गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 241, कुल 332 में से
संदर्भ में पढ़ें२१० प्रोषितागतकर्मविधिः । [ २ प्रपाठके- “पशूनान्त्वा हिङ्कारेणाभिजिघ्रामि”-इत्यभिजिघ्रद्यथार्थम् ॥२२॥ (सं० ब्रा० २।५।१९ ) पशूनां त्वेति। अत्राऽन्तेऽसाविति मन्त्रब्राह्मणे पठ्यते । अनेनाभिजिघ्रद्य आभिमुख्येनाघ्राय । मूर्द्धानमिति प्रकृतेनाभिसम्बन्धनीयम् । यथार्थमिति च कर्मणः परिसमाप्तिरुच्यते । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । अत्रापि मन्त्रे-अन्तेऽसाविति सर्वनाम्नि सम्बोधनविभक्त्या पुत्रनाम प्रयोक्तव्यम् ॥ तदि- दम्प्रोषितागतकर्मेत्युच्यते । मन्त्रार्थस्तु—हेपुत्र ! अहं पिता ‘त्वा’ त्वां ‘पशू- नां’ गवां ‘हिङ्कारेण’ हिङ्कृतेन गोजात्युचितशब्देन । (तत्पूर्वकम्) प्रकृत्यादित्वात् ( पा० २।३।१८ वा० ) तृतीया ‘अभिजिघ्रामि’ चुम्बामि । यथा गावोवनादा- गताः स्वपुत्रकानभिजिघ्रन्ति-तथाऽहमपि त्वामिति ॥ १९ ॥ २२ ॥ एवमेवापरेषाम् ॥ २३ ॥ अपरेषाम्-कनिष्ठानामप्येवमेव मूर्द्धालम्भनन्तदभिघ्राणञ्च कर्त्तव्यम् ॥२३॥ यथाज्येष्ठं यथोपलम्भं वा ॥ २४ ॥ यथाज्येष्ठम्-ज्येष्ठमनतिक्रम्य । योयोवयसा ज्येष्ठस्तस्य तस्य प्रथमं कर्त्त- व्यम् । तदेतत्सर्वेषां युगपदुपस्थितौ । अन्यथा तु यथोपलम्भम् । उपलब्धि- क्रमेण योयः पूर्वं सन्निधानमागच्छति तस्य तस्य वेति व्यवस्थितोविकल्पोवा- शब्दार्थः ॥ २४ ॥ स्त्रियास्तूष्णीं मूर्द्धन्यभिजिघ्रणम्मूर्द्धन्यभिजिघ्रणम् ॥ २५ ॥ इतिश्रीमद्गोभिलीये गृह्यसूत्रे द्वितीयप्रपाठकेऽष्टमी कण्डिका ॥ २ ॥ ८ ॥ ॐ ॥ ऋजुरुत्त(१)रार्थः । अन्ते द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥ २५ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया “मृदुला” ऽऽख्यायाम्मुकुन्दशर्म्मसङ्कलि- तायां द्वितीयप्रपाठकस्याष्टमी कण्डिका ॥ २ ॥ ८ ॥ * ॥ ( १) ननु तूष्णीमभिजिघ्रणमित्युक्त्वा मूर्द्धालम्भः समन्त्रक इति कुतो न ज्ञायेतेति चेन्न । पुत्रेति मन्त्रलिङ्गविरोधात् । तत एवाभिजिघ्रणमात्रं समन्त्रकं प्राप्तमिति तूष्णी- मित्युकम् । एतेन न केवलं प्रोषितागतकर्मण्येव स्त्रिया। अपि तु जातकर्मादिकमपि। तेन संस्कारपरिपाटी स्त्रीणामपि कार्या । परममन्त्रिकेति तदर्थः । तथा च मनुः-संस्कारान- भिधाय “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति । इत्थमावृज्जातकर्मादिः । याज्ञव- ल्क्योऽपि- “अमन्त्रिकाः क्रियास्तासां विवाहस्तु समन्त्रकः” इति । अत्र चन्द्र- कान्तः। तस्मान्मन्त्रलिङ्गविरोधादेव मूर्द्धाऽऽलम्भोऽमन्त्रकः सिद्धः । अतोऽभिजि- घ्राणमात्रस्य तूष्णींस्त्वंसुत्रितमातएवामन्त्रकं तूष्णीमित्यनयोरर्थभेदं द्रष्टव्य आसीत् ॥