भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

२१२ चूड़ाकरणविधिः । [ २ प्रपाठके- तथा— "गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः । बैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥" इति मनुराह । भाष्यकृतस्तु-अत्रातः शब्दः स्मृत्यन्तरोक्तकाललाभायेत्या- हुः(१) । तथाच मनुः— "चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमाब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥" इति । एतेन— "ततः संवत्सरे पूर्णे चूडाकर्म विधीयते । द्वितीये वा तृतीये वा कर्त्तव्यं स्मृतिदर्शनात् ॥" इति यमवचने-द्वितीये वेत्यत्र पूर्णे इत्यनुषङ्गस्तेन तृतीयाब्दलाभः । नचैवं तृतीये वेति व्यर्थम् । तस्य तृतीयाब्दचरमावयवादिप्रशस्तपरत्वात् । अन्यथा पक्षत्रयानुपपत्तिः । तथा च लौगाक्षिः-"तृतीये भूयिष्ठे गते चूडा कार्या"इति ॥ याज्ञवल्क्यः "चूडाकार्या यथाकुलम्"इत्याह । एवञ्चोक्तकालानां विकल्पः शा- खाभेदाऽपेक्षया व्यवस्थित इति कल्पतरुः ॥ अस्योपनीत्या सहचरणे तु— "आद्येऽब्दे कुर्वते केचित्पञ्चमेऽब्दे तृतीयके । उपनीत्या सहैवेति विकल्पाः कुलधर्मतः" । इति प्रयोगपारिजातोक्तं वचनमेव मानम् ॥ १ ॥ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ २ ॥ निगद्व्याख्यातमेतत् ॥ २ ॥ तत्रैतान्युपक्लृप्तानि भवन्ति ॥ ३ ॥ तत्र-तस्मिन्नुपलिप्ते भूमिभागे । एतान्यनुपदवक्ष्यमाणानि । उपसमीपे- ऽग्नेःक्लृप्तानि आसादितानि भवन्ति । कर्तुरनियमः ॥ ३ ॥ कानि पुनस्तानि ? कस्यां वा दिश्यग्नेरासादयितव्यानीत्युच्यते— एकविꣳशतिर्दर्भपिञ्जल्य उष्णोदककꣳस औदुम्बरः क्षुरः आदर्शो- वा क्षुरपाणिर्नापित इति दक्षिणतः ॥ ४ ॥ दर्भपिञ्जल्यः । पवित्रलक्षणलक्षिताः पूर्वमुक्ताः ( १।७।६ ) ताः सप्त सप्त कृत्वा स्थानत्रय आसादयितव्याः । उष्णमुदकं यस्मिन्सः कंसः कांस्यपात्रम् । उदुम्बरस्ताम्रम् । "उदुम्बरस्तु देहल्यां वृक्षभेदेचषण्डके । ( १ ) अत्रारुचिबीजन्तु वक्ष्यमाणकल्पतरुकारव्याख्यानमेव । कातीयकल्पेहि 'यथा- मङ्गलं सर्वेषाम्' इत्युक्तम् ॥ तेन सामगानान्तृतीय एव वर्षे चूडाकरणं गोभिलीयानाम- विस्थितम् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१३ कुष्ठभेदेऽपि च पुमांस्तान्ने तु स्यान्नपुंसकम्" इति मेदिनी । तस्यायमौ- दुम्बरः । “प्रोद्घृत्य प्रच्छिन्दन्” इत्यग्रिम[१६] सूत्रे छेदनस्याशङ्क्यमानत्वात् । नहि काष्ठेन तत्सम्भवति । तदभावे-आदर्शो वा । आसमन्ताद्दृश्यते मुखमत्रे- त्यधिकरणे घञ्, आदर्शो दर्पणः “आदर्शोदर्पणः प्रोक्त” इत्यमरमाला “दर्पणे मुकुरादर्शौ” इत्यमरश्च । क्षुरेति । क्षुरं पाणौ करे यस्य स तथाविधोनापितः । इति-एतानि । दक्षिणतः । अर्थात्कग्नेः ॥ ४ ॥ आनडुहगोमयः । कृसरः स्थालीपाको वृथापक इत्युत्तरतः ॥ ५ ॥ आनडुहः । अच्छिन्नमुष्कवृष(१)सम्बन्धी गोमयः । कृसरश्चासम्यक्पक्वौ तिलतण्डुलौ । “कृसरस्तु(२)तिलौदनः” इत्यमरः ॥ स्थालीपाकश्चरुः । स ख- ल्वयं वृथापकः । अवघातादिसर्वसंस्काररहितः । कर्मण्यव्याप्रियमाणश्चेति वृथात्वम्पाकस्य । इति एतद्द्वयम् । उत्तरतोऽग्नेरासादयितव्यम् ॥ ५ ॥ व्रीहियवैस्तिलमाषैरिति पृथक्पात्राणि पूरयित्वा पुरस्ता- दुप(नि)दध्युः ॥ ६ ॥ व्रीहियवैरिति द्वन्द्वनिर्देशेनाभिधानान्मिलिताभ्यां व्रीहियवाभ्यामेवं तिल- माषाभ्याम्पात्रद्वयं पूरणीयम् । पृथक् पात्राणीति बहुवचननिर्देशाच्चतुर्भिः पृथ- ग्भूतैः पात्रचतुष्टयमित्येवं षट्पात्राणामासादनं सिध्यति । एवमेव वीरपद्ध- तिस्वरसोऽपि । पुरस्तात्पूर्वस्यान्दिश्यग्नेः । उप(नि)दध्युः-स्थापयेयुः ॥ ६ ॥ कृसरोनापिताय सर्वबीजानि चेति ॥ ७ ॥ “दातव्यानी”ति शेषः । इतिनाऽऽ(३)द्यर्थकेनान्यदपि पारितोषिकन्देयमि- त्युपदिशति । एतानि च प्रसङ्गादत्राऽभिहितानि प्रदानन्तु प्रतिपत्तिरूपतयाऽ- स्य कर्मान्त एव, वेतनदानस्य तदैवोचितत्वादिति भाष्यकारादयः ॥ ७ ॥ अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्मुखोपविशति ॥ ८ ॥ अथेत्यानन्तर्यार्थम् । आज्यसंस्कारानन्तरमित्यर्थः । माता-मातृस्थानीया-


( १ ) अनड्डान् शब्दोऽभिधाने “उक्षाभद्रोबलोवर्द” इत्येवं पर्याये वृषभनाम्नि पठि- तः । अनः शकटं वहतीति तदर्थः । “अनः क्लीबे जले शोके मातृस्यन्दनयोरपी”ति रभ- सः । तथाभूतश्चाच्छिन्नमुष्क एव भवतीति ॥ ( २ ) वीरपद्धतौ तु-ततः सत्यनामन्यग्नौ तिलतण्डुलमुद्गसाधितं स्थालीपाकं पचे- दित्युक्तम् ॥ ( ३ ) “ज्वलितिकसन्तेभ्योनः” ( ३।१।१४० ) । इति पाणिनीये तथादर्शनात् ॥ अमरकोशेऽपि “इति हेतुप्रकरणप्रकाशादिसमाप्तिषु” इति ॥

२१४ चूड़ाकरणविधिः। [ २ प्रपाठके- ऽन्यापि(१)। प्राची-प्राङ्मुखी ॥ ८ ॥ अथ यस्तत्करिष्यन्भवति पश्चात्प्राङवतिष्ठते ॥ ९ ॥ अथेति-किञ्चित्पूर्वप्रकृतं स्मारयति । किन्तत् ? व्याहृतिभिर्होमं, तथाच पूर्वसूत्रम् “व्याहृतिभिर्होमोयथापाणिग्रहणे तथा चूड़ाकरणे०” इत्यादि । ( १।२।२७।२८ ) तेनात्र पुरस्ताच्चोपरिष्टाच्च चतस्र आहुतयो भवन्ति ॥ यः कश्चित्पित्रादिस्तत्कर्म करिष्यन्भवति स महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्र आहुतीर्हुत्वाऽथानन्तरं गृहीतकुमाराया मातुः पश्चात्प्राङ्-प्राङ्मुखः । अव- तिष्ठते-ऊर्ध्वजानुस्तिष्ठेत् ॥ ९ ॥ अथ जपत्या-“यमगात्सविता क्षुरेणे”ति सवितारं मनसा ध्यायन्नापितम्प्रेक्षमाणः ॥ १० ॥ ( मं० ब्रा० १।६।१ ) अथ-तथाविधावस्थानन्तरमेव । सवितारं-सूर्य्यम् । मनसा-श्रद्धादि- गुणयुक्तेन । अन्यथा ध्यानस्य मानसिकत्वप्रसिद्धेर्म्मनसेत्यनर्थकं स्यात् । तथा च न्यायः “सिद्धस्योपन्यासोविशेषावगतिकरः” इति । ध्यायन्-चिन्त- यन् । नापितं क्षुरपाणि प्रेक्षमाणोऽवलोकयन् “आयमगादि”-त्येतन्मन्त्रं ज- पति-जपेत् । मन्त्रार्थस्तु-हे कुमार ! ‘अयं’ नापितः । साक्षात् ‘सविता’ सर्व- भूतानाम्प्रसविता देवः सूर्यः । ‘क्षुरेण’ उपलक्षितः । उपलक्षणेऽत्र ( पा० २।३। २१ ) तृतीया । ‘आगात्’ आगतः । त्वच्चूड़ाकरणाय । आङोव्यवहितप्रयोगः ( पा० १।४।८२ ) छान्दसः ॥ १ ॥ इति ॥ १० ॥ “उष्णेन वाय उदकेनैधी-”ति वायुं मनसा ध्यायन्तु- ष्णोदककंसं प्रेक्षमाणः ॥ ११ ॥ ( मं० ब्रा० १।६।२ ) जपतीत्यनुवर्त्तते । वायुं श्रद्धापूतेन मनसा चिन्तयन्नुष्णोदककंसम् । उ- ष्णोदकयुक्तं कांस्यपात्रं प्रेक्षमाणोऽवलोकयन् “उष्णेन वायो०” इति-इमम्म- न्त्रञ्जपेदित्यर्थः । मन्त्रार्थस्तु-हे ‘वायो’ ! ‘उष्णेनोदकेन’ गृहीतेन कुमारस्य शिरः । प्लावयितुम् ‘एधि’ आगच्छ “अडितश्च” ( पा० ६।४।१०३ ) इति हेर्धिः ॥ २ ॥ इति ॥ ११ ॥ दक्षिणेन पाणिनाऽप आदाय दक्षिणाङ्कपुष्णिकामुन्दति “आप उन्दन्तु जीवसे” इति ॥ १२ ॥ ( मं० ब्रा० १।६।३ ) ( १ ) उत्तरसूत्रे यः कश्चिदित्युक्तेरत्रापि तथाऽभ्युपगमस्याजानिकाचारपरिगृहीत- त्वात् ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१५ अपः प्रकृतादुष्णोदककांस्यपात्रात् । आदाय गृहीत्वा कपुष्णिकाम् । मूर्ध्नो- भयतः केशान् । “कपुष्णिकाऽभितः केशा(१)मूर्द्धिन, पश्चात्कपुच्छलम्” इति- च्छन्दोगपरिशिष्टात् । उन्‍दति-उन्दयति-क्लेदयति “उन्‍दी क्लेदने” (रु० प०) अन्तर्भावितण्यर्थः । क्वचित्तथैव पाठः । अत्र करणमन्त्रमाह-आप इति । अस्यार्थः । वायुनाऽऽनीताः ‘आपः’ एनं कुमारम् ‘जीवसे’ जीवितुम् ( जीवना- यास्य ) “तुमर्थे सेऽसेनि”-( पा० ३।४।९ ) त्यादिनाऽसे प्रत्यया । “अव्य- यकृत्तोभावे” इति महाभाष्यानुशासनात् ॥ १२ ॥ “विष्णोर्दंष्ट्रोऽसी”त्यौदुम्बरं क्षुरं प्रेक्षतेऽादर्शं वा ॥ १३ ॥ ( मं० ब्रा० १।६।४ ) औदुम्बरं-ताम्रमयम् । “औदुम्बरम्भवेत्ताम्रं फलाद्यौ यज्ञशाखिनः” इत्य- जयः । प्रेक्षते-अवलोकयति ।। अवलोकयेदितिविधिरत्र (पा०३।४।७) लेडर्थः । एवमग्रेऽपि । मन्त्रार्थस्तु-हेक्षुर ! त्वं ‘विष्णोः’ ‘दंष्ट्रः’ दंष्ट्रा बृहद्दन्तः ‘असि’ भ- वसि ।। पुंस्त्वमार्षम् ॥ १३ ॥ “ओषधे त्रायस्वैनमि”-ति सप्त दर्भपिञ्जलीर्दक्षिणायां कपुष्णि- कायामभिशिरोग्रां निदधाति ॥ १४ ॥ ( मं० ब्रा० १।६।५ ) आसादितानामेकविंशतिदर्भपिञ्जलीनां ( सप्तशः पृथक् स्थापितानाम् । ) मध्यात् सप्त दर्भपिञ्जलीर्गृहीत्वा कुमारस्य दक्षिणायाम्(२) कपुष्णिकायाम् जू- टिकायाम् “ओषधे त्रायस्वैनम्” इति मन्त्रेण निदधाति-स्थापयेत् । क- थम् ? अभिशिरोग्राः । शिरसोऽभीत्यभिशिरः । अव्ययीभावः ( पा०२।१।१४ ) समासः । अग्राणि यासान्तान्तथाविधाः “कृत्वेति” शेषः । मन्त्रार्थस्तु-हे ‘ओष- धे !’ कुशतृण ! ( ओषध्यधिष्ठातृदेवते ! ) ‘एनं’ कुमारं ‘त्रायस्व’ रक्ष । “त्रैङ्पालने” ( भ्वा० आ० ) प्रार्थनायां लोट् इति ॥ ५ ॥ १४ ॥ ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनाौदुम्बरं क्षुरं गृहीत्वाऽऽदर्शं वाऽभिनिदधाति “स्वधिते मैनँहिंसीरि”तिः॥१५॥ ( मं० ब्रा० १।६।६ ) ता दर्भपिञ्जलीर्दक्षिणकपुष्णिकाञ्च निगृह्य-सर्वतोभावेन गृहीत्वा अभि- निदधाति-संलग्नां धारयति । “स्वधिते मैनं हिं सीरि-”ति मन्त्रेण ।


( १ ) कं शिरः पुष्णाति । शीतातपादिभ्योरक्षणेनेति शेषः ॥ ( २ ) अत्र दक्षिणशब्दोभागं विशिनष्टीति न सर्वनामताऽस्य । एवमग्रे ( १९ सू०) उत्तरशब्दोऽपि न द्विवचन इति वक्ष्यते । तथाचामरः “वामे शरीरं सव्यं स्यादपसव्य- न्तु दक्षिणम्” इति ॥

२१६ | चूडाकरणविधिः । | [ २ प्रपाठके- मन्त्रार्थस्तु-'स्वधिते !' हे(१)ताम्रक्षुर ! त्वम् 'एनं' कुमारं 'मा हिंसीः' न हिंसि- ष्यसि । भविष्यति माङि लुङ् ( पा० ३।३।१७५ ) "न माङ्योगे" ( पा०६।४। ७४ ) इत्यडभावः ॥ १५ ॥ निधाय च— “येन पूषा बृहस्पते”रिति त्रिः प्राञ्चम्प्रोहत्यप्र(वि)च्छिन्दन्त्स- कृद्यजुषा द्विस्तूष्णीम् ॥ १६ ॥ ( मं० ब्रा० १।६।७ ) त्रिः-वारत्रयम् । प्रोहति-प्रेरयति क्षुरम् । अप्रच्छिन्दन्-केशच्छेदमकू- र्वन् । क्वचिदविच्छिन्दन् इतिपाठः । अर्थतस्तौल्यमेव । तत्र प्रकारमाह-सकृदि- ति । यजुषा-“येने”त्युक्तेनैव । द्वि-र्द्विवारं, तूष्णीम्-अमन्त्रकमेव । यजुर्यथा- “येन पूषा बृहस्पतेर्वायोरिन्द्रस्य चावपत् । तेन ते वपामि ब्रह्मणा जीवात्वे जीवनाय दीर्घायुष्याय बलाय वर्चसे”॥७॥ इति । अस्यार्थः । हे कुमार ! 'येन' स्वधितिना 'पूषा' देवः 'बृहस्पतेर्वायो- रिन्द्रस्य च' कपुष्णिकाम् 'अवपत्' भद्रङ्कृतवान्(२) । 'तेन' स्वधितिना 'ते' तव कपुष्णिकाम । 'वपामि' भद्रङ्करोमि । किमर्थम् ? 'जीवातवे' एतदेव- विवृणोति 'जीवनाय' अस्यैवार्थः 'दीर्घायुष्याय बलाये'ति । 'वर्चसे' तेजोवृद्ध्य- र्थम् (३) । इति ॥ १६ ॥ अथायसेन प्रच्छिद्यानुडुहे गोमये निदधाति ॥ १७ ॥ अथेति-पूर्वप्रकृतार्थम् । यः पूर्वप्रकृतक्षुरपाणिर्नापितस्तदीयेनायसेन लौहमयेन क्षुरेण प्रच्छिद्य-प्रकर्षेण पिञ्जलीभिः सहैव दक्षिणां कपुष्णिकां ( जूटिकां ) छित्वा । आनडुहे-गोमये । पूर्वमग्नेरुत्तरतः समासादिते । निद- धाति-स्थापयेत् । मन्त्रानुपदेशादमन्त्रकमेव ॥ १७ ॥ एतयैवाऽऽवृता कपुच्छलम् ॥ १८ ॥ अतिदिशति-एतयैवेति । अनन्तरोक्तयैवाऽऽवृता-परिपाट्या (प्रक्रियया) कपुच्छलम् । “संस्कुर्यादि”ति शेषः । कपुच्छलन्तु शिरः पश्चाद्भागस्थाः केशा उक्त-( २।९।१२ ) वचनात् ॥ ( १ ) यद्यपि स्वधितिशब्दो वज्रपर्याये ( निघं० २।२०।१६ ) पठ्यते । लोके तु "द्वयोः कुठारः स्वधिति"रिति कुठारपर्यायेऽभिधाने ( अमरे ) न तु क्षुरे । तथापि ताम्र- क्षुरस्यैव स्वधिति सञ्ज्ञा शब्दार्णवे "औदुम्बरःक्षुरः प्रोक्तः स्वधितिरि" ॥ ( २ ) केशानच्छिन्दन् "क्षौरन्तु भद्राकरणम्मुण्डनं वपनं त्रिषु" इत्यमरः ॥ ( ३ ) तादर्थ्ये चतुर्थी ( पा० २।३।१३ वा० ) ।

के-शिरशि ( पश्चाद्भागे ) पुच्छवल्लम्बितो यः केशपाशः स कपुच्छल इत्याख्यायते ॥ १८ ॥ पुनरतिदिशति— एतयैवोत्तरां कपुष्णिकाम् ॥ १९ ॥ उत्तरशब्दोवामवचनः । वामामपि कपुष्णिकामेतयैव प्रक्रियया संस्कुर्या- दित्यर्थः ॥ १९ ॥ अत्रापि विशेषमाह— उन्दनप्रभृत्येवाऽभिनिर्वर्त्तयेत् ॥ २० ॥ प्राक्तनं सूत्रद्वयमनेन विशिष्यते । उन्दनप्रभृति-क्लेदनप्रभृत्येवावृतम् । अभि सर्वतोभावेन निर्वर्त्तयेत् । आवर्त्तयेत् । न पुनः सर्वाण्यावृदावर्त्तनीया । तस्मा—“दक्षिणेन पाणिनाऽप आदाय” इत्येवमादिकामावृतमावर्त्तयेन्न ततः पूर्वमपीत्यर्थः । तु शब्दोविशेषणार्थः । कथन्नाम? कपुच्छले संस्क्रियमाणे कुमारमुदङ्मुखं धारयेद्यथा प्राञ्चं प्रोहणादिकं कर्तुं शक्येतेति ॥ २० ॥ उभाभ्यां पाणिभ्यां मूर्द्धानं परिगृह्य जपेत् “त्र्यायुषमद्मग्नेरि-”ति २१ ( मं० ब्रा० १।६।८ ) मूर्द्धानं-मस्तकं, कुमारस्य । “मूर्द्धा ना मस्तकोऽस्त्रियाम्”-त्यमरः ॥ ऋड्वन्त्यत् । मन्त्रस्तु— “त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् । यद्देवानान्त्र्यायुषन्तत्ते अस्तु त्र्यायुषम्” ॥ ८ ॥ इति । अस्यार्थः-‘जमदग्ने’र्महर्षेर्ऋचीकपुत्रस्य कश्यपस्य ‘अगस्त्यस्य’ ‘देवानाम्’ इन्द्रादीनाञ्च ‘यत्त्र्यायुष्यम्’ त्रीण्यायूंषि समाहृतानीति समाहारद्वन्द्वे “अचतुरे” ( पा० ५।४।७७ ) त्यादिनाऽच्समासान्तः । बाल्ययुवावस्थाविरत्वानि । यद्वा “शतं वै पुरुषस्यायुरि-”ति श्रुतेः शतत्रयवर्षात्मकमायुः । ‘तत्’ त्र्यायुषम् । हेभद्रक ! ( कृतचूड ! ) ‘ते’ तव ‘अस्तु’ भवतु । इत्याशास्यते ॥ ८ ॥ इति ॥ २१ ॥ एतयैवाऽऽवृता स्त्रियास्तूष्णीम् ॥ २२ ॥ एतया-प्रकृतया । आवृता-प्रक्रिययास्त्रियाः कन्यकाया अपिसर्वे- ऽधस्तनोक्ताः संस्कारा भवन्ति । न पुनरानन्तर्याच्चूडाकरणाभिप्रायमेव । एव- कारेण व्याप्त्यवगमात् । “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः” इति मनु- वचनाच्च । किन्त्वेतावान्विशेषोयदस्यास्तूष्णी(ममन्त्रक)मिति ॥ २२ ॥ अत्र प्रतिप्रसवमाह— मन्त्रेण तु होमः ॥ २३ ॥ तुशब्दः समुच्चये भिन्नक्रमश्च । तेन वृद्धिश्राद्धमपि समन्त्रकमेव भव- ३८ गो० गृ० सू

तीत्यर्थः ॥ २३ ॥ उदगग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्र-कुल-कल्पम् ॥ २४ ॥ अग्नेः । उदङ्-उत्तरतः । उत्सृप्य-गत्वा । कुशलीकारयन्ति-नापितेन मुण्डयन्ति । "कुमारमिति" शेषः । कर्त्तुरनियमः । कुशलभद्रशब्दयोः पर्या- येपाठात् कुशलीकरणं भद्राकरणमित्यनर्थान्तरम् । तथाचामरः "शौरन्तु भद्रा- करणं मुण्डनं वपनन्त्रिषु" इति । कथमित्यपेक्षायामाह-यथेति । गोत्रे यथा- "वासिष्ठाः पञ्चचूडाः स्युस्त्रिचूडाः कुण्डपायिनः" इत्यादि । कुले यथा-"भद्रा(१)- दित्यानां सूर्यायतनसन्निधौ" इति । कल्पे यथा-"सशिखं कौथुमादीनां वपनं समुदाहृतम्" इत्यादि । एवञ्च कौथुमवारायणादीनां समावर्त्तनात्प्राङ्मुण्डनं सशिखमेवेति । तथाच समावर्त्तनान्ते-"केशश्मश्रुलोमनखान्वापयतिशिखा वर्ज्जम्" ( ३।४।२४ ) इति सूत्रम् ॥ परिशिष्टमपि- "सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणाम् । आशरीरविमोक्षाय ब्रह्मचर्य्यञ्च चेद्भवेत् ॥" इति भाष्यकृतः । आशरीरेति । नैष्ठिकब्रह्मचारिणां स्नानात्प्रागपि शिखाधर्त्तव्येत्यर्थः ॥ २४ ॥ आनडुहे गोमये केशान्कृत्वाऽरण्यं हृत्वा(२)निखनन्ति ॥२५॥ पूर्वमासादिते आनडुहे गोमये समस्तान्केशान्कृत्वा-निधाय । अरण्यं हृत्वा-नीत्वा तत्रैव निखनन्ति । बहुवचनादनियतः कर्त्ता ॥ २५ ॥ स्तम्बे हैके निदधति ॥ २६ ॥ हेत्यैतिह्यार्थोनिपातः । एके किलाचार्याः । व्रीह्यादिस्तम्बे(३) तान् केशान्निखनन्ति ॥ २६ ॥ यथार्थम् ॥ २७ ॥ तन्त्रसमापनङ्कर्त्तव्यमित्यर्थः । अपरे तु मन्यन्ते-यथार्थमिति-यस्य येनार्थः प्रयोजनं स तं कुर्यात् । इति । कथन्नाम ? त्र्यायुषमित्यादिना मूर्द्ध- परिग्रहे कृते उत्तरतोऽग्नेः कुशलीकारयन्ति । असावपि कर्मशेषं समापयेदिति चन्द्रकान्तः ॥ २६ ॥ गौर्दक्षिणा ॥ २८ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि०प्र०स्य नवमी कण्डिका ॥३॥९॥ॐ॥ ( १ ) भद्रादित्या-मगादयः । भगाः शाकद्वीपिनः । एवमन्येऽपि ॥ ( २ ) अरण्यं ( ण्य ) गत्वा इति पाठान्तरम् ॥ ( ३ ) "अप्रकाण्डे स्तम्बगुल्माविति" ह्यमरः । प्रकाण्डस्त्वरोर्मूलस्कन्धयोरन्तरम् । तथाचामरः "अस्त्री प्रकाण्डं स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः" इति । "स्तम्वागु- च्छस्तृणादिनः" इति च ॥

९ कण्डिका ] गोभिलगृह्यसूत्रे- २१६ चूडाकरणकर्मणः ॥ २८ ॥ अत्र सूत्रकाराऽनुक्तोऽपि कर्णवेधः (पूर्वमकृत(१)श्चेत्) आवश्यक एवेति गार्हस्थ्यधर्मे कुण्डलधारणस्य मन्वाद्युक्तस्यान्यथाऽनुपपत्त्या कल्प्यते । तथाच मनुः- “वैणवीन्धारयेद्यष्टिं सोदकञ्च कमण्डलुम् । यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले ॥” इति । वेदम्-कुशमुष्टिम् । तदेतद्दीक्षाकाले। श्रुतिश्च-“दीक्षायां कुण्डली भवती-”ति । परन्तु-न संस्कारान्तर्गतः । तन्मध्येऽस्य(२)पाठाभावात् । क्रमस्तत्र पारस्करोक्त एव । “यन्नाम्नातं स्वशाखायाम्पारक्यमविरोधि चे”ति कातीयपरिभाषणात् ॥ अत्र यथोचितकालाकृता नामकरणादिसंस्कारा व्याहृतिहोमानन्तरंक्रमा- विरोधेनोपनयनात् पूर्वमनुष्ठेयाः । इति द्रष्टव्यम् । तथाच महाव्याहृतिहोमानां सर्वप्रायश्चित्तत्वमुक्त्वा-कात्यायनः- “संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन । हुत्वैतदेव कर्त्तव्या ये तूपनयनादधः ॥” इति । अत्रोपनयनादध इत्युक्तचोपनयनकालातिक्रमे नेदम्प्रायश्चित्तमपि तु व्रात्य- स्तोमादीत्यनुपदं व्यक्तीभविष्यति ॥ २८ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां“मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वितीय-पाठकस्य नवमी कण्डिका ॥ २ ॥ ९ ॥* ॥ ( १ ) मुण्डनाख्योऽपि कर्मविशेषश्चूड़ाकर्मेण एवानुरूपः ( शिखाधारणाय ) कुमाराणाम्कुमारीणां वाधुनातनैः कुलीनैराजानिकाचारसिद्धतया क्रियते । तत्र कर्णवे- धोऽपि यथाविहितकालमनुष्ठ्येति । सचेदकृतइत्यर्थः ॥ ( २ ) तत्र ( संस्कारेषु ) गौतमेनचत्वारिशदभिहितास्तत्रमुख्या ( एका ) दश । “गर्भाधानं-पुंसुवने-सीमन्तोन्नयनं-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो- पनयनं (चत्वारिवेदव्रतानि स्नानं) सहधर्मचारिणीसंयोगः” । इति । सहधर्म्मचारिणी- संयोगोविवाहः । सुमन्तुना च “ब्राह्मणक्षत्रियांविशां वृत्तिः-“गर्भाधान-पुंसवन-सीम- न्तोन्नयन-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-पनयन-व्रतचर्या-ऽध्ययन-स- मावर्त्तन-विवाह-सोष्यन्ती-यज्ञदानानी-”ति षोडशोक्ताः। वृत्तिः-संस्क्रिया । सोष्य- न्ती-सुखप्रसवार्थङ्कर्म । कैश्चित्त्वन्यथैव स्मर्यते । यथा- “गर्भाधानमतश्च पुंसवनकं सीमन्तजाताभिधे नामाख्यं सह निष्क्रमेण च तथान्नप्रा- शनंकर्म्म च । चूड़ाख्यं व्रतबन्धकोऽप्यथ चतुर्वेद्वतानां पुरः केशान्तः सविसर्गकःपरिणयः स्यात्षोडशी कर्मेणाम् ॥” इति । अङ्गिरसा च पञ्चविंशतिरुक्ताः। तदत्र गौतमोक्तेषु- चत्वारिवेदव्रतानि स्नानञ्चेत्यंशः पूर्वेरेवाऽशक्यतया परिहृतः । शेषा दश पूर्वैरेव परिसं.

४. चतुर्थ प्रपाठक: समावर्तन, नित्य-श्राद्ध, पार्वण-श्राद्ध, वास्तु-कर्म एवं उपसंहार

( अथोपन(१)यनम् - ) अथ दशमीकण्डिका- अत ऊर्ध्वमुपनयनलिङ्गा मन्त्रा ब्राह्मणे श्रूयन्ते तेषां विनियोगविवक्षुरिद- माह— गर्भाष्टमेषु ब्राह्मणमुपनयेत् ॥ १ ॥ ख्याता। यथा— “गर्भाधानं-पुंसवनं-सीमन्तोन्नयनन्तथा । जातकर्म-नामकर्म-निष्क्रमोऽन्नाशनं परम् ॥ चौलकर्मोपनयनं-विवाहोदशमः स्मृतः। संस्काराश्च दशैवैते प्राक्कागृह्येषु कर्मणाम्” ॥ इति। अत्रापिचत्वारोमुख्या इति मुरारिमिश्रादिमतमुपक्रम एव दर्शितन्तत्र द्रष्टव्यम्॥ ( १ ) अथोपनयनपूर्वे प्रतिषिद्धाप्रतिषिद्धानि प्रसङ्गादुपन्यस्यन्ते-तत्रमनुः(कुमार- मधिकृत्य)— “नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते । शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥” इति। स्वधानिनयनात् श्राद्धमन्त्रात् ऋते-विना। वेदे-वेदोदितकर्मणि। निमित्ते- सप्तमी। यद्योग्योयावद्भवतीत्यर्थः। गौतमः-“प्रागुपनयनात्कामचार-भक्ष-काम वादः। नास्याचमनकल्पोविधीयते” इति। कामेति त्रिषु सम्बध्यते। यथेष्टगमन-भक्षण-भाषणः स्यादित्यर्थः । अनेन-वृथायानाश्लीलभाषण-पर्युषितान्नभक्षणादीनि न निषिद्धानि । इति प्रतिपादितम्। यानि पुनरत्यन्तपतनीयानि सुरापानादीनि तानि निषिद्धान्येव । प्रायश्चित्तोपदेशात्। कल्पग्रहणादाचमनमात्रमस्तीति गम्यते। गौतमः। “मद्यं नित्यं ब्राह्मणोवर्जयेत्” इति। अत्र ब्राह्मणशब्दोजातिवचनः । जातिस्तु-जन्मनैवेतिस्थितम्। तथाच भगवता महाभाष्यकारेणस्मृतम्— “तपः श्रुतञ्च योनिश्चेत्येतद्ब्राह्मणकारकम् । तपःश्रुताभ्यांयोहीनो जातिब्राह्मणएवसः” ॥ वामनोऽपि “जननेन याप्राप्यते सा जातिरिति । तथा पतञ्जलिरपि-स्मरति-“सति मूले तद्विपाकोजात्यायुर्भोगाः” । इति । मूले-पूर्वजन्मानुष्ठितकर्मशेषे प्रारब्धापरनाम- के-इत्यर्थः। वसिष्ठः “न ह्यस्य विद्यते कर्म किञ्चिदाऽऽमौञ्जीबन्धनात्। अन्यत्रोदक- कर्म-स्वधा-पितृसम्बन्धेभ्यः” इति। उदककर्म-पितृतर्पणम्। स्वधा श्राद्धम्। पितृ- सम्बन्धं भूमिच्छत्रादिदानम्। दक्षः— “जातमात्रःशिशुस्तावद्यावदष्टौ समा वयः। स हि गर्भसमो ज्ञेयोव्यक्तिमात्रप्रदर्शकः ॥” इति। समा वर्षाणि। व्यक्तिमात्रेण नतु कर्माधिकारित्वेन। ब्रह्मपुराणे “माता- पित्रोरथोच्छिष्टं बालोभुञ्जीतशुची”-ति। एतेनान्यदीयोच्छिष्टभोजने दोष एव। दक्षः— “उपनीतस्य दोषोऽस्ति क्रियमाणैर्विगर्हितैः। अप्राप्तव्यवहारोऽसौ बालः षोडशवार्षिकः ॥” इति। एतेन धनप्रयोगेऽस्वातन्त्र्यमस्य दर्शितम्। न तु प्रायश्चित्ताभावः।

१७ कण्डिका ] गोभिलगृह्यसूत्रे- २२१ गर्भाष्टमेषु-गर्भत आरभ्य गणनया येऽष्टमा वर्षा(१)स्तेषु। बहुवचनव्य- क्तिभेदाभिप्रायेण। यदोद्गय(२)नादीनां समुच्चयस्तदैव। ब्राह्मणमुपनयेत्। उपनयनकर्म्मणा योजयेत्। उपनयनन्नामाध्ययनार्थमाचार्यसमीपे येन कर्म्मणा नीयते-(३)तदुच्यते। तथाचाहुः— “गृहोक्तकर्म्मणा येन समीपं नीयते गुरोः। बालो वेदाय तद्योगाद्वालस्योपनयं विदुः॥” इति। गर्भाष्टम इत्युपलक्षणम्। तथाच याज्ञवल्क्यः— “गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम्॥” राज्ञामेकादशे सैके विशामेके यथाकुलम्॥ इति। गर्भाष्टम इत्याधानकालापेक्षया। अष्टम इतिजननापेक्षया। पृथगु- पादानात्। अत्रेच्छया विकल्पमाहुः। उपनयनमेवोपनायनम्। स्वार्थे णिच्। सैके इत्येकादश इत्यनुषक्तेनान्वितम्। विशान्द्वादश इत्यर्थः। अत्रोभयत्रापि समस्तगुणभूतोऽपि गर्भशब्दोऽनुवर्त्तनीयः। गोभिलसंवादात्। यथाकुलम्। कुलस्थित्या(४) केचिदुपनयनमिच्छन्ति। विशेषकालमाह आपस्तम्बः “वसन्ते ब्राह्मणमुपनयीत। ग्रीष्मे राजन्यम्। शरदि वैश्यम्।” इति। वसन्त इत्या- द्यधिकफलार्थम्। मनुरूपनयनमुपक्रम्य— “ब्रह्मवर्चसकामस्य कार्योविप्रस्य पञ्चमे। राज्ञोबलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे॥” इति। ब्रह्मवर्चसं वृत्त-स्वाध्याययोः सम्पत्तिः। इहार्थिनः। ऐहिकार्थका- मुकस्य। एवमापस्तम्बः—“सप्तमे ब्रह्मवर्चसकामं, नवमे तेजस्कामं, दशमे- ऽन्नाद्यकामं, मेकादश इन्द्रियकामं, द्वादशे पशुकामम्”इति। गौतमः “उपन- यनं ब्राह्मणस्याष्टमे, नवमे पञ्चमे वा काम्यम्” इति। अत्राष्टमे नित्यमित्य- र्थतः। अत्र विशेषः शुभकर्म्मनिर्णये—यथाह पौलस्त्यः। “पञ्चमे षष्ठवर्षे तु सगर्भे सप्तमेऽपि वा। गुरुशुक्रशशाङ्कानां विशुद्ध्याऽऽरम्भयेद्व्रतम्॥

(१) “वर्षोऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु। प्रावृट् काले स्त्रियाम्भूम्नी”—ति मेदिनी॥ “वत्सरे वर्षमस्त्रियाम्” इत्यमरश्च॥ (२) तथाचाश्वलायनः-“उदगयन आपूर्यमाणपक्षे चौलकर्म्मोपनयनविवाहाः। सा- र्वकालिकमेके विवाहम्” इति। व्याख्यातमेतदधस्तात् (२।२।१)॥ (३) येन कर्म्मणाऽध्ययनार्होभवति। तदुपनयनम्। अत्र देवलः-प्रथमं मातापितृ- भ्याङ्गर्भाधानादिभिः संस्कृतोगर्भाष्टमे वर्षे तूपनयनार्होभवति। तत्रोपाध्यायः पिता। गायत्री माता। एवमुपनीतोद्विपितृको द्विजातिरि”ति। द्विपितृकः-द्विमातापितृकः। एकशेषादुपक्रमेद्वयकीर्त्तनात्॥ (४) स्थितिर्म्मर्यादा। मर्यादा धारणा स्थितिर्”—त्यमरः।

[२२२ | उपनयनविधिः । [ २ प्रपाठके]

यदात्वभीष्टमे वर्षे शुद्धिर्नास्ति बृहस्पतेः । अष्टमे वा, तथाप्येवं व्रततन्त्र न कारयेत् ॥” इत्येवं गोचरशुद्ध्यादिकमत्रोपयुक्तं बहुपपादितमेवमहामहो०हर्षनाथशर्म्म- कृते संस्कारदीपकेऽपीति ततएवावगन्तव्यं, ग्रन्थविस्तरभिया च नेहोपन्य- स्तम् ॥ १ ॥ गर्भेकादशेषु क्षत्रियम् ॥ २ ॥ उपनयेदित्यनुवर्त्तते ऽन्यदुक्तमधस्तात् ॥ २ ॥ एवम्— गर्भद्वादशेषु वैश्यम् ॥ ३ ॥ स्पष्टम् ॥ ३ ॥ यथोक्तकालेषूपनयनासम्भवे त्वाह— आषोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालोभवत्याद्वाविंशात् क्षत्रियस्याचतुर्विंशाद्वैश्यस्य ॥ ४ ॥ अत्राभिविधावाङ् न मर्यादायाम् ॥ “तेन(१) विना मर्यादा तेन सहेत्य- ( १ ) तच्छब्देनात्रावधिरुच्यते । तेन मर्यादार्थकत्वे पञ्चदशवर्षान्तादिरेवगौणका- लोऽवगम्येत । न चेतदिष्टम् । यच्च यमवचनम्— “पतिता यस्य सावित्री दशवर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥ प्रायश्चित्तम्भवेदेषां प्रोवाच वदताम्वरः । विवस्वतः सुतःश्रीमान्यमोधर्म्मार्थतत्त्ववित् ॥ सशिखं वपनङ्कृत्वा व्रतङ्कुर्य्यात् समाहितः । हविष्यं भक्षयेदह्नं ब्राह्मणान्पञ्च सप्त वा ॥ एकविंशतिरात्रन्तु पिवेत्प्रसृतियावकम् । अतोयाचकशुद्धस्य तस्योपनयनं स्मृतम् ॥” इति । तत्पतितसावित्रीकत्वाभावेऽपि पञ्चदशवर्षोपरि प्रायश्चित्तविशेषोपदेशार्थम् । न पुनः पञ्च दशवर्षोपरि पतितसावित्रीकत्वमस्यार्थः । तथाविधवचनव्यक्तेरभावात् । लघुनः प्रायश्चित्तस्योपदेशाच्च । पतितसावित्रीकाणां हि व्रात्यस्तोमः क्रतुःप्रायश्चित्तम्म- न्वादिभिरुक्तम् । राजन्यवैश्ययोश्चाविशेषात् । अत्रापि तथैवेत्याह—तथाराजन्यवैश्ययो- रिति । तस्मात्पतिता यस्य सावित्रीत्यस्य यस्य सावित्रीग्रहणन्न सम्पन्नमित्यर्थः । अत्र सपादधेनुप्रदानं, व्रात्यस्तोमे तु सपादनवधेनूनामिति विवेचितमन्यत्र । अत्र विशे- षश्चन्द्रकान्तभाष्ये द्रष्टव्यः ॥ स्वतन्त्रास्त्वेवाचक्षते-ब्राह्मणादीनामष्टमादिवर्षोपरि ( गौ- णकाले ) महाव्याहृतिहोमरूप एव प्रायश्चित्तन्तथाच छन्दोगपरिशिष्टे कात्यायनः— “गौणेषु तेषु कालेषु कर्म्मचोदितमाचरेत् । प्रायश्चित्तप्रकरणप्रोक्तान्निष्कृतिमाचरेत् ॥” इति । प्रायश्चित्तञ्च व्यस्तैः समस्तैश्च महाव्याहृतिभिर्होम एव प्रायश्चित्तप्रकरणे एवं

भिविधि” रिति परिभाषणादिह षोडशादिवर्षान्तः कालो गौणः । तथाच “औपनायनिकः कालः परः षोडशवार्षिकः । द्वाविंशतिः परोऽन्यस्य स्याच्चतुर्विंशतिः परः ॥” इति । “विप्रस्य षोडशाद्वर्षाद्राज्ञो द्वाविंशतेः परम् । वैश्यस्याष्टत्रिकाद्वत्त्सावित्रीपतनं भवेत् ॥” इति । “षोडशाब्देहि विप्रस्य राजन्यस्य द्विविंशतिः । विंशतिः स चतुर्थीच वैश्यस्य परिकीर्त्तिता ॥ इति चैवमादि ॥ ४ ॥ अतऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ५ ॥ अतएतस्मात्कालादूर्ध्वन्त्रयोऽप्येते पतितसावित्रीका भवन्ति । स्वकाले सावित्र्या-( गायत्र्या- ) मनूच्यमानायां ये पतन्ति-प्रायश्चित्तविशेषभागिनो भवन्ति ते पतितसावित्रीका व्रात्याश्च भण्यन्ते ॥ ५

र्धम् । तथाच स्मरणम्— “व्रात्याचार्यस्य भुक्तान्नं कृच्छ्रपादेन शुद्धयति । यश्चोपनयते व्रात्यान् त्रिभिः कृच्छ्रैः स शुद्ध्यति ॥” इति । एवमुत्तरत्रापि बोद्धव्यम् । न याजयेयुरित्यविशेषात्पाकयज्ञैरपि । नैभिः सह विवहेयु-र्विवाह( सम्बन्धं )कुर्युः । विवाहयेयुरिति पाठे एभिः सह विवाहसम्बन्धं न कारयेयुरिति व्याख्येयम् । एष्वपि कालेष्वनुपनीता एते त्रयो- प्यकृतप्रायश्चित्ता उपनयनाद्यनर्हा भवन्तीति(१) परमार्थः । उपनयनप्रतिषेधादेव सर्वत्र प्रतिषेधे सिद्धे यद्येकेन चिल्लोभादज्ञानाद्वोपनीताः स्युस्तथापि नोत्तराणि कर्म्माणि पतितसावित्रीकाणाङ्कुर्य्यादिति सर्वेषाम्पाठः क्रियते ॥ ६ ॥ यदहरुपेष्यन्माणवको भवति प्राग एवैनन्तदहर्भोजयन्ति कुशलीकारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन वाससाऽच्छादयन्ति ॥७॥ यदहर्यस्मिन्नहनि । अत्यन्तसंयोगे(२) द्वितीया ( पा० २।३।५ ) उपैष्यन्- उपनयनं कारयिष्यन् । माणवको माणवोऽनधीतवेदः । स्वार्थेकन् । तथा च कात्यायनः— “अनुचोमाणवो ज्ञेय एणः कृष्णमृगः स्मृतः । रुरुर्गौरमृगः प्रोक्तस्तमुनिः शण उच्यते ॥”


( १ ) तथाच श्रुतिः “स्वकालेऽनुच्यमानया सावित्र्या ये पतन्ति प्रायश्चित्तिनो भवन्ती”ति । स्मृतिः “पतितसावित्रीकेषूपपातकम्” इति । याज्ञवल्क्यः— “आषोडशादाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशाङ्काल औपनायनिकः स्मृतः ॥ अत ऊर्ध्वम्पतन्त्येते सर्वधर्म्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥” इति । मनुः— “नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान्यौनांश्च सम्बन्धान्नाचरेद्ब्राह्मणः सह” ॥ इति । विधिवद्यथाशास्त्रम्पूतैरकृतप्रायश्चित्तैः । ब्राह्मान्वेदाध्यापनकृतान् । यौनान् । विवाहादीन् । एवञ्च व्रात्यस्तोमनामके यागे कृते उपनयनाद्यधिकारो नतूपनयनस्थान एवात्र व्रात्यस्तोम इति युक्तम् । तस्य प्रायश्चित्तरूपस्य संस्कारकत्वेमानाभावादिति । आपस्तम्बः “अशूद्राणामदुष्टकर्मणामुपनयनम्” इति । अदुष्टकर्मणां पतनीयकर्मभिर- दूषितानाम् । ( २ ) कालाध्वनोरत्यन्तसंयोगे द्वितीया विधीयते । तत्र च गुणक्रियाद्रव्यैरभावेन चेति सूत्रशेषो भाष्यादौ । तेषु गुणेन-मासङ्कल्याणी, क्रियया-मासमधीते, द्रव्येण-मास

इति । अनृचो वेदशून्यः । प्रग एव प्रातरेव । “सायं साये प्रगे प्रातरि”- त्यमरः । एनं-माणवकं, भोजयन्ति-इत्युक्त्याऽत्र शङ्का न कार्येत्युपदिशति । भोजनञ्चात्र गोदुग्धादेरेव । तथा च श्रुतिः “पयोव्रतो ब्राह्मणो भवति यवागू- व्रतो राजन्य आमिक्षाव्रतोवैश्य.” इति । व्रतमाहारः । तथा च गृह्यान्तरम्- “पयोयवाग्वामिक्षाहाराः क्रमशोद्विजातीनाम्” इति । यवागूक्ता ( १-७-२०) आमिक्षा शृतोष्णे क्षीरे दधियोगेन कठिनं द्रव्यम् । तथा च श्रुतिः “तप्ते पय- सि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” इति । अभि- धानञ्च “आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः” इति ( अमरः ) वाजिनमतिरिच्यमानं तत्पय उच्यते ॥ कुशलीकारयन्ति मुण्डयन्ति “क्षौरन्तु भद्राकरणम्मुण्डन वपनन्त्रिषु” इत्यमरः । भद्राकरणं कुशलीकरणमित्यनर्था- न्तरम् । अत्र शिखा न धार्या- “एते लूनशिखास्तस्थु कोमलैर्दन्तकुड्मलैः । कुशकाशा विराजन्ते वटवः सामगा इव ॥” इति विष्णुपुराणपर्यालोचनात् । समावर्त्तने “शिखाववर्ज्जमि”ति विशेषोप- देशाच्च । आप्लावयन्ति-स्नापयन्ति । आप्लावनञ्चेदं घटत्रयाम्बुना । तथा च गृह्यासङ्ग्रहः “स्नानञ्चतुर्भिः कलशैः प्लावनन्तु त्रिभिर्घटैरि”ति । अलङ्कु- र्वन्तिकेयूरकटककुण्डलादिभिर्यथालाभम् । अहतेनेति । अत्र गृह्यासङ्ग्रहः- “सकृद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहन्तन्तद्विजानीयाद्दैवे पैत्रे च पावनम्” ॥ इति । वाससेत्येकवचनादिदमधरीयमिति द्रष्टव्यम् । उत्तरीयन्तु उपरि- ष्टाद्यदजिनं सूत्रयिष्यति तदेव स्यात् । सर्वत्र बहुवचननिर्देशात्कर्त्तुरनियमः । अत्र भाष्यकृतः-“अग्निहोत्रञ्जुहोति यवागूंम्पचती”ति वत् अत्राप्यार्थक्र- मेण शाब्दक्रमोल्लङ्घनमिति प्रथमं वपनमनन्तरं स्नानमथभोजनमिति क्रमः । ज्योतिषे भोजनानन्तरं वपननिषेधात् । तथाहि- “न स्नानमात्रगमनोन्मुखभूषितानामभ्यक्तभुक्तरणकालविवासनानाम् । सन्ध्या निशाकुजदिने च तिथौ च रिक्ते क्षौरं हितं न नवमेऽह्नि न चापि षष्ठ्या- म्” इत्याहुस्तन्न-अदृष्टार्थक्रमस्य ज्योतिश्शास्त्रविरोधेनानपवादात् । दृष्टान्ते त्वन्यथाऽनुपपत्त्या तथा कल्प्यते । प्रकृते निषेधस्यान्यक्षौरविषयत्वेनाप्युपपत्ते- रन्यथा रोहिण्यादौ नववस्त्रधारणनिषेधात्तत्र विवाहविधेरानर्थक्यं स्यान्न स्या- च्च रविवारादौ उपनयनन्तत्र क्षौरनिषेधात् । अत एव “ब्राह्मणान् भोजयेत्तं च पर्युप्तशिरसमलङ्कृतमानयन्ती”ति पारस्करेऽपि भोजनानन्तरमेव मुण्डनन्द- र्शितमिति । धीरपद्धतिस्वरसोऽप्येवमेवेति महामहो० मुरारिमिश्राः प्राहुः ॥७॥ २६ गो० गृ०सू०

: म - रो - मृ - गाः Look at the characters: म (ma) रो (ro) मृ (mṛ) - 'म' with 'ऋ' matra! गाः (gāḥ) - 'ग' with 'आ' matra and visarga! Yes, "मरोमृगाः" (maromṛgāḥ)! Amarakosha says: "रोहिताश्चमरो मृगाः" ! So in L31: "रोहिताश्चमरोमृगाः" इति । Not 'ष्ट्राः'! It is definitely "रोहिताश्चमरोमृगाः" इति ।!

Now check L31 continued: तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा- मरविवेके महेश्वरेण कृतम् ॥ Wait, let's read carefully: "तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्व्याख्यानञ्चा-" मरविवेके महेश्वरेण कृतम् ॥ Wait: जातिभेदख्यापकन्तद्व्याख्यानञ्चा- मरविवेके महेश्वरेण कृतम् ॥ Let's check every character: त (ta) त्र (tra) ए (e) ण (ṇa) श्चा (ścā) रु (ru) ने (ne) त्र (tra) इ (i) त्ये (tye) वं (va

इति । विकल्पः शक्त्यपेक्षया कुलकल्पापेक्षया वा ॥ ९ ॥ मुञ्ज-काश-तामुन्योरशनाः ॥ १० ॥ तमुनिः शणः । रशना मेखला । “रशना मेखला काञ्ची”त्यमरः । अन्यत्पूर्ववत् । मनुः— “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥” इति । त्रिवृत् नवगुणीकृता त्रिवृतेति प्रथमान्तम् “आपश्चैव हलन्ता- नाम्” इति टाप् । एकेन ग्रन्थिनेत्यादीच्छया विकल्पः । उपलक्षणे तृतीया ( पा० २।३।२१ ) अत्र श्लक्ष्णा-मसृणस्पर्शा। मूर्वा-वल्लीविशेष. “दुग्ध (ध) मरुरि”ति प्रसिद्धा । तेन निर्मिता मौर्वी ज्या । [धनुर्गुणः ] तस्यैव सतो मेख- लायां विनियोगः । मुञ्जालाभे-मुञ्जाद्यभावे । अश्मन्तकः कुशसदृशतृणविशे- षः । बल्वजाः “शावय” इति प्रसिद्धाः । ग्रन्थौ प्रवरसाम्येन व्यवस्थितोविकल्प इति सुरारिमिश्राः (१) प्राहुः ॥ १० ॥ पार्ण-बैल्वा-ऽऽश्वत्था दण्डाः ॥ ११ ॥ पार्णः पालाशः “पलाशे किंशुकः पर्णोवातपोत” इत्यमरः । बिल्वाश्वत्थौ प्रसिद्धौ । पालाशादयः क्रमेण ब्राह्मणादीनान्दण्डाः प्रशस्ता इत्यर्थः । तथा च पारस्करः “पालाशो ब्राह्मणस्य दण्डो बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे वा सर्वेषाम्” । इति । एषामभावे सर्वेषां सर्वे यज्ञियाः । औदुम्बर इति कुल- कल्पभेदेन । स्मृतिः— “धारयेद्वैल्वपालाशौ दण्डौ केशान्तिकौ द्विजः । यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥” इति । मनुः— “केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यान्नासासम्मितो विशः ॥” इति । केशस्य ललाटोर्ध्वकेशजन्मस्थानस्यान्तः केशान्तः। एवञ्चोर्ध्वस्थित- स्य पुरुषस्य भूमितस्तत्पर्यन्तपरिमाणंतो ब्राह्मणस्य दण्डः कार्यः । भ्रमध्य सम्मितो राज्ञः । नासाग्रसम्मितो वैश्यस्येत्यर्थः । यत्तु-केशान्तिकः कर्णसमीप- ( १ ) अत्र कुल्लूकभट्टः । अत्र च वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण सम्बन्धः । किन्तु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्चायं मुख्यामुख्यापेक्षासम्भ- वाद्गृहीतव्यः ॥ इति ॥

केशमूलपर्यन्त इति कस्यचिद्व्याख्यानन्तन्न तथासति ब्राह्मणक्षत्रिययोस्तस्य तुल्यपरिमाणत्वेन पृथगुपदेशानर्थक्यापत्तेरिति बोध्यम् । तथा— “ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचानाग्निदूषिताः ॥” इति । ऋजव इति—अम्रादन्यत्र । “यूपवक्रा” इति गौतमेन नताग्रत्वस्य विधानात् । अव्रणा अच्छिद्राः । सौम्यदर्शनाः । अतिस्थौल्यादिनाऽभयानकाः । अनुद्वेगकारा स्वरूपेणाभीषणा इति मुरारिः । अदुःखदाः परेषामघातुकाना- मिति वयम् ॥ ११ ॥ इदानीमुक्तानां वसनानां व्यवस्थामुपदिशति— क्षौमंꣳशाणं वा वसनं ब्राह्मणस्य, कार्पाशं क्षत्रियस्याऽऽविकं वैश्यस्य ॥ १२ ॥ ऋज्वर्थं सूत्रम् ॥ १२ ॥ एतेनैवेतराणि द्रव्याणि व्याख्यातानि ॥ १३ ॥ एतेनैवानुसारेण । इतराणि अजिन-वसन-दण्डाख्यानि । व्याख्यातानि त्रयाणां यथाक्रमेणोक्तानि ॥ तथाच-ऐणेयमजिनं, मौञ्जी रशना, पार्णोदण्डश्च ब्राह्मणस्य, रौरवमजिनं, काशी रशना, वैल्वोदण्डश्च क्षत्रियस्य, आजमजिनं, शाणी रशना, आश्वत्थोदण्डश्च वैश्यस्येति सिद्धम् ॥ १३ ॥ अलाभे वा सर्वाणि सर्वेषाम् ॥ १४ ॥ अलाभे—स्वस्वजात्युक्तवसनादीनामसम्पत्तौ । सर्वाणि क्षौमादीनि वस- नादीनि सर्वेषां भवन्ति यथालाभम् । अत एव वसिष्ठः “सर्वेषान्तान्तवमर- क्तम्” इति । अरक्तं विकृतरक्तरहितं, कौशुम्भन्तुप्रशस्तं, तथाच गौतमः “स- र्वेषां कार्पासमविकृतं, काषायमप्येके” इति ॥ १४ ॥ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ १५ ॥ निगद्व्याख्यातमेतत् ॥ १५ ॥ “अग्ने व्रतपत” इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽवतिष्ठते ॥ १६ ॥ ( मं० ब्रा० १।६।९—१३ ) “यथा पाणिग्रहणे तथा चूडाकरणे चोपनयने” (१।९।२८) इत्यतिदेशा- दुपनयनकर्म्मणः पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिश्चतस्र आहुतयो भवन्ति, तदाहुतिचतुष्टयं कृत्वा “अग्ने व्रतपत” इत्येवमादिभिः पञ्चभिर्म्मन्त्रैः [ अ- नादेशादाज्येन ] पञ्चाहुतीश्च हुत्वा आचार्यः पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङ्

प्राङ्मुखः अवतिष्ठते-ऊर्ध्वस्थितोभवेत् । “हुत्वाऽऽचार्योऽवतिष्ठते”इति क्त्वा श्रवणात् कर्तृन्तरानुपदेशाच्च होमोऽयमाचार्यकर्तृक एव । मन्त्रास्तु माणव- कपठनीया “व्रतञ्चरिष्यामी”ति मन्त्रलिङ्गात् । नचेदानीं वेदपाठे तस्यानधि- कारः । उपनयनकर्मणः पूर्वमेव तथा स्यान्न तूपनयनकर्म्मण्यपि । मेखलामन्त्रे तत्कर्तृकपाठस्य सर्वसम्मतत्वात् । अन्यपठितमन्त्रेणान्यकर्तृकक्रियायाश्चाश्मा- रोहादौ बहुत्र दर्शनान्न किञ्चिदेतत् । कौमुदी—नारायण—शूलपाणि—हार- लताप्रभृतयोऽप्येवम् [१] ॥ १६ ॥ अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदगग्रेषु दर्भेषु ॥ १७ ॥ अत्रावतिष्ठत इत्यनुषञ्जनीयम् । अन्तरेणेति मध्यार्थेऽव्ययम् । तथाचा- मरः

: there is a 'ज', is there a dot? No dot. It's printed as "अनुषजनार्थश्चकारः" or "अनुषञ्जनार्थश्चकारः").

Let's check line 16: "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः । अवस्था य । ऊर्ध्वःस्थित्वा ।" Wait, "क्रियापत्तेरिति" or "क्रियाप्रवृत्तेरिति"? Look at L16: "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति" -> क्री (kri) या (yā) प (pa) त्ते (tte) रि (ri) ति (ti) Yes, "क्रियापत्तेरिति" (kriyā-āpatteḥ iti = because the action would fall/occur facing south, which is inauspicious). "मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः" - brilliant Sanskrit logic! Facing south in an auspicious rite would be an āpatti (undesirable occurrence).

Line 16-17: "अवस्था य । ऊर्ध्वःस्थित्वा । मन्त्रवान्-अध्ययनयुक्तः ।" Wait, "ऊर्ध्वःस्थित्वा" or "ऊर्ध्वं स्थित्वा"? Look at L16: "ऊर्ध्वःस्थित्वा" -> "ऊ र्ध्वः स्थि त्वा" (there

(द् + ग) or द् with virama? Look at: आ ङ् प ू र् व ा द् ग म े स ् Wait, it has a horizontal-ish stroke below द्, which in some fonts is just virama! But does it look like 'दू'? In many Nirnaya Sagar / Chowkhamba fonts, virama under द curves down-right like a little tail, often transcribed as द् or दू. But grammatically it is आङ्पूर्वाद् गमेः (ablative of आङ्पूर्व + गम्). It's clearly a virama on द! Wait, look at: आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः Let's write आङ्पूर्वाद्गमेस्ताच्छीलिकस्तृन्प्रत्ययः (or if it's printed as दू, wait, is there an actual standalone ू? No, it's attached to द: द्). It is definitely द्गमेस्! Wait, look at Note 2: अत्राङ्पूर्वाद्गमेलिङर्थे Same ligature द्ग!

Let's check L2: न्त्रा' आगमनशीलेन(१) ब्रह्मचारिणा । वयं 'समगन्महि' सङ्गच्छेमहि(२) । Wait, look at the beginning of L2: न्त्रा' आगमनशीलेन(१) Before न्त्रा, is there something? It starts with: न्त्रा' आगमनशीलेन(१)