गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 225, कुल 332 में से
संदर्भ में पढ़ेंहरन्' आनीतवान् । तदनुध्यानेन तत्पुनर्यथावस्थितमवातिष्ठत । इतिपरोक्षमु- क्त्वा प्रत्यक्षमुच्यते—हे 'विपश्चिन् !' 'त्वं' 'परेहि' (१)परागच्छ दूरमपसर । येन 'अयं' मद्बुद्धिस्थो(२) मयाभिध्यातोऽत्र गर्भिण्याम् 'पुमान्' शिश्नस- म्पन्नो 'जनिष्यते' उत्पत्स्यते । 'असौनाम' देवदत्ताभिधानः। तस्मै तुभ्यं 'स्वाहा' सुहुतमस्तु ॥७॥ इति ॥ “पुमानयञ्जनिष्यतेऽसौ नामे”ति नामधेयं गृह्णाति ॥ १५ ॥ उक्तमन्त्रे “पुमानयमि”ति मन्त्रांशे असौ नामेत्यस्मिन्सर्वनाम्नि देवदत्त- शर्मन्नाम स्वाहेत्येवं नामधेयं नाम गृह्णीयात् । स्वार्थेऽत्र धेयप्रत्ययः । ( पा० ५।४।२५ वा० ) ॥ १५ ॥ यत्तद्गुह्यमेव भवति ॥ १६ ॥ यत्तदानीं नाम गृह्णाति तद्गुह्यम् अप्रकाश्यम्भवति । एवकारकरणाद्याव- ज्जीवं स्वयमपि न गृह्णीयाज्ज्येष्ठस्येति स्मर्य्यते— “आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥” इति । अपरञ्चैतत्कारणं, यद्रिपुणा तज्जातमभिचार (३)उपयोजितम्मह- तेऽनर्थायावकल्पेतेति । अत्रशङ्खः—“काकादन्याः सेचकघातक्याः कोशात- क्याः बृहत्याः कालक्लीतकस्य मूलानि पेषयित्वोपलेपयेद्देशं यस्मिन्प्रजायेत रक्ष- सामपहस्त्यै” इति । काकादनी-काकजङ्घा । गुञ्जेत्येके । सेचकघातकी-का- कमाची । कोशातकी घोषकः । “सोनखेसर” इतिप्रसिद्धः । कालक्लीतकः कृ- ष्णगुञ्जा ॥ मार्कण्डेयपुराणे— “अग्न्यम्बुशून्ये च तथा निर्धूपे सूतिकागृहे । प्रदीपशस्त्रमुशालभूतिसर्षपवर्जिते ॥ अनुप्रविश्य जातन्तमपहृत्यात्मसम्भवम् । अद्यप्रसविनी बालं तत्रैवोत्सृजति द्विज! ॥ सा जातहारिणी नाम सुघोरा पिशिताशनी । तस्मात्संरक्षणार्थाय यत्नतः सूतिकागृहे ॥” ( १ ) परापूर्वक “इण्गतावि—”ति धातोरत्र लोडन्तः । गुणविष्णुस्तु-त्वं परःश्रेष्ठ इत्यस्मिन्कर्मण्येहि सन्निहितोभव । सोर्लोपः ( पा० ७।१।३९ ) । किन्त्वत्र-अवेहीति वत् ( पा० ६।१।८९ ) वृद्धयभावानोपपद्यते । आर्षत्वानुसरणं तु क्लेशः ॥ .. ( २ ) “इदमस्तु सन्निकृष्टे०” इति नियमात् । सान्निध्यं बुद्धयवस्थानात् ॥ ( ३ ) “जन्मनक्षत्रयोन्या वै मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि महेशरी”ति शारदाटीकायां राघवभट्टः ॥