गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 243, कुल 332 में से
संदर्भ में पढ़ें२१२ चूड़ाकरणविधिः । [ २ प्रपाठके- तथा— "गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः । बैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥" इति मनुराह । भाष्यकृतस्तु-अत्रातः शब्दः स्मृत्यन्तरोक्तकाललाभायेत्या- हुः(१) । तथाच मनुः— "चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमाब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥" इति । एतेन— "ततः संवत्सरे पूर्णे चूडाकर्म विधीयते । द्वितीये वा तृतीये वा कर्त्तव्यं स्मृतिदर्शनात् ॥" इति यमवचने-द्वितीये वेत्यत्र पूर्णे इत्यनुषङ्गस्तेन तृतीयाब्दलाभः । नचैवं तृतीये वेति व्यर्थम् । तस्य तृतीयाब्दचरमावयवादिप्रशस्तपरत्वात् । अन्यथा पक्षत्रयानुपपत्तिः । तथा च लौगाक्षिः-"तृतीये भूयिष्ठे गते चूडा कार्या"इति ॥ याज्ञवल्क्यः "चूडाकार्या यथाकुलम्"इत्याह । एवञ्चोक्तकालानां विकल्पः शा- खाभेदाऽपेक्षया व्यवस्थित इति कल्पतरुः ॥ अस्योपनीत्या सहचरणे तु— "आद्येऽब्दे कुर्वते केचित्पञ्चमेऽब्दे तृतीयके । उपनीत्या सहैवेति विकल्पाः कुलधर्मतः" । इति प्रयोगपारिजातोक्तं वचनमेव मानम् ॥ १ ॥ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ २ ॥ निगद्व्याख्यातमेतत् ॥ २ ॥ तत्रैतान्युपक्लृप्तानि भवन्ति ॥ ३ ॥ तत्र-तस्मिन्नुपलिप्ते भूमिभागे । एतान्यनुपदवक्ष्यमाणानि । उपसमीपे- ऽग्नेःक्लृप्तानि आसादितानि भवन्ति । कर्तुरनियमः ॥ ३ ॥ कानि पुनस्तानि ? कस्यां वा दिश्यग्नेरासादयितव्यानीत्युच्यते— एकविꣳशतिर्दर्भपिञ्जल्य उष्णोदककꣳस औदुम्बरः क्षुरः आदर्शो- वा क्षुरपाणिर्नापित इति दक्षिणतः ॥ ४ ॥ दर्भपिञ्जल्यः । पवित्रलक्षणलक्षिताः पूर्वमुक्ताः ( १।७।६ ) ताः सप्त सप्त कृत्वा स्थानत्रय आसादयितव्याः । उष्णमुदकं यस्मिन्सः कंसः कांस्यपात्रम् । उदुम्बरस्ताम्रम् । "उदुम्बरस्तु देहल्यां वृक्षभेदेचषण्डके । ( १ ) अत्रारुचिबीजन्तु वक्ष्यमाणकल्पतरुकारव्याख्यानमेव । कातीयकल्पेहि 'यथा- मङ्गलं सर्वेषाम्' इत्युक्तम् ॥ तेन सामगानान्तृतीय एव वर्षे चूडाकरणं गोभिलीयानाम- विस्थितम् ॥