गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 239, कुल 332 में से
संदर्भ में पढ़ें१०८ नामकरणविधिः । [ २ प्रपाठके- तच्च नामधेयं प्रथमं-पूर्वं मात्रे कुमारस्य । आख्याय-कथयित्वा यथार्थम्। तत्कर्मसमाप्तङ्कुर्यादित्यर्थः । चशब्दात्पुरुषनाम्नः स्त्रीनाम्नश्च प्रथमम्मात्रे कथनम् । एवकारोमात्रे प्रथमनिवेदनार्थः ॥ १७ ॥ गौर्दक्षिणा ॥ १८ ॥ नामधेयकर्मणः ॥ १८ ॥ ( अथ जन्मदिनादिकृत्यम् ) कुमारस्य मासि मासि संवत्सरे सावँत्सरिकेषु वा पर्वस्वग्नीन्द्रौ द्यावापृथिवी विश्वान्देवाꣳश्च यजेत ॥ १६ ॥ जननादित्युपक्रमात् कुमारस्य जन्मतिथौ वक्ष्यमाणा देवता यजेत् । तत्र समयविशेषमाह-मासि मासीति । प्रतिमासमित्यर्थः । तेन संवत्सरपर्यन्तं यागः । ऊर्ध्वं संवत्सराज्जननमास एवैकस्मिन्वर्षान्ते जन्मतिथौ संवत्सरे “वा पूर्णे” इति वाक्यशेषः । अत्रापि जन्ममासे जन्मतिथौ यजेतेति द्रष्टव्यम् । वा-अथवा सावँत्सरिकेषु पर्वसु । यजेत । संवत्सरस्येमानि सावँत्सरिकानि तेषु “कालाट्ठञ्” (पा०४।३।११) इति ठञ्प्रत्येक आदिवृद्धिः । पर्वसु-त्रयाणा- मृतूनां शरच्छिशिरग्रीष्माणा(१)मवसानतिथिषु कार्त्तिकी फाल्गुनी आषाढीषु । अथवा द्वावत्र कालविकल्पौ । संवत्सरपर्यन्तं मासि मासि कुमारस्य जन्म- तिथौ यजेत । सावँत्सरिकेषु वा पर्वसूक्तरूपेषु यजेत। कतमाः पुनस्ता देवता- उच्यन्ते-अग्नीन्द्रौ। द्यावापृथिवी द्यावापृथिव्यौ(२) एते द्वन्द्वदेवते । विश्वा- न्देवांश्चेति । विश्वेभ्योदेवेभ्य इत्येवम् ॥ १९ ॥ दैवतामिष्ट्वा तिथिन्नक्षत्रञ्च यजेत ॥ २० ॥ जन्मतिथेर्देवतम् इष्ट्वा जन्मतिथिं, जन्मनक्षत्रस्य दैवतामिष्ट्वा जन्मन्क्षत्र- ञ्च यजेत ॥ २० ॥ ( अथ प्रोषितागतकर्म ) विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्याम्पाणिभ्याम्मूर्द्धानम्परिगृह्य जपेत् यदा वा पिता म इति विद्यात्, उपेतस्य वा “अङ्गादङ्गात्सम्भवसी”ति ॥ २१ ॥ ( मं० ब्रा० १।५।१६-१८ ) विप्रोष्य प्रवासादागत्य गृहम् । पिता पुत्रस्येति सम्बन्धपदोपादानात् । ( १ ) एतच्च “त्र्यूतुः सव्ँवँत्सर” इति मतेन, बोध्यम् । यत्र च मार्गादिमासचतुष्टय- स्यैक ऋतुरेवमग्रेऽपि बोध्यम् ॥ ( २ ) द्यावापृथिवीचेत्यर्थे द्वन्द्वे “दिवोद्यावे-” ( पा० ६।३।२९ ) ति द्यावादेशः ।