गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 240, कुल 332 में से
संदर्भ में पढ़ें८ कण्डिका ] गोभिलगृह्यसूत्रे- ३०९
मूर्द्धानमुत्तानाभ्यां पाणिभ्याम्परिगृह्य “अङ्गादङ्गादि-”ति ऋचं जपेत् । यदा वा कुमारः । “अयम्मे पिता” इति विजानीया(ञ्ज्ञातुंशक्नुया-)त्तदा जपेत् । शक्त्यर्थेऽत्र लिङ् । ( पा० ३।३।७२) वा-अथवा उपेतस्य उपनीतस्य (कृतो- पनयनस्य) कुमारस्य मूर्द्धानमुक्तदिशा परिगृह्य जपेत् । त इमे अत्र त्रयः काल- विकल्पाः ।। ऋचो यथा— “अङ्गादङ्गात्संस्रवसि हृदयादधिजायसे । प्राणन्ते प्राणेन सन्दधामि जीव मे यावदायुषम्” ।। १६ ।। “अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । वेदोवै पुत्रनामासि स जीव शरदः शतम्” ।। १७ ।। “अश्मा भव परशुर्भव हिरण्यमस्तृतम्भव । आत्मासि पुत्र मा मृथा स जीव शरदःशतम्” ।। १८ ।। इति । आसामर्थाः । ‘हेपुत्र ! यस्त्वं मम ‘अङ्गादङ्गात्’ सर्वेभ्योऽङ्गेभ्यः । “नित्यवीप्सयोः” ( पा० ८।१।४ ) इति द्वित्वं ‘संस्रवसि’ संस्रुतोऽसि । वर्त्त- मानसमीपे भूते लट् । ( पा० ३।३।१३१ ) एवमग्रेऽपि । तथा ‘हृदयात्’ सर्व- गात्रेभ्यः प्रधानभूतात् ‘अधिजायसे’ उत्पन्नोऽसि । तस्येत्थम्भूतस्य ‘ते’ तव ‘प्राणं’ प्राणवायुं ‘प्राणेन’ एव ‘सन्दधामि’ सततमविच्छिन्नं करोमि । तत्सन्धानात् ‘मे’ मम सुतस्त्वं ‘यावदायुषम्’ पुरुषायुषम् । शरदादित्वाष्टच् (पा० ५।४।१०७) समासान्तः । ( शतवर्ष ) व्याप्य ( शतवर्षपर्यन्तं ) ‘जीव’ ।। १६ ।। अत्र वेदशब्दोवेदाध्येतरि वर्त्तते । यथा कठशब्दः कठाध्येतरीति गुणवि- ष्णुः । मन्त्रार्थः पूर्ववत् ।। ‘शतं शरदः’ शतवर्षाणि । “संवत्सरोवत्सरोऽब्दो- हायनोऽस्त्री शरत्समाः” इत्यमरः । शतमित्येकत्वं “विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोर्”-त्यमरात् । अत्र सर्वा इति संख्यापरं प्रकरणात् । सञ्जीवेति पाठे सुखेनजीवेत्यर्थः । समिति सुखेऽर्थेऽव्ययम् ।। १७ ।। हेपुत्र ! ‘त्वम्’ ‘अश्मा’ पाषाणइवदृढोनिर्व्याधिश्च ‘भव’ । ‘परशुः’ कुठार इव च्छेदकः परेषाम्भव । न तु च्छेद्यः । तथा ‘हिरण्यं’ सुवर्णमिव हितारमणञ्च ‘भव’ । यत् ‘अस्तृतम्’ अन्यैस्ताम्रादिभिरल्प(१)द्रव्यैराच्छादितं न भवति तत् “स्तृञ्आच्छादने” ( क्र्या० उ० ) क्तः । ततोनञ्समासः ‘आत्माऽसि’ अह- मिव त्वमतो ‘मा मृथाः’ मा म्रियस्व । किन्तु स इत्थम्भूतस्त्वम् ‘शतं शरदः’ शतवर्षाणि ‘जीव’ प्राणिहि । सञ्जीवेतिपाठे सुखेन प्राणिहीत्या(२)शास्यते ।। १८ ।। इति ।। २१ ।।
( १ ) अल्पत्वमिह ततो हीनता । अत एवापद्रव्यैरिति गुणविष्णुभाष्यम् । अप शब्दोऽत्र हीनार्थेः । ( २ ) सर्वोऽपि ह्यात्मभूतञ्चिरजीविनमाशास्ते किं पुनरात्मानम् । २७ गो० गृ०सू०