः सुबोध एव । पुमांसमित्यनेन सुपुरुषलक्षणोपेतम् । तमि- त्यनेन च बहुपुत्रसम्पत्तिश्वोक्तवान्मन्त्रदृगिति ॥ ११ ॥ अथ यथार्थम् ॥ १२ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि-प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ 🌸 ॥ निगद्व्याख्यातमेतत् ॥ १२ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”-ख्यायां मुकुन्दशर्म्म सङ्कलितायां द्वि प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ * ॥ ( १ ) केचित्तु-उच्छ्रितशिलापुत्रकेणाहृत्याहृत्य पेषणं कर्त्तव्यम् । अथवा-सकृत्प्र- योगेणैव यथा पेषणं निर्वहति तथा कर्त्तव्यमित्यप्रत्याहरणस्यार्थमाचक्षते । ( २ ) वस्त्रबद्धां पिष्टां शुङ्गां गृहीत्वा निष्पीड्य दक्षिणनासापुटे तद्रसं क्षिपेदिति भव- देवभट्टः । २४ गो० गृ० सू

१८४ सीमन्तोन्नयनम् । [ ३ प्रपाठके- अथ सप्तमी कण्डिका - ( अथ सीमन्तोन्नयनम् ) अथ सीमन्तकरणम्प्रथमगर्भे ॥ १ ॥ अथ-पुंसवनसंस्कारानन्तरम् । सीमन्तकरणम् । “सीमन्तः केशवेशे स्यात्” इत्यभिधानात्सीमन्तस्य केशरचनाविशेषस्य(१) वक्ष्यमाणविधिना करणम् “वर्त्तिष्यते” इति सूत्रशेषः । तस्य कालमाह-प्रथमगर्भे इति । इदं हि क्षेत्रसंस्कार(२)द्वाराऽपत्यसंस्कारकन्तेन सकृदेव कार्यम् । तथा च हारीतः— “सकृत् कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतोभवेत् ॥” इति । गृह्यसंग्रहेऽपि— “यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता । एवमाद्यस्य संस्कारः संस्कारविधिचोदितः ॥” इति । एव माश्वलायनगृह्यपरिशिष्टेऽपि-“सीमन्तोन्नयनं प्रथमे गर्

पुंसवने । तथाच स्मृत्यन्तरम्— “या नायेकृतसीमन्ता प्रसूयते कदाचन । अङ्के विधायतं बालं पुनः संस्कारमर्हति ॥” इति । असंकृतगर्भप्रसवे-द्वितीयगर्भे संस्कारस्तु प्रकृत-( प्रथम-) बालवि- नाशविषयो बोद्धव्य इति चन्द्रकान्तः । मुरारिमिश्रास्तु-नैतन्मन्यन्ते-इति कर्मशेषे वक्ष्यते । तत्र कालमाह—( २।८।१२ ) ॥ १ ॥ चतुर्थे मासि षष्ठेऽष्टमेवा ॥ २ ॥ ऋजुरक्षरार्थः । अत्र वाशब्द, एक एवेति न तुल्यवद्विकल्पार्थः । एवञ्चा- क्तकल्पेषु यत्रोदगयनादि-विहितसमयलाभस्तत्रेद्ङ्कार्यम् । तथाचाङ्गिराः—“यत्रो- दगयनादिः स्यात्कालस्तत्रे”ति । बैजवापगृह्येऽपि-“मासि चतुर्थे पञ्चमे वा षष्ठाष्टमयोर्वाऽऽपूर्यमाणपक्षे यदहः पुंसा नक्षत्रेण चन्द्रमा युज्यते सप्तमे मासि [L1

फले शलाटुः स्याद्दि"-त्याग्नेयाभिधानाद् "अस्त्वस्तवक उच्यते” इति कर्म्मप्रदी- पपाठाच्च । नीलाभिधानम्(१)फलस्य तद्रूपत्वाद्विरतमिति तदर्थः । औदुम्बर- म्-उदुम्बरवृक्षोद्भवम् । तस्येदम्" (पा० ४।३।१२०) इत्यण्प्रत्यय आदि- वृद्धिः ॥ यथोक्तं स्तवकम् “अयसूर्जावत” इति मन्त्रेण वध्वाः कण्ठे सुडोलके- नामुच्य वध्नाति । बध्नीयात् । मन्त्रोयथा— “अयसूर्जावतोवृक्ष ऊर्जीव फलिनी भव । पर्णं वनस्पते नुत्त्वा नुत्त्वाऽस्यां सूयतायूँरयिः” ॥ १ ॥ इति । अस्यार्थः । ‘अयम्' उदुम्बरो यज्ञाङ्गो ‘वृक्ष’ “ऊर्जावान्” इति शेषः । अस्य 'ऊर्जावतः'(२) वृक्षस्य 'ऊर्जीव' (३) फलशाखेव (हेवधु !) त्वं 'फलिनी' बहुफलवती(४)प्रशस्तफलवती वा भव । किञ्च हे ‘वनस्पते’ उदुम्बर ! (५)त्वया- ऽस्यां 'रयिः' पुत्ररूपं धनम् (निघं०२।१०।८) 'सूयताम्' प्रसूयताम् । त्वयाऽनुगृ- हीतेयं भाग्यवतः पुत्राँल्लभतामित्यर्थः । किमिव ? 'नुत्त्वा' 'नुत्त्वा' प्रेर्य्य२ 'पर्ण' पत्राणीव । (६) जातावेकवचनम् । यथा त्वया पत्राणि प्रेर्य्य २ प्रसूयन्ते तथेयं बहुपुत्रा त्वया क्रियतामित्यर्थः ॥ १ ॥ इति ॥ अथ सीमन्तमुर्ध्वन्नयति(७)भूरिति दर्भपिञ्जलीभिरेव प्रथमम् । भुव इति(८) द्वितीयम् स्वरिति तृतीयम् ॥ ५ ॥ अथेति स्थाननियमार्थम् । तत्रस्थ एव पतिः । सीमन्तमुक्तरूपमूर्द्ध्वमुपरि नयति-नयेत् । इत्यर्थः । तत्र मन्त्रमाह-भूरितीति । अनेन मन्त्रेण प्रथमम् । केनोन्नयति ? दर्भपिञ्जलीभिरेव । “अनन्तर्गर्भिणं साग्रङ्कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ ( १ ) आममपक्वम् “आमोहरुक् तद्विदोः पुंसि स्यादपक्वेऽन्यलिङ्गवद्दि”ति मेदिनी ॥ ( २ ) ऊर्जशब्दोऽन्नाथैः ( निघं० २।७ ) “ऊर्जाद उत यज्ञियासः” ( ऋ० सं० ८।१। १३।४ ) इति श्रुतौ ऊर्जादाश्च यज्ञियाश्चे”—ति निरुक्तम् । (१।८।१ ) अत्राङ्गमिरित कर्म्म- कान्तम् । यद्यतेत्स्म तदङ्गन्तदिहोदुम्बरफलम् । पक्के सुप्रवृकणमितितन्निर्वचनदर्शनादि- ति गुणविष्णुसम्मतार्थः । ततोभूम्नि मतुपि ‘शरादीनाञ्च” (,पा० ६।३। १२० ) इति पूर्वपदस्य दीर्घः ॥ ( ३ ) ऊर्जीति भूम्नि मत्वर्थे ई ( पा० ५।२।१२२ वा० ) प्रत्ययेन साधुः ॥ ( ४ ) भूम्नि प्रशंसायां वा मत्वर्थे इनिः । ( पा० ५।२।१२६ ) ॥ ( ५ ) “वानस्पत्यः फलैः पुष्पैरपुष्पाद्वनस्पतिरि”—त्यमरः । अनेन तदधिष्ठात्री देवतैव संबोध्य प्रार्थ्यते ॥ ( ६ ) “पत्रं पलाशं छदनं दलं पर्णं छदः पुमानि”त्यमरः ॥ ( ७ ) अत्राप्युन्नयतीति चन्द्रकान्तसम्मतः पाठः । मुरारिमिश्रादिभिस्तु उन्नयती- त्येव पठितम् ॥ ( ८ ) अत्रापि भुवर्वारिति चेति चन्द्रकान्तः पपाठ ॥

७ कण्डिका ] गोभिलगृह्यसूत्रे- १८६ एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् । आयस्योत्पवनार्थं यत्तद्ध्येतावदेव तु ॥ एतत्प्रमाणमेवैके कौशीमेवार्द्रमञ्जरीम् । शुष्कां वा शीर्णकुसुमां पिञ्जलीम्परिचक्षते ॥” इति कर्म्मप्रदीपोक्तलक्षणाभिः । कतमाभिरिति चेत्तिसृभिरित्यवधेहि । कपिञ्जलाधिकरणन्यायात् । तदिदं प्रथममुन्नयनं, भुव इति द्वितीयं दर्भपिञ्ज- लीभिरेव । स्वरिति तृतीयं दर्भपिञ्जलीभिरेव। तदेवं तिसृभिस्तिसृभिरेकैकमुन्न- यनमिति-उन्नयनत्रित्वाददर्भपिञ्जाल्योऽपि नत्रैव सम्पद्यन्ते । तासाञ्च तिसृभिरे- कमुन्नयन, तावतीभिरपरं, तावतीभिरेवापरमिति व्याख्येयम् । अत एव भूरि- ति दर्भपिञ्जलीभिरिति सूत्रयित्वा प्रथममिति सूत्रितम् । यदि पुनस्तिस्र एवदर्भपिञ्जल्यः स्युस्तर्हादित एव दर्भपिञ्जलीभिरिति सूत्रयित्वा भूरिति प्रथमम् सुवरिति द्वितीयम् । इत्येवं विनियोगममूषामसूत्रयिष्यत् नचैवम् । तस्मादनुमिमीमहे भूरिति प्रथम एवोन्नयने तिस्रोदर्भपिञ्जल्योव्यप्रियन्ते एवमु- त्तरयोः। एवकारोऽत्र पक्षे करणान्तरव्यावृत्त्यर्थ इति चन्द्रकान्तभाष्यम् । मुरा- रिमिश्रास्तु—दर्भपिञ्जलोभिरेवेत्येवकारकरणाद्यावन्त्युन्नयनानि तावतीभिरेव तिसृभिरित्यर्थः । प्रथमं द्वितीयं तृतीयमिति वचनं व्याहृतिपिञ्जल्योः पृथग्वि- नियॊगप्रदर्शनार्थम् । अन्यथा मिलिताभिरहृत्योन्नयनं प्रसज्येत । तथा चैकैक- याऽपि पिञ्जल्या एकैकमुन्नयनमिति ॥ ५॥ अथ वीरतरेण “येनादितेरि”—त्येतयर्चा ॥६॥ ( मं०ब्रा०१।५।२ ) अथेति पूर्वप्रकृतार्थम् । वीरतरेणेति । वीरास्तरन्त्यनेनेति वीरतरः शरस्ते- नेत्यर्थः । तथाच कर्म्मप्रदीपः— “श्वाविच्छलाका शलली तथा वीरतरः शरः” इति । सीमन्तमुन्नयेदित्यनुषज्यते । तत्र मन्त्रमाह- “येनादितेरि”-ति । अनेन मन्त्रेणेत्यर्थः । मन्त्रोयथा— “येनादितेः सीमानं नयति प्रजापतिर्महते सौभाग्याय । तेनाहमस्यै सीमानं नयामि प्रजामस्यै जरदष्टिङ्कृणोमि” ॥ २ ॥ इति । अस्यार्थः । 'प्रजापतिः' कश्यपः । 'येन' वीरतरेण शरेण 'अदितेः' देवमातुः 'सीमानम्' सीमन्तम्(१) । 'नयति' विनीतवान्(२) ( विवृतं कृत- वान् ) किमर्थम ? 'महते' बृहते 'सौभाग्याय' सुभगतवाय । 'तेन' (३)शरेण ( १ ) नामैकदेशग्रहणे नामग्रहणं भीमोभीमसेन इतिवत् ॥ ( २ ) नयतिरिह सोपसृष्टार्थे विनयेने वत्तॆते धातूनामनेकार्थत्वात् ॥ ( ३ ) तेनेति "तादर्थ्यात्ताद्रूप्याच्च ताच्छब्द्यम्" इति हि न्यायः । तथाचेह "तदे-

१६० सीमन्तोन्नयनम् । [ २ प्रपाठके 'अहम्' 'अस्यै' अस्याः(१)स्त्रियाः । 'सीमन्तं 'नयामि' विनयामि । (विवृतंक- रोमि ) तेनच 'अस्यै' अस्याः 'प्रजां' पुत्रपौत्रादिकाम् 'जरदष्टिं' दीर्घकालजी- विनीम् । 'कृणोमि' करोमि(२) ॥ २ ॥ ६ ॥ अथ पूर्णचात्रेण “राकामहम्”-त्येतयर्चा ॥ ७ ॥ ( मं०ब्रा०१।५।३ ) अथानन्तरम् । पूर्णचात्रेण सूत्रपूर्णेन तर्कुणा । “चात्रं तर्कु प्रकीर्त्तितम्” इति मुरारिधृतवचनात् । सीमन्तमुदूर्ध्वन्नयतीति पूर्ववत् । मन्त्रोयथा— “राकामहँ॑ सुहवां सुष्टुती हुवे शृणोतु नःसुभगा बोधतु त्मना । सीव्यत्वपः सूच्याऽच्छिद्यमानया ददातु वीरँ॑शतदायमुक्थ्यम्”॥३॥ इति । अस्यार्थः । 'अहं'

) L19: ‘रराणा’ (९)ददतीति? Wait, where is (८)? Wait! Look closely at L19: Is it ‘रराणा’ (८) ददतीति or (९)? Wait, if footnote (८) is: ( ८ ) रातिर्दानार्थः ( अ० प० ) पदव्यत्ययेन ( पा०३।१।८५ ) लटः शानच् ॥ That explains रराणा! And footnote (९) is: ( ९ ) “कर्मण्यण्” ( पा०३।२।१ ) इत्यण्प्रत्ययः ॥ Wait, what word has अण् प्रत्यय? सहस्रपोषम्! Wait, does सहस्रपोषम् have footnote (८) or (९)? Wait, look at L12: सहस्रपोषंसुभगे Look at L18-19: ‘सहस्र- / पोषम्’ - is there a footnote number? Wait! In L19: look before ‘रराणा’: Wait, look at L19: पोषम्’ बहुजनपोषकं सुतम् । ‘रराणा’ (९)ददतीति ॥ ८ ॥? Wait, where is (८)? Look at L19:

१४२ सीमन्तोन्नयनम् । [ ३ प्रपाठके गृह्यासङ्ग्रहे— "कृत्वा ब्रह्मासनान्तं द्विः प्रक्षाल्य क्रुसरं पचेत् । भक्तार्थत्वान्न निर्वाप उद्गुद्वासानन्तथा ॥ चूड़ाकर्म्मणि सीमन्ते यश्च पाकः सदा गृहे । विवाहे चैव लाजानां नोक्तो निर्वापगोविधिः ॥" इति । उत्तरघृतः। उत्तरे उपरि घृतं यस्य सोऽयमुत्तरघृत(दत्त)घृत इत्यर्थः । तमिमं स्थालीपाकमवेक्षयेत् । पत्नीं दर्शयेत पतिः । स खल्वयं क्रुसरः स्थालीपा- काऽऽवृता यत्र कुत्रचिद्येन केनापि पक्तव्यः । सिद्धस्य तस्यावेक्षणमात्रस्यैव सूत्रणात् । तस्मादवेक्षणार्थमेवाभ्यासादनमिति सिद्धम् । अत्र होमानादेशान्न "मन्त्रस्य देवतायाश्च प्रजापतिरितिस्थितिः"-ति वचनात्प्रजापतिदेवताकत्व- ञ्चरोर्होमादेशे सत्येवास्य प्रवृत्तेरित्यवेक्षणलक्षणे एव प्रयोजने इति द्रष्टव्यम् । अत एव चूड़ाकरणेऽन्नं वृथापक इति वक्ष्यति ( २।९।५ ) ॥ ९ ॥ एवं स्थालीपाकं पश्यन्तीं वधूम्— किम्पश्यसीत्युक्त्वा “प्रजामि"-ति वाचयेत् ॥ १० ॥ “किंपश्यसि ?” इति मन्त्रभागं पतिरुक्त्वा—"प्रजाम्पशून्त्सौभाग्यन्मह्यं दीर्घायुष्ट्वं पत्युः” इति वधू वाचयेद्भाषयेत् । अत्र मह्यमिति षष्ठ्यर्थे चतुर्थी । ( पा०२।३।६२ ) दीर्घायुष्ट्वं -बहुकालसुखजीवित्वम् ॥ १० ॥ तꣳसा स्वयम्भुञ्जीत ॥ ११ ॥ सा-वधूः । तमवेक्षितं सिद्धं क्रुसरम् ॥ ११ ॥ “वीरसू-र्जीवसू-र्जीवपत्नी"-ति ब्राह्मण्योमङ्ग- ल्याभिर्वाग्भिरुपासीरन् ॥ १२ ॥ वीरान्-विक्रान्तान् सूते-इति वीरसूः । "वीरविक्रान्तौ” ( चु० आ०) वीरयतेऽमित्रानिति वीरः तं सूते इतिवीरसूः । "षूङ्प्राणिगर्भविमोचने" (अ० आ०) ततः क्विप् । एवमग्रेऽपि (१) । "त्वंभवे"ति वाक्यशेषः । इति-एवं प्रका- राभिर्मङ्गल्याभिर्मङ्गलेसाध्वीभिः "तत्र साधुः” ( पा०४।४।९८ ) इति यत् । वाग्भिर्ब्राह्मण्योवधूमुपासीरन्गायेरन् । अनुनयेयुरित्यर्थः। यत्तु-साङ्ख्यायनपरि- शिष्टभाष्ये तत्तत्कालेऽकृतान्यपि क्षेत्रसंस्कारकर्म्माणि काले जाते, सूतकेऽपगते मातुरङ्के तन्निधाय व्याहृतिभिर्हुत्वा क्रमेण कर्त्तव्यानीत्युक्तं तत्तु प्रमाणाभावा- दुपेक्ष्यमिति मुरारिमिश्राः ॥ १२ ॥ ( १ ) जीवान्-जीवतः सूते इतिजीवसूः । यान्सूते ते जीवेरन्नित्याशंसा वाक्यार्थः । एवं-जीवस्य-जीवतः पत्नी जीवपत्नी अविधवेति ॥

७ कण्डिका ] गोभिलगृह्यसूत्रे— १६३ अथ सोष्यन्तीहोमः ॥ १३ ॥ अथेत्ययमपूर्वप्रकरणोपन्यासार्थः । आसन्नप्रसवां ज्ञात्वा सुखप्रसवार्थं होमः सोष्यन्ती होमः । “कार्य्य” इति शेषः ॥ १३ ॥ कस्मिन्काले कथञ्चेत्यपेक्षायामाह— प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती जुहोति “या तिरश्ची”— त्येतयर्चा “विपश्चित्पुच्छमभरदि”—ति च ॥ १४ ॥ ( मं० ब्रा० १।५।६-७ ) वस्तौ-योनिद्वारे(१) प्रतिष्ठिते-गर्भस्थित एव “बाले” बर्हिर्गन्तुमुपक्रान्ते । अग्निं परिस्तीर्य्य-परिस्तरणमुक्तन्तत्कृत्वा द्वे आज्याहुती जुहोति। पतिः। “या तिर- श्ची”त्यादि ऋग्भ्यां प्रत्येकं स्वाहान्ताभ्याम् ॥ अत्र-परिस्तीर्येति विशेषोपदेशा- द्ब्रह्मोपवेशनादिबाधः । एवञ्च क्षिप्रहोम एवायं, विशेषवचनात्परिस्तरणाज्य- संस्कारावत्राधिकाविति द्रष्टव्यम् ॥ ऋचौ यथा— “या तिरश्ची निपद्यते अहं विधारणी इति । तान्त्वा घृतस्य धारया यजे सँराधिनीमहं ( सँराधिन्यै देव्यै देष्ट्र्यै ) स्वाहा ॥ ६ ॥ विपश्चित्पुच्छमभरद्धाता पुनराहरत् । परेहि तं विपश्चित्पुमानयं जनि- ष्यतेऽसौ नाम स्वाहा ॥ ७ ॥ इति । अर्थोयथा—हे संराधिनि ! ( तदभिख्ये देवते ! ) या ते धारणा शुभे कर्म्मणि प्रस्तूयमाने 'अहं' 'विधारणी' शुभफलविघातकारिणी 'इति' एवं विधा सती 'तिरश्ची'(२)वाञ्छितफल-विघ्नकारिणी 'निषद्यते' 'अहं' 'तां' ताग्धारणावतीं 'त्वा' त्वामेव देवतां 'घृतस्य धारया' 'यजे' (३)पूजयामि । कथम्भूतां त्वाम् ? 'संराधिनीं' सम्यक्साधिनीम्प्रार्थिनामिष्टस्य(४) । तस्यै 'सं- राधिन्यै' 'देव्यै' दानादिगुणविशिष्टायै । अतएव 'देष्ट्र्यै' शुभफलानां(५)दा- त्र्यै । 'स्वाहा' सुहुतमस्तु ॥ ६ ॥ 'विपश्चित्' कश्चिद्देवविशेषः । स 'पुच्छं' शिश्नं शिशूनाम् 'अभरत्' अ- हरत्(६) । हृतवान् 'तत्' विपश्चिदाहृतं पुच्छं 'धाता' प्रजापतिः 'पुनः' 'आ- ( १ ) “वस्तिर्नाभेदधोद्वयोः” इत्यमरः ॥ ( २ ) तिरोऽञ्चतीत्यर्थे किन् । उगित्वान्ङीप् । ( पा० ४।१।६ ) “अचः” ( पा० ६।४।१३८ ) इत्यकारलोपः । ( ३ ) “यजदेवपूजादौ” ( भ्वा० उ० ) लट् ॥ ( ४ ) “राधसंसिद्धौ” ( स्वा० प० ) ताच्छील्ये णिनिः । ( पा० ३।२।७८ ) ॥ ( ५ ) “दिश अतिसर्जने” ( तु० प० ) तृन् । ऋदन्तत्वान् ङीप् । ( पा० ४।१।५ ) अतिसर्जनं दानम् ॥ ( ६ ) ह्रस्य मः ( पा० ३।१।८४ वा० ) ॥ २५ गो० गृ० सू

हरन्' आनीतवान् । तदनुध्यानेन तत्पुनर्यथावस्थितमवातिष्ठत । इतिपरोक्षमु- क्त्वा प्रत्यक्षमुच्यते—हे 'विपश्चिन् !' 'त्वं' 'परेहि' (१)परागच्छ दूरमपसर । येन 'अयं' मद्बुद्धिस्थो(२) मयाभिध्यातोऽत्र गर्भिण्याम् 'पुमान्' शिश्नस- म्पन्नो 'जनिष्यते' उत्पत्स्यते । 'असौनाम' देवदत्ताभिधानः। तस्मै तुभ्यं 'स्वाहा' सुहुतमस्तु ॥७॥ इति ॥ “पुमानयञ्जनिष्यतेऽसौ नामे”ति नामधेयं गृह्णाति ॥ १५ ॥ उक्तमन्त्रे “पुमानयमि”ति मन्त्रांशे असौ नामेत्यस्मिन्सर्वनाम्नि देवदत्त- शर्मन्नाम स्वाहेत्येवं नामधेयं नाम गृह्णीयात् । स्वार्थेऽत्र धेयप्रत्ययः । ( पा० ५।४।२५ वा० ) ॥ १५ ॥ यत्तद्गुह्यमेव भवति ॥ १६ ॥ यत्तदानीं नाम गृह्णाति तद्गुह्यम् अप्रकाश्यम्भवति । एवकारकरणाद्याव- ज्जीवं स्वयमपि न गृह्णीयाज्ज्येष्ठस्येति स्मर्य्यते— “आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥” इति । अपरञ्चैतत्कारणं, यद्रिपुणा तज्जातमभिचार (३)उपयोजितम्मह- तेऽनर्थायावकल्पेतेति । अत्रशङ्खः—“काकादन्याः सेचकघातक्याः कोशात- क्याः बृहत्याः कालक्लीतकस्य मूलानि पेषयित्वोपलेपयेद्देशं यस्मिन्प्रजायेत रक्ष- सामपहस्त्यै” इति । काकादनी-काकजङ्घा । गुञ्जेत्येके । सेचकघातकी-का- कमाची । कोशातकी घोषकः । “सोनखेसर” इतिप्रसिद्धः । कालक्लीतकः कृ- ष्णगुञ्जा ॥ मार्कण्डेयपुराणे— “अग्न्यम्बुशून्ये च तथा निर्धूपे सूतिकागृहे । प्रदीपशस्त्रमुशालभूतिसर्षपवर्जिते ॥ अनुप्रविश्य जातन्तमपहृत्यात्मसम्भवम् । अद्यप्रसविनी बालं तत्रैवोत्सृजति द्विज! ॥ सा जातहारिणी नाम सुघोरा पिशिताशनी । तस्मात्संरक्षणार्थाय यत्नतः सूतिकागृहे ॥” ( १ ) परापूर्वक “इण्गतावि—”ति धातोरत्र लोडन्तः । गुणविष्णुस्तु-त्वं परःश्रेष्ठ इत्यस्मिन्कर्मण्येहि सन्निहितोभव । सोर्लोपः ( पा० ७।१।३९ ) । किन्त्वत्र-अवेहीति वत् ( पा० ६।१।८९ ) वृद्धयभावानोपपद्यते । आर्षत्वानुसरणं तु क्लेशः ॥ .. ( २ ) “इदमस्तु सन्निकृष्टे०” इति नियमात् । सान्निध्यं बुद्धयवस्थानात् ॥ ( ३ ) “जन्मनक्षत्रयोन्या वै मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि महेशरी”ति शारदाटीकायां राघवभट्टः ॥

७ कण्डिका ] गोभिलगृह्यसूत्रे- १६५ इति । यूपोऽत्र यूपाकारः काष्ठविशेषः । बैजवापः— “षष्ठेऽह्नि रात्रिजागरणं जन्मगानं च कारयेत्” इति ॥ १६ ॥ ( अथजातकर्म्म ) यदास्मै कुमारञ्जातमाचक्षीरन्नथ ब्रूयात् “काङ्क्षत नाभिकृन्त- नेन स्तनप्रतिधानेन चे”ति ॥ १७ ॥ अस्मै-पित्रे । वक्तव्यमाह-काङ्क्षतेति । नाभिकृन्तनेन-नाभिच्छेदनेन । “कृतीच्छेदने” (तु० प०) ल्युटि बाहुलकान्नुम् (पा० ३।३।१) स्तनप्रतिधानेन- स्तनपानेन । “धेट्पाने” ( भ्वा० प० ) भावे ल्युट् । ( पा० ३।३।११५ ) का- ङ्क्षत-प्रतिपालयत । समयं प्रतीक्षत । प्रकृत्यादित्वात्तृतीया ॥ ( पा० २।३। १८ वा० ) । तदुभयञ्जातकर्म्मानन्तरं मातरः ! करिष्यथेत्यर्थः । नाभि-र्ना- भिलग्ना नाडी नालमित्यनर्थान्तरम् ॥ हारीतः “ब्राह्मणमाहूय नाड़ीच्छेदना- त्प्राक् जातकर्म-पुण्याहवाचनङ्कुर्व्वन्ति” इति । ब्राह्मणं-तत्कर्म्माभिज्ञं विप्रम् । विष्णुपुराणे— “जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते । जातकर्म ततः कुर्याच्छ्राद्धमभ्युदये (१)च यत् ॥” इति । मनुः— “प्राङ्नाभिवर्द्धनात्पुंसोजातकर्म विधीयते । मन्त्रवत्प्राशनञ्चास्य सुवर्णमधुसर्पिषाम्” ॥ इति । “वर्द्धनं छेदने” इत्यमरः । “वर्द्धच्छेदने” ( चु० प० ) इति धा- त्वनुसारात् । पुंस इत्युक्तेः कन्याया एतन्न भवतीति गम्यते । अतएवास्य प्रा- शनमित्यप्युक्तम् । सुवर्णेति । सुवर्णेन हेम्ना मधुसर्पिषोर्मन्त्रपूर्व्वकम्प्राशनं मु- खे निःक्षेपणम् । अस्य बालकस्येत्यर्थः । तदुक्तं गृह्यान्तरे—“अनामिकया सुव- र्णान्तरितया मधुघृते प्राशयति-घृतं वे”ति । विकल्पे व्यवस्था गृह्यानुसारेण द्रष्टव्या । ब्रह्मपुराणे—“जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेषु हि” इति । एवं विधे श्राद्धेऽवनेजनपिण्डदानादि नास्तीति भर्तृयज्ञ-स्वामिनाविति रत्नाकरः ॥ व्रीहियवौ पेषयेत्तयैवाऽऽवृता यथाशुङ्गम् ॥ १८ ॥ व्रीहियवाविति द्वन्द्वनिर्देशादुभावपि मिलितौ पेषयेन्नत्वेकैकशः । तयैवा- ऽऽवृता-परिपाट्या यथाशुङ्गाम्पूर्वोक्ताम् । अन्यतरालाभेऽपि तत्प्रतिनिधिरूपा- ( १ ) अत्र “नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न शोषयन्ती जातकर्म्मे प्रोषितागतकर्म्मसु” इति कर्म्मप्रदीपवचनं भवदेवभट्टमुरारिमिश्रादिभिरुपेक्षितम् । बीर- पद्धत्यादिष्वपि “कर्त्तास्नानं वृद्धिश्राद्धञ्च कुर्यादित्युपक्रमएवोक्तम् ।

१४६ जातकर्म्मविधिः । [ २ प्रपाठके देयः । तथाच कर्म्मप्रदीपः— “यथोक्तवस्त्वसम्पत्तौ ग्राह्यन्तदनुकारि यत् । यवानाभिव गोधूमा व्रीहीणामिव शालयः ॥” इति । तदेवं पिष्टौ व्रीहियवौ— दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या अभिस- ङ्गृह्य कुमारस्य जिह्वायान्निमार्ष्टि—“यमाज्ञे”ति ॥१६॥ ( सं० ब्रा० १।५।८ ) निमार्ष्टि-निश्च्योतयति(१) । अत्र करणमन्त्रमाह—“इयमाज्ञा” इति- एवमादिनेति । मन्त्रोयथा—“इयमाज्ञेयमन्नमिदमायुरिदममृतम्” इति । म- न्त्रार्थस्तुगमः । अत्र— “प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तावद्विज्ञेयोयावन्मौञ्जीनिबन्धनम् ॥” इति विशेषाभिधानेऽपि कुमारस्येति वचनं मौञ्जीबन्धनस्याँवदधिकारा- र्थम् । तेनैतानि जातकम्मोदिमौञ्जीबन्धनान्तानि कर्म्माणि कुमारस्यैव न कु- मार्याः । मनुरपि— “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ वैवाहिकोविधिः स्त्रीणां संस्कारोवैदिकः स्मृतः । पतिसेवागुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥” इत्येताभ्यां वचनाभ्यां जातकर्मोदिसंस्कारमुपनयनाभावञ्च बोधय(२)तीति व्याख्यातारः ॥ १९ ॥ तथैव मेधाजनन ंसर्पिष्प्राशयेत् ॥ २० ॥ तथैवेति दक्षिणस्य पाणेरित्यादिनोक्तप्रकारेणैवेत्यर्थः । मेधा श्रुतधारण- ( १ ) तद्रसं वस्त्रान्तरितमित्येतदर्थवशात् । बीरपद्धतौ तु-अनुमार्ष्टीत्युक्तन्तत्रानुमा- र्जनं तद्रसस्य, घर्षणं प्रक्षेपणं वा चूर्णस्येत्यत्र शिष्टाचारः प्रमाणम् ॥ ( २ ) वस्तुतस्तु—“प्राधान्यात्कुमारग्रहणं क्रियते । अनुपादेयलिङ्गाविवक्षायां तु कु- मार्य्यप्यवगम्यमाना न निराक्रियते । ननु चैवमुपनयनव्रतादिकमपि क्रियताम् इति चे- च्छृणु-अध्ययनार्थानि हि तानि व्रतानि । स्त्रियाः खल्वध्ययनं नास्ति । “न स्त्रीशूद्रौ वेद- मधीयाताम्” इति हि ब्राह्मणम् । याज्ञवल्क्योऽपि “वैवाहिकोविधिः स्त्रीणामौपनायनि- कः स्मृतः” इत्याह । औपनायनिकः उपनयनप्रतिनिधिभूतः ( तत्कार्यकारी ) । एतेन तत्पूर्व्वेः सर्वोऽयममन्त्रकः संस्कारः स्त्रीणामप्रतिहत एव मनुवचनाथैः” इति व्याख्यान चन्द्रकान्तभाष्यस्थं युक्तमुत्पश्यामः ॥ अत्र ब्राह्मणवाक्ये—“स्त्रीशूद्रौ नाधीयेताम्” इत्यपि पाठो मुद्रितपुस्तके दृश्यते ॥

२ कण्डिका ] गोभिलगृह्यसूत्रे- १६७

विषया शक्तिः । "धीर्धारणावती मेधा" इत्यमरः । तज्जनयतीति मेधाजननं सर्पिविशेषणम् । प्राशयेत् निःक्षिपेत् ॥ २० ॥ जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति "मेधान्ते मित्रावरु- ( मं० ब्रा० १।५।९ ) णावि"-त्येतयर्चा "सदसस्पतिमद्भुतमि"-ति च ॥२१॥ ( छं० ब्रा० २।२।३७ ) जातरूपं-सुवर्णम् । तथाच तत्पर्याये "चामीकरं जातरूपं महारजतका- ञ्चने" इत्यमरः । वाशब्दः समुच्चये । क्रियाद्वयोपादानं मन्त्रयोः पृथग्विनियोग- प्रदर्शनार्थम् । जुहोति-जुहुयात् । निःक्षिपे(१)दित्यर्थः । जुहोति पदोपादानमिह कुमारमुखस्याग्नित्वेन ध्यानलाभार्थम् । अत एव गृह्यसंग्रहे "प्रगल्भोजातकर्म्म- णो"-त्यग्निविशेषकथनमनर्थवत् । अत एवाग्निविशेषापदेशादत्र व्याहृतिहोमो- ऽपि कार्य इति कस्य चिन्मतमपास्तम् । प्रमाणान्तराभावादस्य चान्यथासिद्धेः । शिष्टाचारोऽप्येवमेव । अत्र गणेश्वरमिश्रादयस्तु-छन्दोगानामन्यस्यान्नप्रा- शनस्याविधानात्कुमारमुखे यवरसदानमेतदेवान्नप्राशनम् । अन्यथा संस्कार- न्यूनता स्यात् । अतएव न पृथक्करणमिति(२) । ननु सूत्रकारेण पृथक्सूत्र- णादत्रान्नप्राशनं संस्कार एव नास्तीति चेन्न सूत्रकारानुक्तत्वमात्रस्याप्रयोजकत्वा- त् । अन्यथा-कन्यादानकर्णवेधाग्निहोत्राणामकरणप्रसङ्गात् । “यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥”


( १ ) जुहोति पदोपादानात्स्वाहाकारान्तामन्त्रयोरवगम्यते । मन्त्रयोर्भेदेनोपदेशाद्भेदे- नैव होमः । अतएव वीरपद्धतौ विनियोगोऽपि पृथगेव दर्शितः । किन्त्वत्र प्रथममन्त्रान्ते स्वाहाकारोनास्तीति चित्रं प्रतिभाति ॥ ( २ ) एषामयमाशयः । शास्त्रप्रामाण्यबलादेकेनापि कर्म्मणा संस्कारद्वयनिष्पत्ता- वपि न किमप्यनुचितम् । ननु “षष्ठेऽन्नप्राशनं मासि” इति नियतकालत्वमन्नप्राशनस्य स्मर्यते नामकरणेन व्यवहितत्वञ्चे ति चेच्छृणु - अस्मच्छाखे खल्विदानीमेवान्नप्राशनमुप- दिश्यते इत्यन्येषामेव नियतकालत्वन्नामकरणेन व्यवहितत्वञ्च, नास्माकम् । नाप्यस्य नि- यतकालत्वमप्यस्ति-यथा च यमः-“ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि । अष्ट- मेवाडथ कर्त्तव्यं यद्वेष्टम्मङ्गलङ्कुले” इति कालद्वयमुपदिश्य कालान्तरमप्युपदिशति । मनु- रपि “षष्ठेऽन्नप्राशनं मासि यद्वेष्टम्मङ्गलं कुले" इति तथैवोपद्दिशति । तदेतदपरे न क्षमन्ते। जातकर्म्मरूपत्वादेतस्य नान्नप्राशनत्वम् । न खल्वेकेन कर्म्मणा संस्कारद्वयनिष्पत्तिर्युक्ता। नियतकालत्वादन्नप्राशनस्य नामकरणेन व्यवहितत्वाच्चेति प्राङ्नाभिवर्द्धनात्करणमस्य न युक्ततरम् । स्वशाखायामनभिधातेऽपि च पारशाखिकोपादानमविरोधेऽनुमतं कात्याय- नेन । तस्मात्प्रधानहोमदेवतामात्रमेवाध्वर्युभ्योऽग्रहीतव्यम् । पूर्वापरेतिकर्त्तव्यताकलापस्तु स्वशाखोक्त एव स्यादिति न किञ्चिदेतत् ॥

: It is मातुरस्पृश्यत्वं यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥ or मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥? Wait! Look at the word: मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति Wait, look at the characters: म 1 ा त 2 ु र 3 स 4 ् प ृ श 5 ् य त 6 ् व ै ? No, look above 'त्व': there is NO matra. Wait, look above the letter after 'त्व': There is a repha: 'र्य्य' or 'य्य'? Wait, if there's no matra on 'त्व', how could it be 'त्वै'? It CANNOT be 'त्वै'! So it is NOT 'त्वै'! Could it be मातुरस्पृश्यत्वं यदभिहितन्तद...? Wait, look at the space: between 'त्व' and 'द', there is ं य or र्य्य? Wait, look at the letter: it has a loop on the left, a vertical stem on the right, and a repha on top. That is `

८ कण्डिका ] गोभिलगृह्यसूत्रे- १६६ अथाष्टमी कण्डिका- ( अथ निष्क्रमणम् ) जननाद्यस्तृतीयोज्यौत्स्नस्तस्य तृतीयायां प्रातःसशिरस्कं कुमारमाप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते॥१॥ जननाज्जन्मन आरभ्य तृतीयोयोऽज्यौत्स्नः ज्योत्स्नायुक्तः पक्षः शुक्लपक्षस्त- स्य तृतीयायां तिथौ सशिरस्कं शिरसा सह । अत्र सशिरस्कमित्यभिधानाद- न्यदा बालानामशिरस्कं स्नानन्दर्शयति । तथाच ब्रह्मपुराणम्- “शिरोराभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादिस्पर्शे तु स्नातव्यन्तु कुमारकैः ॥” इति । एवञ्चेदं स्नानमदृष्टार्थम् । न तु शौचार्थमिति ध्येयम् ॥ कुमारं- बालम् ॥ तथाच ब्रह्मपुराणम्- “प्राक्चूड़ाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तावद्विज्ञेयोयावन्मौञ्जीनिबन्धनम् ॥” इति । आप्लाव्य-स्नापयित्वा । रात्रौ कर्म्मणोविधानाद्रात्रावेव स्नानम्मा- भूदित्येवमर्थं प्रातरित्युक्तम् । अस्तमिते अस्तङ्गते सवितरि सूर्ये । वीते-विगते। लोहितिम्नि-लौहित्ये सन्ध्योपरम इत्यर्थः । अञ्जलिकृतः । कृताञ्जलिः । “आहि- ताग्न्यादिषु” ( पा० २।२।३७ ) पाठात् कृतशब्दस्य परनिपातः । उपतिष्ठते- आराधयति । अर्थाच्चन्द्रमसम् । “अभिमुखश्चन्द्रमसम्” इति लिङ्गात् । अत्र “उपान्मन्त्रकरणे” (पा० १।३।२५) इत्यात्मनेपदम् । अत्र “उपाद्देवतापूजासङ्ग- तिकरणमित्रकरणपथिष्विति वाच्यम्” इति वार्त्तिकादाराधने । अत्र दिशोऽनुप- देशात् प्राङ्मुख उपस्थानङ्कुर्यात् । “यत्र दिङ्नियमोनास्ती”ति कात्यायनवचना- दिति भाष्यकृतः । प्रत्यङ्मुख इति पद्धतिकृतः । युक्तञ्चेदं शुक्लपक्षतृतीयायां चन्द्रमसः पश्चिमदिगवस्थितत्वेन तत्साम्मुख्येनैवोपस्थानस्य न्याय्यत्वात् ॥१॥ अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणत उदञ्चं पित्रे प्रयच्छत्युदक्शिरसम् ॥ २ ॥ अथ-अनन्तरमेव । शुचिना-निर्णिंक्तेन । आच्छाद्य-आ ईषत्-मुखव- र्जम् छादयित्वा दक्षिणतः पितुर्द्दक्षिणस्यान्दिशि भूत्वा । अत्र च “आद्या- दिभ्यस्तसेरुपसंख्यानम्” ( पा० ५ । ४ । ४४ वा० ) इति सप्तम्यन्तात्तसिः । एवमग्रेऽपि । उदञ्चम्-उत्तानम् । उदक्शिरसञ्च कुमारं पित्रे प्रयच्छति- ददाति ॥ २ ॥ स्वयञ्च- अनुपृष्ठम्परिक्रम्योत्तरतोऽवतिष्ठते ॥ ३ ॥

२०० निष्क्रमणविधिः । [ २ प्रपाठके

अनुपृष्ठं-पत्युः पृष्ठदेशेन । परिक्रम्य-गत्वा । उत्तरतः पत्युत्तरस्यान्दिशि अवतिष्ठते ऊर्ध्वा तिष्ठति । अत्र “समवप्रविभ्यःस्थः” (पा० १।३।२२) इत्या- त्मनेपदम् ॥ ३ ॥ अथ जपति-“यत्ते सुसीम” इति । “यथायन्न प्रमीयेते पुत्रोजनित्र्याअधी”-ति ॥ ४ ॥ ( मं० ब्रा० १।५।१०-१२ ) अथे-त्यानन्तर्यार्थम् । परिक्रम्योत्तरतः स्थितायान्तस्याम् । अनन्तरं पिता जपति-न तु परिक्रममाणायामेव । जप्यमाह-यत्त इति-एवमादि । यथायं अधीयेतेदन्तम् । तदिदन्त्यृचस्या(१)द्यन्तज्ञापनार्थमिति पदद्वयमुक्तमिति बोध्यम् । ऋचो यथा— “यत्ते सुसीमे हृदय ँहितमन्तःप्रजापतौ । वेदाहम्मन्ये तद्ब्रह्म माहं पौत्रमघं नि गाम् ॥ १० ॥ यत्पृथिव्यामन्नममृतं दिवि चन्द्रमसि श्रितम् । वेदामृतस्याहन्नाम माहं पौत्रमघ ँरिषम् ॥ ११ ॥ इन्द्राग्नी शर्म्ययच्छतं प्रजायै मे प्रजापतिः । यथायं न प्रमीयेत पुत्रोजनित्र्या अधि” ॥ १२ ॥ इति । आसामर्थः—हे चन्द्र ! “यत्” ‘ते’ तव ‘अन्तः’ मध्ये ‘सुसीमे’ सुषीमे सुशीमे वा(२) । अतिशीतले ‘प्रजापतौ’ प्रजानामानन्दजनकत्वेन पत्याविव (स्वामिनीव) ‘हृदयं’ मनः ‘हितम्’ निहितम् अर्पितम् । ‘अहं’ ‘वेद’ जानामि । किं ? ‘मन्ये तद् ब्रह्म’ तदेतद्ब्रह्मैवभवतोति ध्रुवमुत्प्रेक्षे(३)। तेन ‘पौत्रम्’ पुत्र- सम्बन्धि । ‘अघम्’(४)दुःखम् ‘अहं’ ‘मा निगाम्’ मानितरां प्राप्नुयाम् । अय- मर्थः । यस्मादहं ब्रह्मवित्तस्मान्ममानिष्टसम्बन्धोन सङ्गच्छते इति ॥ १० ॥ ‘यत्’ ‘पृथिव्याः’ सकासात् ‘अन्’(५) निर्गतम् । अमृतम्(६) । ‘दिवि’ द्युलोके ‘चन्द्रमसि’ चन्द्रे ‘श्रितम्’ आश्रितम् । तद् ‘अहम्’ ‘अमृतस्य’ ‘नाम’ प्राकाश्यं(७) सम्भाव्यं वा रहस्यम् ‘वेद’ जानामि । ब्रह्मवित्त्वात् । अतः ‘पौत्रं’


( १ ) ऋक्त्रयस्य । ( २ ) “सुषी(शी)मः शिशिरोजडः” इत्यमरः । ( ३ ) “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षां व्यज्यते शब्दैरिवश- ब्दोऽपि तादृशः” इति मद्दुकः । तादृशः क्रियापदसङ्गतः । उत्प्रेक्षाभिधायी । ( ४ ) “अंहोदुःखव्यसनेष्वघम्” इत्यमरः । ( ५ ) “अम्गत्यादिषु” ( भ्वा० प० ) तस्मात्क्तिनि मस्यनत्वे रूपम् । ( ६ ) छान्दसोदीर्घः । गुणविष्णुस्तु-अनामृतममृतमित्याह— ( ७ ) “नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने” इत्यमरः ।

Here is the complete line-by-line transcription of the text from the provided image:

८ कण्डिका ] गोभिलगृह्यसूत्रे- २०१ पुत्रसम्बन्धि 'अघं' दुःखम्प्राप्य(१) 'मा रिषम्' हिंसितो माभवेयमित्यर्थः ॥११॥ हे 'इन्द्राग्नी'! युवां 'मे' मम 'प्रजायै' सन्तानाय । 'शर्म्म' कल्याणम् । 'यच्छतम्' दत्तम् । किम्भूतो ? 'प्रजापती' लोकपालौ । तथाच शर्म्म यच्छतं 'यथायं पुत्रो' 'मम' 'जनित्र्याः' मातुः । 'अधि' उत्सङ्गे स्थितो 'न प्रमीयेत' न (२)हिंस्येत कदाचिदापुरुषायुषम् ॥ १२ ॥ इति । अत्र भविष्यपुराणम्- "द्वादशेऽहनि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । चतुर्थे मासि कर्त्तव्यन्तथाऽन्येषाम्मतं विभो ! ॥" इति । द्वादशेऽहनीति शाखाभेदाद्विकल्पः । तथा- "चतुर्थे मासि कर्त्तव्यं शिशोश्चन्द्रस्य दर्शनम् । तृतीये मासि कर्त्तव्यं शिशोस्सूर्यस्य दर्शनम् ॥" इति । सूर्यचन्द्रदर्शनयोर्गृह्यानुसारेण व्यवस्था । अतुल्यार्थत्वात्समुच्चय इति कल्पतरुः । पारस्करः "चतुर्थे मासि निष्क्रमणिका-सूर्यमुदीक्षयति तच्च- क्षुरिती"ति । अत्र च संस्कारोनिष्क्रमणमेव । तत्परिगणने तस्यैव पाठात् । अनयोर्दर्शनयोराभ्युदयिकश्राद्धन्न कुर्वन्ति-"सूपन्दोः कर्मणी ये तु तयोः श्रा- द्धन्न विद्यते" इति कात्यायनवचनादितिकल्पतरुः ॥ ४ ॥ एवञ्जपित्वाऽथ कुमारम्- उदञ्चम्मात्रे प्रदाय यथार्थम् ॥ ५ ॥ ऋजुरञ्चरार्थः । यथार्थमिति कर्मणः परिसमाप्तिरुच्यते । इत्यसकृदवो- चाम । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । तथा च कर्मप्रदीपः- "अहोमस्र्केऽवपि भवेद्यथोक्तञ्चन्द्रदर्शने । वामदेव्यं गणेश्र्वन्ते बल्यन्ते वैश्वदेविके ॥" इति ॥ ५ ॥ अथयेऽत ऊर्ध्वं ज्योत्स्नाः पूर्वोदित (३) एव तेषु पितोपतिष्ठतेऽ- पामञ्जलिं पूरयित्वाऽभिमुखश्चन्द्रमसम् ॥ ६ ॥ ( १ ) केचित्तु- "मा ऋषम्" नावगच्छेयम् । "ऋषी गतौ" ( तु० प० ) माङि- लुङर्थेलडडभाव आर्षः । अत्रानुस्वारोवर्णव्यत्ययकृतोऽभावमापन्नः । इत्याहुः । ( २ ) "मीहिंसायाम्" ( दि० आ० ) आशंसायां लिङ् । ( ३ ) अत्र "प्रथमोद्दिष्टे" इति पाठश्चन्द्रकान्तेन धृतः । प्रथमं यः काल उद्दिष्टः क- थितस्तस्मिन्नेव काले तृतीयायामिति तदर्थमाह । प्रथमोदित इतिपाठेऽपि प्रथममुदितः कथितोयः कालस्तस्मिन्निति स एवार्थ इति च । एषोऽर्थः पद्धतिवृतोबीरेेश्वरस्याप्य- भिमतः । परं स "ततस्तथावस्थितमेव कुमारं मातरि समर्प्य तद्दिने तत्क्षण एव चन्द्रा- भिमुखः पिता गन्धदुग्धयवफलपुष्पचन्दनसहितमपामञ्जलिं पूरयित्वा चन्द्रोद्देशेन सकृ- न्मन्त्रेण द्वस्तूष्णीमुत्सृजेदि"त्याह । एतदन्त एव च पात्राल्रेन पुष्पेण चापूयं पूर्ववद्वा- २६ गो० गृ० स०