गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 242, कुल 332 में से
संदर्भ में पढ़ें९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५ ( अथ नवमी कण्डिका- ) अथातस्तृतीये वर्षे चूड़ाकरणम् ॥ १ ॥ अथेति(१) पूर्वप्रकृतार्थम् । अथ=पूर्वप्रकृताज्जन्मनस्तृतीये वर्षे प्रवर्त्तमाने उदगयनादीनां(२) समुच्चयोपलब्धौ चूड़ायाः शिखायाः करणं स्थापनं(३) “संस्कारविधिना कर्त्तव्यमि”ति सूत्रशेषः । “शिखाचूड़ा केशपाशी” इत्यमरः । कपुष्णिका कपुच्छलाख्याः केशाश्चूड़ा इति कथ्यन्त इतिभाष्यकृतः । अतः शब्दोहेत्वर्थः । यस्मात् “सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥” ( १ ) अत्रनामकरणान्तेऽन्नप्राशनं संस्कारविधिना पद्धतिषु बीरेश्वरादिभिर्लिखि- तम् । समयोऽपि-षष्ठे मासि अष्टमे वा यथाकुलाचारमित्येवंनिर्दिष्टः । यथाच नामकर- णान्ते ब्रह्मपुराणम्-“ततोऽन्नप्राशनं कार्यं मासि षष्ठे यथाविधि । अष्टमे वापि कर्त्तव्यं यद्देष्टं मङ्गलंफुले ॥” इति । तदत्राचार्येणालिखनन्तस्य काम्यत्वं व्यनक्ति । काम्यकर्मा- णि चानेन पृथक्सूत्रितानि यथोपयोगन्तथाच वक्ष्यति “अथातःकाम्यमि” ( ४।५।१ )- ति । किन्त्वेतन्मुरारिमिश्रादिभिः प्रत्युक्तम् । तथाचोक्तब्राह्मणवचनान्ते “षष्ठे मासेऽन्न- प्राशनम्” इति पारस्करीयम् । “षष्ठेमासेऽन्नप्राशनं जातेषु दन्तेषु वे”-ति गौड़ाक्षीयञ्च- वचनमुपन्यस्य शङ्कितम् । ननु गोभिलाचार्येणाकथनादस्मिन्कल्पेऽन्नप्राशनं कर्त्तव्यमेव नेति चेन्न-उक्तयुक्तैरेव । ( २।७।२१ सू० ) । नचेतिकर्त्तव्यताबोधकाभावादेवाकरण- मिति वाच्यम् । बोरेश्वरादिभिस्तस्याः प्रतिपादनात् । नच तल्लिखितान्नप्राशने “अन्नं वा एकच्छन्दस्यमि”-त्यादिमन्त्रैर्होमे प्रमाणाभावः । मन्त्रलिङ्गस्यैव प्रमाणत्वात् । नच तन्मन्त्राणां सूत्रकारेणान्यत्र विनियुक्तत्वान्निराकाङ्क्षत्वेन मन्त्रलिङ्गमात्रमकिञ्चि- त्करमिति वाच्यम् । एकमन्त्रस्यापि बहुत्र विनियोगदर्शनात् । सकलशिष्टाचाराच्चेति- दिक् । कश्चित्तु-अस्मिन्कालेऽन्नप्राशनं न संस्कारकं नामकरणेन सह पूर्वापरक्रमानियमाद्बर्षे नामकरणे तत्पूर्वमेवतत्करणात् । अत एव हिरण्यगर्भमहादाने सामवेदेऽन्नप्राशनं नास्ती- त्युक्तं निबन्धिभिः । अपितु “भारद्वाजीमांसेन वाक्प्रसरण्कामस्ये”-त्याद्युक्तफलेन का- म्यमिति । तन्न । एवं निष्क्रमणमपि संस्कारकन्नभवेत् । हिरण्यगर्भे तु षोड़शक्रियान्त- गतञ्चेत्युक्तम् । अन्यथा यजुर्वेदिनां नामकरणस्य न संस्कारता स्यादिति । भाष्यकृतस्तु-सूत्रानुक्तमन्नप्राशनं परशाखोक्तक्रमेण कर्त्तव्यम् । “यन्नाम्नातं स्वशा- खायामि-”ति कात्यायनवचनात् । “तथाप्यश्ववृयुभिर्गृह्णीयादि”-ति श्रुतेश्च । सति स- म्भवे